Sunday, September 11, 2016

नवयज्ञः

नवयज्ञो वर्तते अस्मिन् काले इति नावयज्ञिकः। आग्रयणम् इति यागविशेषः एषः। गोभिलेन उक्तम् - "शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते" इति। अत्र नवशब्दः न सङ्ख्यापरः परन्तु नूतनवाची। अस्मिन् यज्ञे नूतनेन धान्येन होमः विहितः। अतः अस्य यागस्य नवयज्ञः इति नाम​। एतस्य "नवशस्येष्टिः" इत्यपि नाम​। आग्रयणमिति कर्मनामधेयम्, येन कर्मणा अग्रे नवद्रव्यं देवान् प्रापयतीति । तथा च आपस्तम्बः आह - "न अनिष्ट्वा आग्रयणेन आहिताग्निर्नवस्य अश्नीयाद्" (आ.श्रौ.सू.६२९२) इति। नवधान्यैः इष्टिम् अविधाय आहिताग्निः नवधान्यस्य भक्षणं न कुर्याद् इत्यर्थः । अग्रे अयनम्=भोजनं येन कर्मणा तत् कर्म​=आग्रयणम्। "ग्र​" इति ह्रस्वस्तु च्छान्दसः पृषोदरादित्वाद् वा समाधेयम्॥

****** 

Saturday, September 10, 2016

लुम्पेदवश्यमः

अपरस्परः क्रियासातत्ये (६-१-१४४) इति सूत्रे "समो हितततयोर्वा लोपः", "सम्तुमुनोः कामे", "अवश्यमः कृत्ये" इति वार्तिकानां व्याख्यावसरे भाष्ये इदम् ऊरीकृतमेव । किञ्च पृषोदरादीनि यथोपदिष्टम् (६-३-१०९) इत्यत्र भट्टोजीदीक्षितः प्रौढमनोरमायाम् "अपरस्पराः क्रियासातत्ये इति सूत्रे सातत्यनिर्देशेनैव एकदेशानुमतिद्वारा पूर्वाचार्यपठितोऽयं श्लोकः ज्ञापित इत्याहुः।" इति । अत्रैव "लुम्पेदवश्यमः कुत्ये तुंकाममनसोरपि। समो वा हितततयोर्मांसस्य पचियुड्घञोः" इति काशिकोपात्तस्य श्लोकस्य व्याख्यानावसरे पदमञ्जरीकारेण उक्तम् "अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति लुम्पेत् इत्यादि" इति। यथावद् वार्त्तिकस्य अनुवादरूपः एषः पूर्वाचार्यप्रणीतः श्लोकः ।  तथा च वार्त्तिक​-भाष्यसम्मत एव एषः नियमः इति सिद्धम्॥

*******

UPPER AND LOWER WORLDS

भूः भुवः सुवः महः जनः तपः सत्यम् are the seven worlds mentioned as ‘upper worlds’.अतलः वितलः सुतलः तलातलः महातलः रसातलः पातालः are the seven ‘Lower worlds’.

Seven upper worlds are divided into three categories. 1) Artificial (made), 2) intermediary and 3) Natural. Lower triad भूः भुवः and सुवः come under artificial or world that are created. महः is the intermediary world between the two triad i.e. (भूः भुवः सुवः) and (जनः तपः सत्यम्). Upper triad जनः तपः and सत्यम् is explained as natural or not created.

भूः is said as -
पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम्  ।
स भूर्लोकः समाख्यातो विस्तरोस्य मयोदितः ॥ (V.P.2-7-16)
Whatever could be walked and in the form of Earth is known as भूलोकः।
पञ्चाशत्कोटिविस्तारा सेयमुर्वी महामुने । (V.P.2-4-96)
विस्तार एष कथितः पृथिव्या भवतो मया । 
सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते ॥ (V.P.2-5-1)
This Earth spreads in 50,00,00,000 Yojanas and her height is 70,000 Yojanas 9one Yojana is approximately 7.2 Kilometers).


भुवर्लोकः is explained as
भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् ।
भुवर्लोकस्तु सोप्युक्तो द्वितीयो मुनिसत्तम ॥ (V.P.2-7-17)
The space between the Earth and the Sun where Siddhas and Munis (semi-divine and sages) live is called as the second world i.e. भुवर्लोकः।

स्वर्लोकः is said as
ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश ।
स्वर्लोकः सोपि गदितो लोकसंस्थानचिन्तकैः ॥ (V.P.2-7-18)
The space between the star Dhruva and the Sun is the third world called as स्वर्लोकः by the thinkers of structure of the worlds. This world is spread in 1,40,000 Yojanas (one Yojana is approximately equal to 7.2 kilometers).

These three worlds भूः भुवः and सुवः could be obtained by performing ‘yaga’ etc. It is said –
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने ।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ (V.P.2-7-11)
These three worlds are obtained by ‘yagas’ etc.

महर्लोकः is explained as –
कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः ।
शून्यो भवति कल्पान्ते योत्यन्तं न विनश्यति ॥ (V.P.2-7-20)
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः ।
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥ (V.P.2-7-12)
This is an intermediary world between the two triads upper and lower triads i.e. (भूः भुवः सुवः) and (जनः तपः सत्यम्). This intermediary world becomes empty during each ‘kalpa’, however, not completely destroyed. This world exists between the star ‘dhruva’ after the end of ‘svarloka’ and this world spread in 1,00,00,000 Yojnas (one Yojana is approximately 7.2 kilometers).

जनलोकः is explained as –
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः ॥ (V.P.2-7-13)
‘Janaloka’ begins at the end of ‘maharloka’ and spreads in 2,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where children of Brahma – Sanandana etc., live who are known for their pure-hearted.

तपोलोकः is explained as –
चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः ।
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥ (V.P.2-7-14)
This ‘tapoloka’ exists after ‘janaloka’ approximately in the distance of 8,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where the gods known as ‘vairAjas’ live without thirst.

सत्यलोक is said as –
षड्गुणेन तपोलोकात्सत्यलोको विराजते ।
अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः ॥ (V.P.2-7-15)
This world known as ‘satya’ exists after ‘tapoloka’ in a distance of 48,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where live the non-birth gods and this world is also known as ‘brahmaloka’.

This is the description available about various lokas. Lower worlds are also seven in number. They are अतलः वितलः सुतलः तलातलः महातलः रसातलः and पातालः । They each spreads in 10,000 Yojanas
दशसाहस्रमेकैकं पातालं मुनिसत्तम ।
अतलं वितलं चैव नितलं च गभस्तिमत् ॥
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ (V.P.2-5-2)

Here, it is said that in all the worlds some kind of beings (divine or non-divine) exist, however, one should not conclude that humans exist. The nature of those beings, their food habits, sustaining capability with with what kind of air or other things are to be explored.  

Thus, the description of this world and other worlds are available in various Puranas. Here, I have quoted from Vishnu Purana only. The scientific aspects of this description are to be unearthed. Such accurate description cannot be a mere imagination, it must have scientific base. It is up to us to research and to bring to light.
*******

  






Saturday, September 3, 2016

लटः शतृशनचावप्रथमासमानाधिकरणे


लटः शतृशनचावप्रथमासमानाधिकरणे (३।२।१२४) इति सूत्रम्। लटः शतृ शानच् इत्यादेशौ भवतः, अप्रथमान्तेन (द्वितीयादिभिः विभक्तिभिः) सामानाधिकरण्यं चेत्, प्रथमया सामानाधिकरण्यं चेत् न भवतः इति सूत्रार्थः। तथा च गच्छन्तं देवदत्तं, गच्छता देवदत्तेन​, गच्छते देवदत्ताय​, गच्छतः देवदत्तात्, गच्छतः देवदत्तस्य, गच्छति देवदत्ते इत्यादीनि उदाहरणानि। अत्र विचारः "गच्छन् देवदत्तः", "सेवमानः देवदत्तः" इति "देवदत्तः" इति प्रथमया समानाधिकरणे कथं शतृ शानच् इति आदेशौ इति॥

अत्र काशिकारः - "क्वचित् प्रथमासमानाधिकरणेऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानः ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते। माङ्याक्रोशे। मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणम् अनुवर्तयन्ति नन्वोर् विभाषा ३।२।१२१ इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः" इति। तथाच "पठन् देवदत्तः", "पचमानः देवदत्तः" इत्यादिः प्रयोगः सिद्ध्यति॥

अत्र एतस्य काशिकाकारवचनस्य किं मूलम्? इति प्रश्नः उदियात्। तस्य समाधानम् इत्थम् - "न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यं । वक्तव्यं च । किं प्रयोजनम् । नित्यार्थम्। अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् । क्व तर्हि इदानीं विभाषा । प्रथमासमानाधिकरणे । पचन् पचति, पचमानः पचते इति" इ ति भाष्यम् अत्र प्रमाणम्॥

तथा च प्रथमासमानाधिकरणे शतृ शानच् इत्यादेशौ विकल्पेन भवतः। द्वितीयादिविभक्तिभिः समानाधिकरणे नित्यं भवतः । यथा - देवदत्तः पचति, अत्र विकल्पेन शतृ शानच् च भवतः, तेन "देवदत्तः पचति" अथवा "देवदत्तः पचन्" ("देवदत्तः पचमानः") इति। एवं च "देवदत्तेन पता" "देवदत्तेन पचमानेन​" इत्येव न तु "देवदत्तेन पचति" "देवदत्तेन पचते" वा॥

एवं च प्रथमासमानाधिकरणे विकल्पः, अप्रथमासमानाधिकरणे नित्यम् इति सिद्धम्॥

_______

IMPORTANCE OF SANDHYOPASANA


A Brahmin has to perform at least Sandhya every day. One who does not perform Sandhya is not eligible for performing any vaidika/smarta karma. It is said - अनर्हः कर्म्मणां विप्रः सन्ध्याहीनो यतः स्मृतः (छन्दोगपरिशिष्टम् )। Those who have no respect towards three-times-sandhya every day is not a Brahmin at all. Thus says smriti -
एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्।
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥ (शातातपः)

A Brahmin who performs sandhya will never be detached from Brahmanya. See what Yajnjyavalkya said -
सर्व्वावस्थोऽपि यो विप्रः सन्ध्योपासनतत्परः ।
ब्राह्मण्याच्च न हीयेत अन्त्यजन्मगतोऽपि सन् ॥ (याज्ञ्यवल्क्यः)।

Why this “upasana” is called “sandhya”? This is the conjecture of three Vedas, gods like brahma etc., and all the gods. Observe this saying also
त्रयाणाञ्चैव वेदानां ब्रह्मादीनां समागमः ।
सन्धिः सर्व्वसुराणाञ्च तेन सन्ध्या प्रकीर्त्तिता ॥ (याज्ञ्यवल्क्यः)।
So who is not performing sandhya is treated as impure and prohibited from performing any karma (vaidika/smarta).
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु । (ब्रह्मवैवर्तपुराणम्)।

This is the reason that “gayatri” is kept at the utmost top place by our ancestors. See this –
अष्टादशसु विद्यासु मीमांसाऽतिगरीयसी ।
ततोऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च ॥
ततोऽपि धर्म्मशास्त्राणि तेभ्यो गुर्व्वी श्रुतिर्नृप ।
ततो ह्युपनिषत् श्रेष्ठा गायत्त्री च ततोऽधिका ॥ (पद्मपुराणम्)
Mimamsa, Taraka, Puranas, Dharmashastra, shruti and at the top is ‘gayatri’.
Further, whoever performs sandhya gets all his desires fulfilled. He is not even touched by sins as long as he performs sandhya. Just by observing sandhya one can attain liberation. Thus says Purana -
स लिम्पति न पापेन पद्मपत्रमिवाम्भसा ।
कामकामी लभेत् कामान् गतिकामश्च सद्गतिम् ॥
अकामः समवाप्नोति तद्विष्णोः परमं पदम् ॥ (वह्निपुराणम्)।

Gayatri is given the top place among all mantras. Gayatri protects all the nature says Chandogyopanishad -
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च । वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च । या वै सा गायत्रीयं वाव सा येयं पृथिवी अस्पां हीदं सर्वं भूतं प्रतिष्ठितम् एतामेव नातिशीयते । या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् अस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते । यद्वैतत् पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते । सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् । तावानस्य महिमा ततोज्यायांश्च पुरुषः । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति । (छान्दोग्योपनिषद्)।

This aspect has been elaborately explained by Yajnjyavalkya. Each letter in Gayatri has a “devata” (god). See the following quote from Yajnjyavalkya. In brackets I have given the letters after “devata” of that particular letter.
अक्षरणान्तु दैवत्यं सम्प्रवक्ष्याम्यतः परम् ।
1. आग्नेयं (तत्) प्रथमं ज्ञेयं
2. वायव्यञ्च (स) द्वितीयकम् ।
3. तृतीयं (वि) सूर्य्यदैवत्यं
4. चतुर्थं (तुः) वैद्युतं तथा ।
5. पञ्चमं (व) यमदैवत्यं
6. वारुणं (रे) षष्ठमुच्यते ।
7. बार्हस्पत्यं सप्तमन्तु (ण्)
8. पार्ज्जन्यम् अष्टमं (यम्) विदुः ।
9. ऐन्द्रं तु नवमं (भ) ज्ञेयं
10. गान्धर्वं दशमं (र्गः) तथा ।
11. पौष्णमेकादशं (दे) प्रोक्तं
12. मैत्रावरुणं द्वादशम् (ब) ।
13. त्वाष्ट्रं त्रयोदशं (स्य) ज्ञेयं
14. वासवन्तु चतुर्द्दशम् (धी) ।
15. मारुतं पञ्चदशकं (म)
16. सौम्यं षोडशकं (हि) स्मृतम् ।
17. सप्तदशं (धि) त्वाङ्गिरसं
18, वैश्वदेवमतः परम् । (यः) ।
19. आश्विनञ्चैकोनविंशं (यः)
20. प्रजापत्यन्तु विंशकम् (नः) ।
21. सर्वदेषमयं प्रोक्तमेकविंशम्(प्र) अतः परम् ।
22. रौद्रं द्वाविंशकं (च) प्रोक्तम्
23. त्रयोविंशन्तु (द) ब्राह्मकम् ।
24. वैष्णवन्तु (यात्) चतुर्विंशम्
एता ह्यक्षरदेवताः । जप्यकाले तु संस्मृत्य तासां सायुज्यतां व्रजेत् ॥ (याज्ञ्यवल्क्यः) ।

I think, one can perform at least ten ‘gayatri’ three times daily. This would not consume much of our time. Hardly it would take 3 minutes each time. Are we not able to spend ‘nine minutes’ every day? Even if one is not in a position to perform ‘madhyahnasandhya’, he can perform the same along with ‘morning sandhya’. If we say that ‘we don’t have time’, it is only escapism and not real, I think.

Do not connect this with religion; this is our ‘dharma’ to be followed. If we are not able to perform, it only just shows out insincerity and devotionlessness towards our ‘dharma’.

Spare at least few minutes to perform ‘gayatri’ every day.

******

Monday, August 1, 2016

निशमय

धातोरमन्तत्वेन ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग. सू. भ्वादिः) इति मित्त्वम् । तेन
‘मितां ह्रस्वः’ (6-4-92) इति णौ सर्वत्र ह्रस्वः । ‘शमो दर्शने’ (ग. सू. भ्वादिः)
इति दर्शनार्थे मित्त्वं निषिद्धम् । एवञ्च ‘निशामयति रूपम्’ इत्यत्र मित्त्वाभावात्
दीर्घः, ‘निशमयति वचः’ इत्यत्र मित्त्वम्, इति बोध्यम् । इति त। कृदन
तरूपमालायाम्। तथा च निशामयति निशमयति इति उभयं साधु। लोटि मध्यमपुरुषैकवचने ह्रस्वपक्षे "निशमय" इति रूपम्।।
वचो निशम्याधिपतिर्दिवौकसाम् ।’
इत्यादौ अनेकार्थत्वात् श्रुत्वेत्यर्थः ॥ "वा शम-यम" इत्यत्र वाशब्दस्य व्यवस्थावाचित्वाद् अस्य ञौ नित्यं ह्रस्वे शमयति । इति निशमयति इत्यत्र ह्रस्वः। तथा च लोटि "निशमय" इति रूपम्।।

Tuesday, June 7, 2016

राणाप्रतापः

राणाप्रतापो राणाप्रतापः प्रतापराणः प्रतापराणा।
प्रतापराणा प्रतापराणो राणाप्रतापो राणाप्रतापः॥

राणाप्रतापः राणाप्रतापः (रण एव राणः, राणे आप्रतापः), प्रतापराणः (प्रतापे रः=वह्निः, प्रतापरः एव अणः (प्राणाः)=प्रतापाग्निरेव यस्य प्राणाः, प्रतापराणः=प्रतापे=पौरुषे, रः=इच्छा, अणः=शब्दः अर्थात् पौरुषे स्वेच्छाशब्दः एव न पराधीनता, प्रतापराणा=प्रतापे राणा (राजा), प्रतापराणः=प्रतापः एव प्रतापरः, प्रतापरः एव अणः=प्राणाः अर्थात् प्रतापप्राणः, राणाप्रतापः=राणा=राजा, प्रतापः=सूर्यः अर्थात् राजमार्तण्डः, राणाप्रतापः=रान्=अणः=राणः=ददज् जीवनः, राणः च आप्रतापः च​=राणाप्रतापः जीवनदानेन सुविख्यातः ॥

The King Rana Pratap is the Hero of the battle. He was like a Fire in strength and that Fire was His word and breath. He was independent in his wish of prowess. He was the King of majesty. Mighty was his life. He was the King like Sun. He was known for His sacrifice of His life in the battle.

A tribute to Rana Pratap on His Jayanti Today

******