Monday, August 17, 2015

॥ अमि पूर्वः इति सूत्रार्थविचारः ॥

अमि पूर्वः (६-१-१०३) इति सूत्रम् । अकः सवर्णे दीर्घः (६-१-१०१) इति सूत्रात् अकः इति अनुवर्तते । एकः पूर्वपरयोः (६-१-८४) इति अधिकारः । इको यणचि (६-१-७७) इति सूत्रात् अचि इति अनुवर्तते । तथा च सूत्रार्थः भवति - अकः अम् इत्यस्य अवयवभूते अचि परे पूर्वपरयोः पूर्वरूपम् एकादेशः भवति इति । उदाहरणं यथा - राम+अम् इत्यत्र "राम​" इति मकारात् परः अकारः, तस्य परत्र यदि अम् इत्यस्य अवयवभूतः अकारः भवति, तदा पूर्वरूपम् एकादेशः भवति, तेन रामम् इति रूपम् । अत्र अमि परे इत्येव अस्तु "अमि अचि" इति किमर्थम् इति प्रश्नः । अचि इति अनुक्ते सति एकादेशः "अम्" इति सम्पूर्णस्य भवेत् । तद्वारणार्थं "अमि अचि" इति उक्तम् । तेन "अम् इत्यस्य अवयवभूते अचि परे" इति सूत्रार्थलाभात्  मकारसहितस्य अकारस्य आदेशः न भवति । तदर्थम् "अमि अचि" इति अचि इत्यनुवर्तनं क्रियते ॥

अत्र कश्चन विचारः । कथं तर्हि काशिकाकारेण "अमि परतोरकः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति" इति उक्तम् इति प्रश्नः । तस्य समाधानम् उच्यते - तस्मादित्युत्तरस्य (१-१-६६), आदेः परस्य (१ -१-५४) इति परिभाषासूत्रे वर्तेते । तेन परस्य आदेः एव आदेशः भवति, एकः पूर्वपरयोः (६-१-८४) इति अधिकारे पूर्वपरयोः वर्णयोः एव पूर्वरूपम् एकादेशः भवति इत्यर्थः लभ्यते । एतद् एव मनसि निधाय काशिकाकारेण तथा उक्तम् ॥

तथा च काशिकापक्षे "अचि" इत्यनुवृत्तेः आवश्यकता नास्ति इति, मनोरमाकारादीनां पक्षे "अम्" इति सम्पूर्णस्य व्यावृत्तये "अचि" इत्यस्य अनुवृत्तिः इति च सिद्धम् ॥

वस्तुतः अत्र स्पष्टार्थमेव "अचि" इत्यस्य अनुवृत्तिः इति बोद्ध्यम् ॥

&&&&&& 

2 comments:

Kuldeep sharma said...

अम् प्रत्यये अच् प्रत्याहारस्य नववर्णेषु अकार एवास्ति .अवशिष्ट इउ.....अष्टौ वर्णा: अम् प्रत्यये तु न सन्ति.अकारस्य अनुवृत्ति: अच् स्थाने भवितुमर्हति वा?

Kuldeep sharma said...
This comment has been removed by the author.