यातुधानः
यत निकार-उपस्कारयोः (चुरादिः सकर्मकः सेट् उभयपदी) इति धातुः । केचित् खेद-उपस्कारयोः इत्यपि पठन्ति । निराकार-उपस्कारयोः इत्यपि पठन्ति । निराकारः=परिभवः इति क्षीरस्वामी । एतस्मात् धातोः ण्यन्तात् औणादिके उ-प्रत्यये यातुः इति रूपम् । यातवः (=यातनाः) यस्मिन् धीयन्ते इति यातुधानः । अधिकरणे ल्युट्-प्रत्ययः । तथा च यातुधानः इति रूपम् । अर्थः तु - येषु यातनानां (पीडानां) सोढुं (सहनं कर्तुं) क्षमता वर्तते ते यातुधानाः, तादृशी अलौकिकपीडासहनशक्तिः राक्षसेषु एव इति यातुधानाः = राक्षसाः इति ऋग्वेदभाष्ये (१-३५-१०) सायणः ॥
यातुधानः is derived from the root यत निकार-उपस्कारयोः. Definition of this word is - who are capable of tolerating torments. यातवः (=यातनाः) यस्मिन् धीयन्ते इति यातुधानः.
*****
No comments:
Post a Comment