The Same हैमाष्टकम् is explained as Vishnu Stuti here by श्लेष
॥ हैमाष्टकम् ॥
स्वयम्भू राजते शिवः
धृत्वा हैमम् अलौकिकम् ।
स्वयञ्च लुप्यते यश्च
स्मारयन् जीवितं क्षुद्रम् ॥१॥
स्वयम्भूः=स्वतः
उत्पन्नः न केनापि प्रतिष्ठापितः, शिवः=शिवं
कल्याणं अस्ति अस्मिन्, श्यति अशुभम् इति
वा शिवः विष्णुः, अलौकिकं=अप्राकृतिकं,
हैमं=हिममयं नरनारायणाख्यं हिमरूपं, धृत्वा=धारयन्, राजते=प्रकाशते । स्वयं च=स्वयमेव, लुप्यते=अन्तर्दधाति, यः च=यः विष्णुः (मासषट्कं बदरिकाश्रमे म्थित्वा ततः
मासषट्कं लुप्यते, ज्योतिर्मठं
प्रति गमनात्), जीवितं=जीवनं,
क्षुद्रं=क्षणिकम् इति, स्मारयन्=बोधयन् (जनान् लोकान्) ॥१॥
विभूतिं दर्शयन् स्वस्य
भक्तानाकर्षति स्वयम् ।
पर्वते चापि पाषाणे
नयत्यप्राकृतं शुभम् ॥२॥
स्वस्य=स्वकीयस्य,
विभूतिं=विभवहेतुभूतां लक्ष्मीं, तथा च उक्तं कूर्मे - "ऐश्वर्य्यं तस्य
यन्नित्यं विभूतिरिति गीयते" इति । अपि च "विभूतिरस्तु सूनृता" इति
ऋग्वेदभाष्ये "विभूतिः=लक्ष्मीः" इति सायणः । दर्शयन्=प्रकाशयन्,
भक्तान्=भागवतान्, स्वयं=स्वयमेव, आकर्षति=वशीकरोति ।पर्वते च=नरनारायणाख्ये पर्वतविशेषे, पाषाणे अपि=शालग्रामादिशिलास्वपि, अप्राकृतं=अलौकिकं, शुभं=कल्याणं, नयति=प्रापयति ॥२॥
नद्या धावितौ चरणौ तस्यामेकीभवन्मरो ।
बोधयन् मायाऽस्थिरतां
जायते ह्यमरो नाथः ॥३॥
नद्या=अन्तर्वाहिनीसरस्वतीयुतया
अलकनन्दया नद्या, धावितौ=प्रक्षालितौ,
चरणौ=पादौ तव, तस्याम्=तस्याम् अलकनन्दायाम्, एकीभवन्=लयं प्राप्नुवन् (जलरूपं धारयन्, विष्णुः मन्त्ररूपी बद्रिकाश्रमे, वनरूपी नैमिशारण्ये, अन्नरूपी श्रीजगन्नाथे तद्वद् जलरूपेण सर्वत्र जलेषु),
मरः=मर्त्यलोकः अर्थात् भूमिः (स्वयं मर्त्यः
जायते सौलभ्यात्) जायते । तेन मायाऽस्थिरतां=मायाजीवनस्य क्षणिकतां, बोधयन्=स्मारयन्, हि, अमरः
नाथः=देवनाथः, जायते=भवति ।
अर्थात् मररूपेण विद्यमानोऽपि अमरनाथः जायते इति चमत्कृतिः ॥३॥
सेव्यमानः कपोताभ्यां सुखदुःखे श्वेतनीले ।
जीवनस्य क्रमागते पक्वं
करोति मानसम् ॥४॥
कपोताभ्यां=कं च
पोतः च=कपोतौ ताभ्यां अर्थात् केन=जलेन, पोतेन=पोतरूपेण आदिशेषेण च, सेव्यमानः=भजमानः, जीवनस्य=जीवितस्य, क्रमागते=क्रमेण
आगते, श्वेतनीले=क्षीरसागरस्य
श्वेतत्वं, आदिशेषस्य कृष्णत्वं च,
सुखदुःखे=सुखस्य दुःखस्य च प्रतीके (इति
दर्शयन्), मानसं=जनमानसम् अर्थात्
भक्तमानसं, पक्वं=स्थिरं, करोति=कुरुते ॥४॥
ददद् श्रान्तिं गते मार्गे शीतं करोति सन्निधौ ।
पीडां विस्मृत्य ते रूपे
हैमे मज्जति मानवः ॥५॥
गते=अतीते,
मार्गे=जीविते, श्रान्तिं=श्रमेण उत्पन्नं कष्टं, ददत्=ददानः, सन्निधौ=तव समीपे
आगते सति, शीतं=सुखमयं, करोति=कुरुते, मानवः=मनुष्यः, पीडां=संसारवेदनां, विस्मृत्य=अविचिन्त्य,
ते=तव, हैमे=सुवर्णमये हिममये वा, रूपे=मूर्तौ "आप्रणखात् सर्व एव सुवर्णः" इति
छान्दोग्ये (१-६-६) श्रूयमाणत्वात् हैमो विष्णुः तद्रूपे, मज्जति=निमग्नः जायते ॥५॥
शिखरे च समासीनः सर्वं पश्यति शीतलम् ।
घर्मं करोति देहं
च शीतले हिमपर्वते ॥६॥
शिखरे=नरनारायणाख्ये
हिमशिखरे, समासीनः=स्थितः च,
सर्वं=निखिलं लोकं, शीतं=शान्तं, पश्यति=अवलोकयति, तव दर्शनाय आगते
सति शीतले=शीतयुक्ते, हिमपर्वते=हिमालये,
देहं च=अस्माकं शरीरं हि, घर्मं=औष्ण्यं, करोति=कुरुते । अर्थात् शीतले अपि हिमालये अस्माकं शरीरं
तप्तकुण्डेन औष्ण्यं रक्षति ॥६॥
झराणां प्रवहद्धाराऽनुकम्पारसस्य ते ।
दयाऽक्षयाऽस्तु
ते पूर्णा शैवं भवतु ते वरम् ॥७॥
ते=तव, अनुकम्पारसस्य=करुणारसस्य, यथा देशिकैराह - प्रपद्ये तं गिरिं प्रायः
श्रीनिवासानुकम्पया इक्षुसारस्रवन्त्येव यन्मूर्त्या शर्करायितम् इति तद्वत् ।
झराणां=निर्झराणां, प्रवहद्धारा=प्रवहन्ती
धारा, दया=करुणामयी, अक्षया=ह्रासरहिता, पूर्णा=परिपूर्णा च, अस्तु=भवतु । ते=तव, वरं=प्रसादः, शैवं=मङ्गलकारि, भवतु=अस्तु ॥७॥
कैलासे राजते नित्यं योगमुद्रां ददत्सदा ।
शीतलं
चक्षुरुन्मील्य मासस्द्वौ पश्यति भृशम् ॥८॥
कैलासे=के=जले,
लसः=लसनं दीप्तिः अस्य इति केलसः हलन्तात्
सप्तम्या इति अलिक्समासः । केलसः आदिशेषः केलसः एव कैलासः, तस्मिन्, अर्थात्
क्षीरसागरे आदिशेषे, नित्यं=सर्वदा,
योगमुद्रां=परमयोगमुद्रां, अर्थात् उपायरूपां मुद्रां शरणागतानां रक्षणे
तत्परमुद्रां प्रपतीरूपां मुद्रां वा धारयन्, ददत्=धारयन्, सदा=सर्वदा, राजते=विराजते ।
शीतलं=शीतयुतं, लक्ष्मी-भूदेवीसमेतत्वात्
शीतलत्वं, चक्षुः=नेत्रं, उन्मील्य=उद्घाट्य, द्वौ=उभौ, मासः=चन्द्र-सूर्यौ,
माति परिच्छिनत्ति कालम् इति मास् चन्द्रः
सूर्यः च, तथा च अदधुर्मास्यक्तून्
इति ऋग्भाष्ये "मासि=चन्द्रमसि" इति सायणः । भृशं=अतिशयं, पश्यति=विलोकयति सर्वदा मेघाच्छन्नत्वात्
हिमाच्छन्नत्वाद्वा चन्द्र-सूर्ययोः दर्शनम् अतिशयेन एव जायते ॥८॥
य इदमष्टकं भक्त्या पठेत्प्रतिदिनं नरः ।
यात्रायाः
फलमाप्नोति हैमो देवः प्रसीदति ॥९॥
यः नरः=यः मानवः,
इदम्=एतत्, अष्टकं=अस्टौ पद्यानि, भक्त्या=भक्तिपूर्वकं, प्रतिदिनं=प्रतिदिवसं, पठति=जपति, सः यात्रायाः=बद्रिकाश्रमयात्रायाः,
फलं=पुण्यं, आप्नोति=प्राप्नोति, हैमः=सुवर्णबिन्दुः अक्षोभ्यः इत्युक्तः हिममयः, देवः=भगवान् नारायणः, प्रसीदति=तस्मिन् प्रसन्नो भवति ॥९॥
*****
No comments:
Post a Comment