Sunday, June 21, 2015

योगः आसनं च

योगः आसनं च
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि (यो.सू.२-२९)

यमः, नियमः, आसनं, प्राणायामः, प्रत्याहारः, धारणा, ध्यानं, समाधिः इति योगस्य अष्टौ अङ्गानि ।

योग के आठ आङ्ग हैं वे इस प्रकार हैं - यम​, नियम​, आसन​, प्राणायाम​, प्रत्याहार​, धारणा, ध्यान​, समाधि ।

तत्र यमः नाम कः इति जिज्ञासायां उच्यते -
यम का मतलब क्या है? इस प्रश्न पर कहते हैं -
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः (यो.सू.२-३०)

अहिंसा, सत्यम्, अस्तेयं, ब्रह्मचर्यम्, अपरिग्रहः इति इमे पञ्च यमाः । "अहिंसा सर्वदा सर्वथा सर्वभूतानाम् अनभिद्रोहः" इति व्यासभाष्यम् । सर्वदा = सर्वेषु कालेषु, सर्वथा = सर्वैः प्रकारैः, सर्वभूतानां = सर्वेषां जन्तूनां, अनभिद्रोहः = द्रोहराहित्यं, प्रीतिः । तथा च सर्वभूतेषु त्रिष्वपि कालेषु सर्वप्रकारेण प्रीतिभावः एव अहिंसा । न केवलं हिंसायाः अकरणं, परन्तु प्रीतिप्रदर्शनम् अहिंसा । एवञ्च कस्मैचिदपि न द्रुह्येत्, प्रीतिं च सर्वेषु प्रदर्शयेत् ।
सत्यं भवति यथार्था वाक्, यथार्थं मनः च । दृष्टानुसारेण अनुमितानुसारेण च वाङ्-मनश्च भवेताम् ।
परद्रव्याणां अस्वीकरणं तेषु अस्पृहा च अस्तेयं भवति ।
गुप्तेन्द्रियसंयमः ब्रह्मचर्यम् । लोलुपानि इन्द्रियाणि अन्यानि अपि संयमेन रक्षणीयानि ।
अशास्त्रीयाणाम् अयत्नोपनतानामपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शनात् शास्त्रीयाणामपि उपार्जितानां च रक्षणादिदोषदर्शनाद् अस्वीकरणम् अपरिग्रहः । इत्थं यमाः निरूपिताः

अहिंसा सत्य अस्तेय ब्रह्मचर्य अपरिग्रह - ये ही पांच यम के नाम से जाने जाते हैं ।
अहिंसा वह है कि सभी प्राणियों में सभी काल में प्रीति भाव दिखाना ही अहिंसा है । अहिंसा केवल हिंसा न करना ही नहीं है, अपि तु प्रीति दिखाना भी है ।
सत्य होता है कि यथार्थ वाक् और यथार्थ मन ।
दूसरों के द्रव्य का अपहरण न करना और उन पर स्पृहा न करना ही अस्तेय है । अर्थात सूसरों के द्रव्य को अपहरण न करन ही अस्तेय नहीं है, किं तु उन पर मन से भी इच्छा न करना है ।
गुप्त इन्द्रिय पर संयम रखना ही ब्रह्मचर्य है । विषय पर प्रवृत्त होने वाले अन्य इन्द्रियों पर भी संयम रखना ब्रह्मचर्य होता है ।
विषय को स्वीकार नहीं करना ही अपरिग्रह है । इस प्रकार यम का निरूपण किया गया है ।

सम्प्रति नियमः क इति उच्यते ।
अब नियम क्या है यह बताया जाता है -
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः (यो.सू.२-३२)

शौचं, सन्तोषः, तपः, स्वाध्यायः, ईश्वरप्रणिधानम् इति इमे पञ्च नियमाः भवन्ति । तत्र शौचं भवति ब् आह्यम् आभ्यन्तरम् इति द्विधा । बाह्यं च मृज्जलादिजनितं भवति । आभ्यन्तरं चित्तशुद्धिः । सन्निहितसाधनाद् अधिकस्य अनुपादित्सा सन्तोषः इति व्यासभाष्यम् । अर्थात् अपेक्षामतिरिच्य असङ्ग्रहः एव सन्तोषः । तपः भवति द्वन्द्वसहनम् । द्वन्द्वाः च अत्तुम् इच्छा पातुम् इच्छा, शीतम् उष्णं, स्थानम् आसनम्, काष्ठमौनम् आकारमौनं च । अत्र काष्ठमौनं नाम इङ्गितेनापि स्वाभिप्रायस्य अप्रकटनम् । आकारमौनं नाम अकथनम् ।स्वाध्यायः नाम मोक्षशास्त्राणाम् अध्ययनं प्रणवस्य जपः वा । ईश्वरप्रणिधानं नाम परमपुरुषे सर्वकर्मणाम् अर्पणम् ।

शौच​, सन्तोष​, तपस्या, स्वाध्याय और ईश्वर प्रणिधान ये पांच नियम कहे जाते हैं । शौच बाह्य और आभ्यन्तर के रूप दो प्रकार हैं । बाह्य तो वह है कि जो मिट्ठी पानी आदि से होता है, आभ्यन्तर चित्त की शुद्धि है । जितना अपेक्षित है उस से अधिक वस्तु का संग्रह नहीं करना ही सन्तोष है । द्वन्द्वों का सहन करना तप कहलाता है, जैसे बुभुक्षा-पिपासा, शीत​-उष्ण​, आदि । स्नाध्याय है मोक्ष शास्त्रों का अध्ययन अथवा प्रणव का जप करना । उस परम पुरुष को अपने सभी कार्यों को अर्पित करना ही ईश्वर प्रणिधान है ॥

इस के बाद आता है आसन का स्थान । 
इतः परमेव आसनस्य स्थानम् । तद्यथा
स्थिरसुखम् आसनम् (यो.सू.२-४६)

स्थिरं च तत् सुखं स्थिरसुखम् । निश्चलं सुखावहं यत् तत् आसनम् । अत्र द्वादश आसनानि परिगणितानि भाष्यकारेण अन्ते तदादीनि इति आदिशब्दः प्रयुक्तः । अत आसनानाम् इयत्ता नास्ति ।

स्थिर रहकर सुख देने वाला ही आसन कहलाता है । इन आसनों के बारह प्रकारों का नाम लेकर इत्यादीनि कह दिये हैं भाष्यकार । अतः आसनों की संख्या कितनी है यह कहना सम्भव नहीं है । क्यों कि यह आचार्यों के अपने अपने अनुभव के आधार पर प्राणि और प्रकृतियों के अनुसार क्ऐइ प्रकार के हो सकते है ।

इस लेख का तात्पर्य इतना ही है कि आसन के पहले यम और नियम का अभ्यास करना अति आवश्यक है । सीधे आसन करने पर उतरना शास्त्र सम्मत नहीं है । अतः मन की शुद्धि पहले अपेक्षित है ।


एतस्य लेखस्य उद्देश्यं भवति आसनानाम् अभ्यासात् पूर्वं यमनियमयोः अभ्यासः करणीयः । साक्षात् आसनाभ्यासे अवतरणं न शास्त्रसम्मतम् । अतः अन्तःकरणशुद्धिः प्रथमम् अपेक्ष्यते ॥
*****

Friday, June 19, 2015

त्रिनयनः & त्रिनेत्रः

Why त्रिनयनः & त्रिनेत्रः is not as त्रिणयनः & त्रिणेत्रः?

पूर्वपदात्संज्ञायाम् अगः (८-४-३) is the Paninian rule. If र् or ष् occurs in the first member of (previous word of) a compound and this first member (previous word) does not have ग्, then न् in the second member of the compound is replaced by ण्, if the whole compound refers to a name - is the meaning of this Sutra. खरणसः is the example. Here, in the compound word खरणस​, there two members खर+नस​. The first member has र् and there is no ग् in it. So in the second member न् in नस is replaced by ण् as the whole compound refers to a name. Hence खरणस is the resultant word.

In the same way, त्रिनयनः and त्रिनेत्रः are also refer to a name (name of Shiva), र् is found in the first member of the compound, there is no ग् in it. So न् in the second member of the compound should be replaced by ण् as per this Sutra and the resultant words should be त्रिणयनः and त्रिणेत्रः. But, here we find त्रिनयनः and त्रिनेत्रः only. Why here  न् is not replaced by ण्?

The answer to this question is given like this – There is another Sutra क्षुभ्नादिषु च (८-४-३८). न् is not replaced by ण् in the words listed under क्षुभ्नादि group. But, the problem is we could not find नयनः and नेत्रः under this group. Then how is it not replaced? Here, Patanjali in his Bhashya on this Sutra says that अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः meaning if the instance of this rule “न् is not replaced by ण्” is not found anywhere, then it is to be taken as if it listed under क्षुभ्नादि group. As क्षुभ्नादि is classified as आकृतिगण​, we have to infer that such words as listed in that गण. 

So, in त्रिनयनः and त्रिनेत्रः, न् is not replaced by ण् as they are treated as listed under क्षुभ्नादि group.


*******

Sunday, June 14, 2015

अवाङ्मनसगोचरः

॥ अवाङ्मनसगोचरः ॥

द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम् (२.४.२) इति सूत्रम् । प्राणि-तूर्य​-सेनाङ्गानां यः द्वन्द्वः सः एकवद् भवति इति अर्थः । उदाहरणं यथा - पाणि-पादम्, मार्दङ्गिक​-वैणविकम्, रथिकाश्वारोहम् इति । ततः न दधिपयाआदीनि (२.४.१४) इति सूत्रम् । दधिपयआदीनि शब्दरूपाणि न एकवद् भवन्ति । एकवचनान्तानि न भवन्ति इति तात्पर्यम् । दधिपयआदिगणे "वाङ्मनसे" इति शब्दरूपम् अपि पठितम् । अतः वाक् च मनः च = वाङ्मनसे इति एव सर्वदा द्विवचनान्तं रूपम् एव भवति । अत्र संशयः भवति - वाक् च मनः च = वाङ्मनसी इति खलु स्याद् इति । अत्र समाधानम् उच्यते -अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्षामवाङ्मनसाक्षिभ्रुवदारगवौउर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षौपशुनगोष्ठश्वाः (५.४.७७) इति सूत्रेण केषाञ्चिद् शब्दरूपाणाम् अच्-प्रत्ययः समासान्तः विधीयते, समासनियमः च विधीयते । अत्र "वाङ्मनस​" इति अच्-प्रत्ययान्तः शब्दः स च द्वन्द्वसमासः इति पठ्यते । तस्मात् वाक् च मनः च = वाङ्मनसे इत्येव साधु रूपम् ॥

अत एव "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" (२.३०) इति योगसूत्रे व्यासभाष्ये "सत्यं यथार्थे वाङ्मनसे" इति व्याख्यातम् । "यस्य वाङ्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा" (२-१६०) इति मनुः अपि प्रयुक्तवान् । भगवान् आदिशङ्करः अपि छान्दोग्यभाष्ये "ते एते वाङ्मनसे वर्तनी मार्गौ याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी" (छा.१.१) इति प्रयुक्तवान् । किञ्च कालिदासः अपि "प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यम् अवाङ्मनसगोचरम् ॥" इति । तत्र मल्लिनाथः इत्थं व्याख्याति - वाक् च मनश्च वाङ्मनसे । "अचतुर​.." इत्यच्प्रत्ययान्तो निपातः । तयोर्गोचरो विषयो न भवतीति अवाङ्मनसगोचरः । तमेनं विष्णुं तुष्टुवुरस्तुवन् ॥" इति ।

तथा च शिष्टप्रयोगानुसारेण व्याकरणानुसारेण "वाङ्मनसे" इत्येव रूपं साधु । तेन सह समासे वाङ्मनसयोः गोचरः = वाङ्मनसगोचरः, न (भवति) वाङ्मनसगोचरः = अवाङ्मनसगोचरः इति सिद्धम् । कथमपि एकवचनान्तेन समासः "वाङ्मनसः गोचरः = वाङ्मनोगोचरः" अथवा षष्ठ्या अलुकि "वाङ्मनसोगोचरः" इति तु न सिद्ध्यति । यतः वाङ्मनसे इत्यस्य एकवचनान्तं रूपम् एव न भवति । तर्हि प्रश्नः - कथं स्वामिना विवेकानन्देन "अवाङ्मनसोगोचर​" इति प्रयुक्तम् इति प्रश्नः । तस्य त्रेधा समाधानं भवितुमर्हति - १) (मन्ये अहं स्वामिना एषः प्रयोगः वङ्गभाषायामेव कृतः इति) क्षेत्रीयभाषासु संस्कृतव्याकरणनियमः न प्रवर्तते इति, अतः साधुः । २) अवाङ्मनसः गोचरः इति व्यस्तप्रयोगः कथञ्चिद् द्रष्टव्यः । अत्र प्रमाणं - क्वचिद् "वाङ्मनसे" इति स्थाने "वाङ्मनसी शुद्धे कालुष्यं न गच्छतः" मेधाथितिवर्येण "वाङ्मनसी" इति प्रयुक्तम् । "एते वाङ्मनसी" इति कुल्लुकभट्टेनापि प्रयुक्तम् । एवञ्च "वाङ्मनसी" इति शिष्टप्रयोगः मन्यते तथा "अवाङ्मनसः" इत्यपि शिष्टप्रयोगः मन्तव्यः । ३) स्वामी विवेकानन्दः ऋषिप्रवरः, तस्माद् आर्षत्वात् साधु ॥ इतोऽपि चिनतनं विधास्यते अस्मिन् प्रयोगविषये साधुत्वकल्पनाय​, यदि किञ्चित् समाधानं प्राप्यते, नूनं निवदयिष्यते ॥

*****

Tuesday, June 2, 2015

चन्द्रशेखरेन्द्रसरस्वतीमहास्वामिनां चरणयोः

चन्द्रशेखरेन्द्रसरस्वतीमहास्वामिनां चरणयोः


यस्य वाक् मोक्षदायिनी यस्य दृष्टिर्दयार्द्रा च । 

यस्य कार्यं वेदरक्षा यस्य लोकहितं तपः ॥


यस्य चित्तं ब्रह्मनिष्ठं यस्य तत्त्वं ब्रह्मतत्त्वम् । 

यस्य वेदोऽद्वैतरूपः नमामो तं चन्द्रशेखरम् ॥

******

Monday, June 1, 2015

आज कबीर के सम्मान में

आज कबीर के सम्मान में 

बुरा जो देखन मैं चला, बुरा न मिलिया कोय,
जो दिल खोजा आपना, मुझसे बुरा न कोय।

द्रष्टुं गतवान् दुष्टतां काऽपि न लब्धा दुष्टता ।

अन्तःकरणम् अपश्यं मत्तो दुष्टो नहि कोऽपि ॥१॥

पोथी पढ़ि पढ़ि जग मुआ, पंडित भया न कोय,
ढाई आखर प्रेम का, पढ़े सो पंडित होय।

पाठं पाठं ग्रन्थान् नष्टाः कोऽपि न जातो विद्वान् ।

पठित्वाऽक्षरे च प्रेम्णः भवति हि विद्वद्वरः ॥२॥

माला फेरत जुग भया, फिरा न मन का फेर,
कर का मनका डार दे, मन का मनका फेर।

मालाजपमथ कुरुते नान्तःकरणे शुचिता । 

मालागणनं त्यजतात् मानसं नर ते शमय ॥३॥

दोस पराए देखि करि, चला हसन्त हसन्त,
अपने याद न आवई, जिनका आदि न अंत।

परेषां दृष्ट्वा च दोषान् हासं हासं च गच्छति ।

नाविचिन्त्य चात्मानं नादिर्नान्तं च यस्य हि ॥४॥

बोली एक अनमोल है, जो कोई बोलै जानि,
हिये तराजू तौलि के, तब मुख बाहर आनि।

अमूल्यं हि वचोऽस्माकं यो वाचः तत्त्वं जानाति ।

तुलायां हृदि सन्तोल्य मुखरेद् वैखरीं नरः ॥५॥

अति का भला न बोलना, अति की भली न चूप,
अति का भला न बरसना, अति की भली न धूप।

नाधिकं भणनं सम्यक् नाधिकं मौनं हि सम्यक् ।

हिताय नातिवृष्टिः स्यात् न हितायातपतापः ॥६॥

निंदक नियरे राखिए, ऑंगन कुटी छवाय,
बिन पानी, साबुन बिना, निर्मल करे सुभाय।

समीपे निन्दकं रक्षेत् भवेदुपकृतिर्यथा ।

फेनकेन जलं विना शोधयति नस्स्वभावम् ॥७॥

कबीरा खड़ा बाज़ार में, मांगे सबकी खैर,
ना काहू से दोस्ती,न काहू से बैर.

कबीरस्तिष्ठन् जीवने वाञ्छति हितं समेषाम् ।

न भवेत् कस्यचिन्मैत्री न भवेच्छत्रुता परम् ॥८॥

जब गुण को गाहक मिले, तब गुण लाख बिकाई.                                                                                     जब गुण को गाहक नहीं, तब कौड़ी बदले जाई.

गुणग्राहिषु लब्धेषु भवति महार्घं मूल्यम् ।

यदा न लभते तादृक् मूल्यं सौप्तिकं जायते ॥९॥

कबीर कहा गरबियो, काल गहे कर केस.                                                                                             ना जाने कहाँ मारिसी, कै घर कै परदेस. 

मानव मा कुरु गर्वं गृहीतः केशो मृत्युना ।

न ज्ञायते क्व मारयेत् वेश्मनि उत वा बहिः ॥१०॥

*******

वात्यापुरेश्वरीसुप्रभातम् - १२

वात्यापुरेश्वरीसुप्रभातम् - १२

त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः खलु विष्णुशर्मा ।
स्तुत्वार्पयामि भवतीचरणारविन्दे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥


पदच्छेदः

त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः, खलु, विष्णुशर्मा, स्तुत्वा, अर्पयामि, भवतीचरणारविन्दे, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥

अन्वयः

त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः, खलु, विष्णुशर्मा, स्तुत्वा, भवतीचरणारविन्दे, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम्, अर्पयामि ॥

प्रतिपदार्थः

त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः = तव पूजायै प्राप्ताधिकारकुले उत्तमे नव्यश्रेणी-नामके गृहे (कुले) जातः, खलु = तावत्, विष्णुशर्मा = विष्णुनामकः (अहं), स्तुत्वा = स्तोत्रं विधाय​, भवतीचरणारविन्दे = देव्याः भवत्याः पादपद्मयोः, वात्यापुरेश्वरि = हे वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं त्  अद्रूपं कुसुमम्, अर्पयामि = समर्पयामि ॥

तात्पर्यम्

हे वात्यापुरेश्वरि, भद्रे, अहं विष्णुशर्मा तव पूजायै अधिकृतकुले नव्यश्रेणी-नामकगृहनामयुते जन्म लब्धवान् । त्वाम् सुप्रभातेन स्तोत्रेण स्तुत्वा भवत्याः चरणनलिनयोः इदं सुप्रभातरूपं कुसुमम् अर्पयामि ॥

हिन्दी

हे वात्यापुर की इस्श्वरि, भद्रे, मैं विष्णुशर्मा आप की पूजा करने के लिए अधिकारप्राप्त कुल में नव्यश्रेणी-नामक गृहे जन्म लिया । सुप्रभात स्तोत्र से अप्प की स्तुति कर आप के चरण कमल में इस सुप्रभात पुष्प को अर्पित करता हूं ॥

विशेषः

१) त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः = तन्त्रं जानाति वेत्ति वा इति तान्त्रिकः, तन्त्रशास्त्रवेत्ता । तन्त्रविहिते अपि तान्त्रिकम् । तन्त्रस्य इदम् इति तान्त्रिकम् । तव तान्त्रिकः = त्वत्तान्त्रिकः, तान्त्रिकेण (तन्त्रेण) अधिकृतः = तान्त्रिकाधिकृतः, तान्त्रिकाधिकृतस्य गोत्रकः = तान्त्रिकाधिकृतगोत्रकः, भव्यं च नव्यश्रेणीनिकेतनं च = भव्यनव्यश्रेणीनिकेतनं, त्वत्तान्त्रिकाधिकृतगोत्रकस्य भव्यनव्यश्रेणीनिकेतनं, तत्र भवः = त्वत्तान्त्रिकाधिकृतनव्यश्रेणीनिकेतनभवः । अर्थात् भगवत्याः पूजातन्त्रे ये अधिकृताः तेषाम् गोत्रीयाणां यः वंशः नव्यश्रेणी इति ज्ञायमानः तस्मिन् वंशे प्राप्तजन्मा एषः कविः विष्णुशर्मा इति ।
२) भवतीचरणारविन्दे = भवत्याः चरणारविन्दं तस्मिन् । चरणरूपम् अरविन्दं = चरणारविन्दम् ॥

ENGLISH
(Translation by Brahmasri Ganeshan @vezhamukhan)

Hey VatyapureSvari, benign Mother, known as Vishnu Sarma, this man poetic Into a family of accomplished souls endowed with the powers formal & mystic 
For your worship in the house named ‘NavyaSreni’ in this hamlet 
Lays this flower-garland of hymns called ‘Suprabhatam’ at your lotus-feet!

******

Sunday, May 31, 2015

ऋग्वेदे रुद्रसूक्तम् (१-११४)

ऋग्वेदे रुद्रसूक्तम् (१-११४)

इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम्॥१॥
मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते।
यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु॥२॥
अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः।
सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः॥३॥
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे।
आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे॥४॥
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे।
हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत्॥५॥
इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वचः॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम्।
रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ॥६॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम्।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः॥७॥
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे॥८॥
उप॑ ते॒ स्तोमा॑न्पशु॒पाइ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे।
भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे॥९॥
आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु।
मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑॥१०॥
अवो॑चाम॒ नमो॑ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न्।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः॥११॥

*******