Friday, July 31, 2015

बहुलग्रहणस्य तात्पर्यम्

एषः श्लोकः बहुत्र उद्धृतः व्याकरणग्रन्थेषु । अत्र पाठद्वयं दृश्यते । तद्यथा -

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । 
शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु ॥

अर्थः - बहुलं चतुर्धा भवति, शिष्टप्रयोगान् दृष्ट्वा बहुलज्ञानं प्राप्तव्यम् इत्यर्थः ।

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । 
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥

अर्थः - बहुत्र सूत्रेषु विहितं परिशील्य बहुलशब्दस्य अर्थः चतुर्धा ज्ञेयः ।

एतस्य श्लोकस्य कर्त्ता कः इति क्वापि न दृश्यते । सर्वत्र श्लोकः एव उद्धृतः । केवलं बालमनोरमाकारेण एव "तथा चोक्तम् अभियुक्तैः" इति निर्देशः कृतः । प्रायः पूर्ववैयाकरणानां भवितुमर्हति ।

तत्पुरुषे कृति बहुलम् (६-३-१४) इति सूत्रम् । तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति इति सूत्रार्थः । उदाहरणं यथा - स्तम्बेरमः (अलुक् भवति​), कुरुचरः (अलुक् न भवति) । अत्र वार्त्तिककारः "तत्पुरुषे कृति बहुलम् अकर्मधारये" इति आह । तात्पर्यं - कर्मधारये समासे बहुलं अलुक् न भवति इति वक्तव्यम्, यतः कर्मधारये "परमे कारके=परमकारके" इत्यत्र अलुक् न अपेक्ष्यते, नित्यं लुक् इष्यते । तत्र भाष्यकारः वार्त्तिकम् इदं मास्तु सूत्रे "बहुलम्" इति वर्तते, तेन सिद्ध्यति इति समाधानं दर्शयति । तत्र कैयटः वदति - सर्ववेदसाधारणत्वेन अनेन शब्दानां प्रतिपादनं क्रियते, तच्च प्रतिपदपाठस्य अशक्यत्वात् बहुलादिग्रहणेन कर्तव्यम् इति । तस्मिन् प्रसङ्गे नागेशः व्याख्याति - क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा इत्येव बहुलग्रहणेन लभ्यते ... मन्दबुद्धीनां विषविभागज्ञानार्थं लुग्-अलुग्-अनुक्रमणं प्रपञ्चेन क्रियते इति वार्त्तिकार्थः इति ।

एषः प्रपञ्चः "बहुलम्" इत्यस्य एव । तदेव - क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः ... इति कारिकया सङ्गृहीतम् । एतस्य कारिकायाः प्रपञ्चः एतादृशेषु बहुषु स्थलेषु भाष्ये प्रकारान्तरेण दृश्यते । तस्य एव सङ्ग्रहरूपा इयं कारिका केनचिद् अभियुक्तेन कृता ।

क्वचित्प्रवृत्तेः उदाहरणं यथा - स्तम्बेरमः (सप्तम्याः अलुक्), क्वचिद् अप्रवृत्तिः यथा - कुरुचरः (सप्तम्याः अलुक् न भवति अर्थात् लुक् भवति), क्वचिद् विभाषा (भवति, न भवति इति उभयथा) यथा- सरसिजम् (अलुक्), सरोजम् (अलुक् न​), क्वचिद् अन्यद् एव यथा - ब्राह्मणाच्छंसी (ब्राह्मणात्+शंसी=सन्धिकार्ये ब्राह्मणाच्छंसी) सप्तम्याः अलुक् विहितम्, अत्र तु पञ्चम्याः अलुक् दृश्यते इति सर्वं समञ्जसम् ॥

&&&&&&&

No comments: