Friday, July 17, 2015

हिरण्यकशिपुः

हिरण्यकशिपुः 

"हिरण्मयं कशिपु उपस्तृणाति", इति " हिरण्मय्योः कशिपुनोः पुरस्तात्" इति च शतपथब्राह्मणम् (१३-४-३.१) । छान्दसत्वात् क्लीबता । अत्र सायणः " कशिपु=आसनविशेषः" इति । "कशिपुर्मसूरकः" इति निगमेऽपि कात्यायनः । तादृशे हिरण्मय​-आसने उपवेष्टुम् अधिकारः होतुः (षोडशसु ऋत्विक्षु अन्यतमः) एव भवति । एषः प्रह्लादस्य पिता हिरण्यकशिपुः आत्मानं तद्योग्यं मत्वा तादृशे हिरण्यमय​-आसने उपविशति स्म । अतः तस्य नाम हिरण्यकशिपुः इति । एतस्य संह्लादः, अनुह्लादः, ह्लादः, प्रह्लादः इति चत्वारः पुत्राः, सिंहिका इति एका कन्या च आसन् ॥

 वर्येण यदुक्तं तदपि साधु । तच्च दार्शनिकं विश्लेषणम् ॥ 

*******

No comments: