Friday, April 22, 2016

Iron Weapons


सोमारुद्रा धारयेथामसुर्यं पर वामिष्टयोऽअरमश्नुवन्तु ।
                              दमे दमे सप्त रत्ना दधाना शं नो भूतं दविपदेशं चतुष्पदे ॥ (6-75-1)
In this Rik, सप्त रत्ना = seven gems are mentioned. So during Rigvedic time, people were aware of gems.
                             तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मर्ळतं नः । 
                             पर नो मुञ्चतं वरुणस्य पाशाद गोपायतं नः सुमनस्यमाना ॥(6-75-4) 
In this Rik, तिग्मायुधौ=bright bows (weapon), तिग्महेती=sharp arrows (weapons) are mentioned. This may be an indication of metal weapons, though not directly.
                             आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम् । 
                             इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः ॥ (6-75-15)
In this Rik, आलाक्ता=oiled with poison, (arrows) रुरुशीर्ष्णी=with killer head, अयो मुखम्=which have iron-made tip is mentioned. Here, it is clearly mentioned about iron.
                             देवास आयन्परशूँरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन् । (10-28-8)
In this Rik, देवासः=Gods, परशून्=with axes, आयन्=came is mentioned. Here, the weapon “axe” is clearly mentioned. However, Sayana defines परशु as वज्रायुध ।
Thus, so manu instances can be quoted for iron or weapon of various metals.
******


Sunday, April 17, 2016

Significance of Shikha and Yajnopavitam

Before starting Japa or Puja, one should touch his Shikha chanting a mantra “शक्त्यै शिखायै वैषट्”. So if Shikha is not there, one is not even eligible for Japa or Puja. Sushrut says “तत्रापि सद्यो मरणं मस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः तत्रापि सद्य एव” The supreme sensitive spot on the head is Adhipati Marma, where is the nexus of all nerves, and a joint. An injury to the Adhipati Marma the verticalgroove on the frontal bone, which is marhed in the inner side of the roof of cranium by the Sira Sannipata (superior langtitutinal sinus) and on the exterior side by the ringlet of the hair (Romavarta) proves fatal within the day. (Sushrut Samhitã 6/71). Below this pint lies Brahmarandhra where Sushama Nadi arrives from the lower part of the body. Yoga Shastra describes Brahmarandhra is the highest point known as Seventh Chakrs. Shikha protects this point, hence Shikha is significant.


Yajnopavitam (यज्ञोपवीतम्) is a symbolic triad thread worn by Brahmana, Kshatriya and Vaishya. This thread is symbol to that one is eligible for performing Yajnas. यज्ञोपवीतम् means यज्ञार्थम् उपवीतम् i.e. thread worn for sacrifice. This thread makes one eligible to perform Yagaas. It is said – यज्ञोपवीतं परमं पवित्रं प्रजापतेः यत्सहजं पुरस्तात् । आयुष्यम् अग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ Meaning wearing this most sacred thread gives us long-life, strength etc. Some acts have direct benefits and some have indirect benefits. This has direct and indirect benefits. Direct is making us eligible for performing Yagaas and Pujas and gives us long life etc. Indirect is it is said as “sacred” which though does not have any direct benefit; it will help us to go near the ultimate wisdom (a belief). This thread is of various types and made of various materials.    

Friday, April 15, 2016

आर्यावर्तः कः?

शूद्राणाम् अनिरवसितानाम् (2-4-10) इति सूत्रम् । पृषोदराणि यथोपदिष्टम् (6-3-109) इति अन्यत्सूत्रम् । एतस्मिन् सूत्रद्वये आर्यावर्तलक्षणम् आह भगवान् भाष्यकारः । तच्च इत्थम् –
शूद्राणाम् अनिरवसितानाम् (2-4-10) अत्र इदं भाष्यम् –

“अनिरवसितानाम् इति उच्यते । कुतः अनिरवसितानाम् ? आर्यावर्तात् अनिरवसितानाम् । कः पुनः आर्यावर्तः ? प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति न सिध्यति । एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् । कः पुनः आर्यनिवासः ? ग्रामः घोषः नगरम् संवाहः इति ।  एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति । एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् । एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति । एव म् तर्हि पात्रात् अनिरवसितानाम् । यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः । यैः भुक्ते संस्कारेण अपि न शुध्यति ते निरवसिताः ।”

अत्र कुतः अनिरवसिताः इति पृष्ट्वा आर्यावर्तात् इति समाहितम् । कः आर्यावर्तः इति तल्लक्षणमुच्यते इत्थं - प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् इति । इदं सूत्रं द्वन्द्वप्रकरणगतम् । अनेन सूत्र्रेण एकत्वं प्रतिषिध्यते । यदि आर्यावर्तात् बहिर्भूतानाम् इत्यर्थः क्रियते तर्हि किष्किण्धाः च गन्दिकाः च = किष्किन्ध-गन्दिकम् इति एकत्वम् इष्यते । तत् न सिध्यति बहुत्वं प्राप्नोति । तदर्थं तर्हि आर्यनिवासाद् बहिर्भूताः इत्युच्यते । तथा चेत् महत्सु निवासस्थानेषु यत्र आर्याः एकत्र, चन्डालाः मृतपाः च अन्यत्र निवसन्ति तत्र चन्डालाः च मृतपाः च = चण्डाल-मृतपाः इति इष्यते, तच्च न सिध्यति, यतः तेषामपि आर्यनिवासे (महति) अन्तर्भावात् । तर्हि यज्ञात् कर्मणः ये बहिर्भूताः इत्युच्यते । तथा चेदपि तक्षाः च अयस्काराः च = तक्षायस्कारम् इति इष्यते तच्च न सिध्यति । तर्हि पात्रात् अनिरवसितानाम् इत्युच्यते । तथा सति इष्टं सिध्यति । एवञ्च अनिरवसितानाम् इत्यस्य यैः भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः (बहिर्भूताः), यैः भुक्ते पात्रं संस्कारेण शुध्यति अनिरवसिताः (अन्तर्भूताः) । अस्मिअन् प्रकरणे प्रसङ्गवशात् आर्यावर्तलक्षणम् अभिहितं भगवता भाष्यकारेण ॥

पृषोदराणि यथोपदिष्टम् (6-3-109) अत्र इदं भाष्यम् –
“पृषोदरादीनि इति उच्यते । कानि पृषोदरादीनि ? पृषोदरप्रकाराणि । कानि पुनः पृषोदरप्रकाराणि ? येषु लोपागमविकाराः श्रूयन्ते न च उच्यन्ते । अथ यथा इति किम् इदम् ? प्रकारवचने थाल् । अथ किम् इदम् उपदिष्टानि इति । उच्चारितानि । कुतः एतत् ? दिशिः उच्चारणक्रियः । उच्चार्य हि वर्णान् आह उप्दिष्टाः इमे वर्णाः इति । कैः पुनः उपदिष्टाः ? शिष्टैः । के पुनः शिष्टाः ? वैयाकरणाः ।  कुतः एतत् ? शास्त्रपूर्विका हि शिष्टिः वैयाकरणाः च शास्त्रज्ञाः । यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकम् च शास्त्रम् तत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवम् तर्हि निवासतः आचारतः च । सः च आचारः आर्यावर्त्ते एव । कः पुनः आर्यावर्त्तः ? प्राक् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । एतस्मिन् आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किम् चित् अन्तरेण कस्याः चित् विद्यायाः पारगाः तत्रभवन्तः शिष्टाः । यदि तर्हि शिष्टाः शब्देषु प्रमाणम् किम् अष्टाध्याय्या क्रियते । शिष्टज्ञानार्था अष्टाध्यायी । कथम् पुनः अष्टाध्याय्या शिष्टाः शक्याः विज्ञातुम् ? अष्टाध्यायीम् अधीयानः अन्यम् पश्यति अनधीयानम् ये अत्र विहिताः शब्दाः तान् प्रयुञ्जानम् । सः पश्यति । नूनम् अस्य दैवानुग्रहः स्वभावः वा यः अयम् न च अष्टाध्यायीम् अधीते ये च अस्यम् विहिताः शब्दाः तान् प्रयुङ्क्ते । नूनम् अयम् अन्यान् अपि जानाति । एवम् एषा शिष्टज्ञानार्था अष्टाध्यायी ।”

कानिचन रूपाणि व्याकरणप्रक्रियया न सिध्यन्ति, तथापि तानि शिष्टैः परिगृहीतानि अर्थात् प्रयुक्तानि, तेषां यथा यथा शिष्टैः प्रयुक्तं तथैव साधुता इति निर्णयः अनेन सूत्रेण क्रियते । अत्र प्रसङ्गवशाद् शिष्टानां ब्राह्मणानां निवासदेशः आर्यावर्तः इत्युक्त्वा आर्यावर्तस्य लक्षणम् अभिहितं भगवता भाष्यकारेण ॥

उभयत्रापि आर्यावर्तलक्षणं समानम् एव । तच्च यथा “प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । अत्र प्रकरणे निवासतः आचारतश्च इत्युक्तत्वात्, स च आचारः आर्यावर्ते एव इति च उक्तत्वात् आर्यावर्तः परिच्चिन्नभूमिभागः (देशविशेषः) इति स्पष्टं ज्ञायते ।

मत्स्यपुराणे सप्तानां कुलपर्वतानां नामानि उक्तानि तानि यथा – “सप्त येऽस्मिन् महापर्व्वा विस्तृताः कुलपर्व्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥

विन्ध्यश्च पारिपात्रश्च इत्येते कुलपर्व्वताः” इति । श्रेष्ठपर्वतानां नामसु अपि “बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा” इति पारियात्रः दृश्यते । किञ्च पारियात्रपर्वतोद्भवनदीजलस्य गुणः इत्थं वर्णितः – “हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् । पारिपात्रभवा याश्च बिन्ध्यर्क्षप्रभवाश्च याः ॥ शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च । चन्द्रार्ककरसंस्पृष्टं वायुनास्फालितां मुहुः ॥ पर्व्वतोपरि यद्बारि समं पौरन्दरेण तत् । तस्यानुगुणमुद्दिष्टं शैलप्रस्रवणोद्भवम् ॥ लेखनं दीपनं रूक्षं किञ्चिद्वातप्रकोपणम्” इति । सुमेरोः पश्चिमायां दिशि विद्यमानेषु पर्वतेषु पारियात्रस्य नाम दृश्यते “सहस्रशिखरश्चाद्रिः पारिपात्रः स शृङ्गवान्” इति ।

अत्र आदर्शात् इत्यस्य केचन अदर्शात् इत्यपि वदन्ति पाठम् । तद्दृष्ट्या सरस्वतीनद्याः अदर्शनक्षेत्रम् इति मतम् । कालकवनम् अद्यतनः प्रयागः इति विद्वांसः । अत्र भूगोलविदः परस्परं विवदन्ते । तथा च यत्र सरस्वतीनदी लुप्यते तत्स्थानम् अर्थात् कुरुक्षेत्रं, कालकवनम् अर्थात् प्रयागः, पारियात्रः अर्थात् विन्ध्यपर्वतः, हिमवान् इत्येतेषां स्थानानां मध्यवर्ती भूभागः आर्यावर्तः इति अनुमातुं शक्यते । अत्र बहूनां मतानि बहुधा वर्तन्ते । केचन भारताद् बहिर्भूतं भूभागमपि आर्यावर्ते अन्तर्भावयन्ति । वस्तुतः अत्र आर्यावर्तस्य लक्षणम् उक्तम्, न तु जम्बूद्वीपस्य वा सप्तानां द्वीपानां वा । अतः भारताद् बहिर्भूतः भूभागः आर्यावर्ते भवितुं नार्हति । एतस्य सामान्यज्ञानार्थं चौखम्बासंस्कृतप्रतिष्ठानेन प्रकाशितं (1987 संस्करणं) महाभास्यं द्रष्टुं शक्यते यत्र प्रथमपुटे एव मानचित्रम् आर्यावर्तस्य प्रदर्शितं वर्तते । परन्तु इदमेव अन्तिमो निर्णयः इति न ग्राह्यः । आर्यावर्तलक्षणं भगव्ता भाष्यकारेण उक्तम् आधुनिकदृष्ट्या परिच्छेत्तुम् इतोपि अनुसन्धानम् अपेक्ष्यते । अत्र धर्मसूत्रकाराणां बोधायनप्रभृतीनामपि विशिष्टं किञ्चित् मतं वर्तते । तत्सर्वं परिशील्य आधुनिकदृष्ट्या च भूभागं विचार्यैव निर्णयः कर्तुं शक्यते । मम मतं सम्प्रति कुरुक्षेत्रं, प्रयागः, विन्ध्यः, हिमवान् इति चतुर्णां मध्यवर्ती भूभागः एव आर्यावर्तः ।

एतेन दाक्षिणात्याः न शिष्टाः इति न मन्तव्यम् । शिष्तत्वं भिन्नम् आर्यावर्तलक्षणं भिन्नम् । अत एव भगवान् भाष्यकारः शिष्टलक्षणे “अलोलुपाः कुम्भीधान्याः अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारङ्गताः शिष्टाः” इत्याह । शिष्टत्वं याज्ञिकत्वं च दाक्षिणात्येष्वपि वर्तत एव ॥
*******


श्रीरामनवकं श्रीरामनवम्यां विरचितम्


जनिः प्रसादवह्निता मुनेश्च शृङ्गधारितुः दशा नृपस्य सेविता कृपा पितृत्वदापिका ।
मुनेर्वशिष्ठशिष्यता नृपर्षियागरक्षिता प्रदर्शितामनुष्यता निरूपितेशभावता ॥1॥

नृपर्षिशिष्यता धृता सुबालता वधङ्कृताऽ सुरा च ताडका मृता सुबाहुता दिवङ्ग्गता ।
किमत्र देवता हरेर्न लोकिताऽतिबालके प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥2॥

गजैः नरैश्च कर्षिता शिवस्य चापता वरा त्रिलोकराजता जिता कुमारता जयङ्गता ।
सुरैर्नृपैश्च पूजिता सुवीरता च रामता प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥3॥

प्रवासता समर्थिता वनेष्वनेकताब्दता मुदा गृहीतमानसः सदारभिन्नजाठरः ।
नरैर्नृपैश्च नादृता गुणेष्वनन्यता मता प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥4॥

कलत्रताङ्गता मनाग्विसङ्गता च काकता तृणं विधाय मन्त्रतां त्रिलोकमेत्य निष्फला ।
सुकाणता शरण्यता गता च राममन्त्रता प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥5॥

कपेर्हि नायकं पतिं विधाय दर्शिता नृता सुवालिभेदनं विधाय दैवतं ह्यनावृतम् ।
दृढाश्च सप्त भूपदाः शरेण छिद्रिता सुधा प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥6॥

समुद्रराजकः क्रुधा भयं प्रदर्श्य तर्जितः शरं निरूप्य साहसं हि मानुषं निवर्तितम् ।
क्षणं च दर्शितं तथापि दैवतं विलोकितं प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥7॥

तितीर्षया च सागरं हरीन् नियोज्य बन्धनं कृतं च नीलवानराय कीर्तिरेव दापिता ।
तथापि मानसे परं विभाति विष्णुरूपता प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥8॥

कथं कथं च गूहते परत्वरूपमद्भुतं तथा तथा च मानवीयरूपतैव लीयते ।
सुरामता  च सीतया श्रियःपतित्वबोधिका प्रदर्शिताऽमनुष्यता निरूपितेशभावता ॥9॥

********






Wednesday, April 13, 2016

कृपालुः इति शब्दविचारः


कृपालुः इति शब्दस्य व्युत्पत्तिः बहुधा भवितुमर्हति इति विद्वांसः। तद्यथा –

1) माधवीयधातुवृत्तौ - ला आदाने । कृपामादत्ते इति कृपालुः “मितद्र्वादित्वाड्डुः” इत्यात्रेयः इति दर्शितम् ।

2) तत्त्व-बोधिन्यां – “ननु कथं कृपालुः स्पर्धालुरिति? कृपां स्पर्धां च लातीति विग्रहे मृगय्वादित्वात्कुः”। अर्थात् “मृगय्वादिभ्यश्च” (उ.1-39) इति उणादिसूत्रेण मृगयु-गणम् आकृतिगणं विभाव्य तत्र कृपालुः इत्यस्य अन्तर्भावः इति ।

3) शब्दकल्पद्रुमे – कृपालुः कृपां लाति आदत्ते । ला + डुः । यद्वा कृपा विद्यते अस्य अस्मिन् वा  कृपा +  आलुच् इति । एतस्य मूलं “बहुलं छन्दसि” (5-2-122) इति सूत्रस्थं वार्त्तिकम् – “हृदयदाच्चालुरन्यतरस्याम्” इति, “शीतोष्ण-तृ-प्रेभ्यः तन्न सहते” इति च वार्त्तिकम् । पूर्ववार्त्तिकात् “सर्वत्रामयस्य” इत्यस्मात् ‘सर्वत्र’ इति अनुवर्तते । तेन लोके वेदे च इति सिद्धम् । सूत्रात् ‘बहुलम्’ इति अनुवर्तते । तेन आलु-प्रत्ययः अन्यत्रापि भवति । तथा च कृपालुः (कृपा अस्ति अस्य अस्मिन् वा) इति सिद्धम् ।

यद्यपि सर्वमिदं समाधानदृष्ट्या साध्वेव द्वितीयं समाधानं विहाय । द्वितीयसमाधाने आचार्यप्रवृत्तेः विरोधः दृश्यते । तद्यथा – “मृगय्वादिभ्यश्च” इति सूत्रात्पूर्वं कु-प्रत्यविधायकाः योगाः इमे सन्ति – “हरिमितयोर्द्रुवः”, “शते च”, “स्वरु शङ्कु पीयु नीलङ्गु लिगु”, “पिबतेरित्वं युगागमश्च” इति । एतेषु सर्वेषु सूत्रेषु कु-प्रत्ययं विहाय निपातनद्वारा अन्यानि कार्याण्यपि साध्यन्ते । परन्तु मृगय्वादिभ्यश्च इत्यस्मिन् सूत्रे समानान्तानि पदान्येव अभिप्रेतानि सूत्रकृता इति विभायितुं अस्ति निदानम् । अन्यथा “शतादीनां च” इत्येव उक्तं स्यात् । अत एव भट्टोजीदीक्षितेनापि समानान्तानि उदाहरणान्येव प्रदर्शितानि मृगयुः, देवयुः, मित्रयुः इत्यादीनि । अतः इदं समाधानम् आचार्यप्रवृत्तेः विरुद्धं लक्ष्यते । 
इतराण्यपि समाधानानि भाष्याशयविरुद्धानि । भाष्ये “स्पृहिगृहि...” (3-2-158) इति सूत्रे विचारः कृतः । स च इत्थं – किमर्थम् आलुच् इति महान् प्रत्ययः लुश् (लुश् इत्यत्र लकारलोपः न चिन्तनीयः, यतः लुप्तयकारनिर्देशः अर्थात् “(य्)लुश्” इति अथवा लकारलोपस्य प्रयोजनाभावाद् इति कैयटे दर्शितत्वात्) इत्येव प्रत्ययः भवतु इति आशङ्क्य का रूपसिद्धिः इति प्रश्नः कृतः । तस्य उत्तरं – स्पृहयालुः दयालुः इति उक्तम् । तदुपरि भाष्यकारः आह – इदं च रूपं स्पृहि इत्यस्मात् शप्-प्रत्यये (तिङ्-परत्वाभावेऽपि सार्वधातुकत्वात् शप् भवितुमर्हति), “अतो दीर्घो यञि” इति दीर्घे स्पृहयालुः इति सिद्धम् । किमर्थं तर्हि महता प्रयत्नेन आलुच् विधीयते इत्याशङ्क्य – एवं सिद्धे सति पुनः महता प्रयत्नेन आलुच्-विधानम् अन्येभ्योऽपि आलुच् भवति इति ज्ञापनार्थम् इति समादधाति । तत्र पुनः एतस्य ज्ञापनस्य किं प्रयोजनम् इति पृष्ट्वा अग्रे वार्त्तिककारः वक्ष्यति “आलुचि शीङ्ग्रहणम्” इति, तत् न वक्तव्यं भवति ।

एतेन भाष्यकृतः मतं कृपालुः स्पर्धालुः इत्यादीनि रूपाणि “अन्येभ्योऽपि दृश्यते” इति सूत्रेण एव सिद्ध्यन्ति इति स्पष्टम् । अन्यत्सर्वं समाधानं यद्यपि साधु तथापि भाष्याशयानुसारेण न वर्तते अथवा तस्यैव प्रपञ्चः इत्येव सिद्धान्तः ॥

********

Sunday, April 10, 2016

॥ धनमिच्छेद् हुताशनात् ॥




अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजं होतारं रत्नधातमम् (ऋ.वे.1.1.1) is the mantra. Here, रत्नधातमम् is defined by Sayanacharya as “यागफलरूपाणां रत्नानाम् अतिशयेन धारयितारं पोषयितारं वा” meaning “one who excessively nurtures or holds the results of Yagas. Further, Sayana quotes Yaska “रत्नशब्दः द्वितीयाध्याये मघम् इत्यादिषु अष्टाविंशतौ धननामसु पठितः । रमणीयत्वात् रत्नत्वम् ।दधातिधातुरत्र दानार्थवाची इति निरुक्तकारस्य यास्कस्य मन्त्रव्याख्यानम्” इति । Meaning “Yaska read the word “Ratna” among the 28 words collected to mean wealth. रत्नधातमम् means “the most giver of wealth”. रत्नानां धाता (दाता) रत्नधा, तत्र श्रेष्ठः=रत्नधातमः, तं , रत्नधातमम् । Yaska reads 28 names of wealth in second chapter starting from “मघम् to ऋतम् । One among them is “रत्नम्” (the seventh name). 

So अग्नि is regarded as the wealth giver in Vedas. Hence, it is said in Matsya Purana as -
आरोग्यं भास्करादिच्छेत् धनमिच्छेद् हुताशनात्। 
ज्ञानं च शङ्करादिच्छेत् मुक्तिमिच्छेत् जनार्दनात् ।। 
Here, there is another reading as “श्रियमिच्छेद् हुताशनात्” ॥ Both mean the same wealth.
*********