Sunday, May 31, 2015

वात्यापुरेश्वरीसुप्रभातम् - ११

वात्यापुरेश्वरीसुप्रभातम् - ११


एवं स्वभक्तजनपालनजागरूकां देवोपदेवपरिवारयुतां भवानीम् ।
नत्वैव यान्ति सुजनाः परमं पदं ते वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

पदच्छेदः

एवं, स्वभक्तजनपालनजागरूकां, देवोपदेवपरिवारयुतां, भवानीं, नत्वा, एव​, यान्ति, सुजनाः, परमं, पदं, ते, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥

अन्वयः

एवं, स्वभक्तजनपालनजागरूकां, देवोपदेवपरिवारयुतां, भवानीं, नत्वा, एव​, ते, सुजनाः, परमं, पदं, यान्ति, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥

प्रतिपदार्थः

एवं = इत्थं क्रमेण​, स्वभक्तजनपालनजागरूकां = निजभक्तानां रक्षणे तत्परां, देवोपदेवपरिवारयुतां = प्रधानदेवैः उपदेवैः च परिवृतां, भवानीं = भवस्य पत्नीं, नत्वा = प्रणम्य​, एव = ही, ते = तदृशाः, सुजनाः = भक्तलोकाः, परमं = उत्तमं, पदं = स्थानं, यान्ति = अधिगच्छन्ति । वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

विशेषः

१) स्वभक्तजनपालनजागरूकां = स्वभक्तजनपालने जागरूका । जागुरूकः (३-२-१६५) इति सूत्रेण जागृ निद्राक्षये (अदादिः अकर्मकः परस्मैपदी सेट्) इति धातोः ऊक​-प्रत्यये जागरूकः इति रूपम् ।
२) देवोपदेवपरिवारयुतां = देवाः उपदेवाः च = देवोपदेवाः, तेषां परिवारः = देवोपदेवपरिवारः, तेन युता = देवोपदेवपरिवारयुता, ताम् ।
३) भवानी = भस्य (शिवस्य​) पत्नी = भवानी । इन्द्र​-वरुण​-भव​-शर्व​-रुद्र..(४​-१-४९) इति सूत्रेण भवशब्दात् आनुक् ङीष् च, तेन भवानी इति ॥

तात्पर्यम्

भक्तानां रक्षणे सदा एव तत्परा देवताभिः उपदेवैः च समन्विता भवस्य शिवस्य पत्नी वर्तते दुर्गा । इमां प्रणम्य एव भक्ताः परमं पदं (मोक्षाख्यं कैवल्यं) गच्छन्ति । हे वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥

हिन्दी

भक्तों की रक्षा करने में सदैव तत्परा देव और उपदेवों से समन्वित भव यानि शिव जी कीपत्नी है यह दुर्गा । इस प्रकार के दुर्गा को प्रणाम करके ही भक्त लोक मोक्ष प्राप्त करते हैं । हे वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥

ENGLISH

(Translation by Brahmasri Ganeshan @vezhamukhan)

You are always engaged in protecting Your devotees numerousSurrounded by other Gods & demi-gods You are the holy consort of Siva, the Auspicious Knowing Your true stature, VatyapureSvari, Your devotees pray and attain salvationHey benign Mother taking the form of our Village Deity in Vatyapuri here is our morning hymns

(Translation by Muddassir Ahmad @muddassirahmad7)

Thus by bowing down before (You) The one ever-alert to protect her devotees; The one surrounded by gods and demigods; The consort of ever-existing (Shiva), the virtuous people achieve the supreme rank,(so) O Lady of Vātyapura,the Benignant! Good Morning to you!

******

Saturday, May 30, 2015

वात्यापुरेश्वरीसुप्रभातम् - १०

वात्यापुरेश्वरीसुप्रभातम् - १०

उच्चण्डवेगरणकर्मणि चण्डमुण्डौ
तं रक्तबीजमथ घोरतरं निसुम्भम् ।
हत्वाऽथ सुम्भममरैः परिगीतकीर्त्ते
वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥१०॥

पदच्छेदः


उच्चण्डवेगरणकर्मणि चण्डमुण्डौ तं रक्तबीजम् अथ घोरतरं निसुम्भं हत्वा अथ सुम्भम् अमरैः परिगीतकीर्त्ते वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥


अन्वयः


उच्चण्डवेगरणकर्मणि चण्डमुण्डौ अथ रक्तबीजं घोरतरं तं निशुम्भम् अथ शुम्भं हत्वा अमरैः परिगीतकीर्त्ते वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥


प्रतिपदार्थः


उच्चण्डवेगरणकर्मणि = अत्युग्रे युद्धकार्ये, चण्डमुण्डौ = चण्ड​-मुण्डनामकौ शुम्भसेनानायकौ, अथ = अपि च​, रक्तबीजं = रक्तादुत्पन्नं, घोरतरं = भयानकं, तं = तादृशं, निशुम्भं = निशुम्भनामकम् असुरं च​, अथ = अपि च​, शुम्भं = शुम्भनामकम् असुरं, हत्वा = निहन्य​, अमरैः = देवैः, परिगीतकीर्ते = स्तुतयशस्के, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥


विशेषः


१) उच्चण्डवेगरणकर्मणि = उच्चण्डः वेगः, उच्चण्डवेगः रणः, उच्चण्डवेगरणः, तद्रूपं कर्म उच्चण्डवेगरणकर्म​, तस्य सप्तमी । उच्चण्डः = अत्युग्रः ।
२) चण्ड​-मुण्डौ = चण्डः मुण्डः च चण्डमुण्डौ । एतन्नामकौ असुरौ निशुम्भस्य सेनानायकौ आस्ताम् । एतौ दुर्गायाः ललाटात् निर्गतया शक्त्या नाशितौ । अत एव तस्याः शक्तेः चामुण्डा इति नाम प्रदत्तं दुर्गया । तद्यथा - "देव्याः ललाटनिष्क्रान्ताया कालीति च विश्रुता", यस्माच्चण्डञ्च मुण्डञ्च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि भविष्यति" इति कालिकापुराणे । चण्डः प्रचण्डः अत्युग्रवान् योद्धा इत्यर्थः । मुण्डः मुण्डम् एव अवयवः अस्य इति मत्वर्थीये "अ"प्रत्यये रूपम् । एतस्य केवलं शिरः एव अासीद् इति पौराणिकप्रसिद्धिः ।
३) रक्तबीजं = रक्तं शोणितं बीजं कारणम् अस्य रक्तबीजः । अर्थात् रक्ताद् उत्पन्नः एषः निशुम्भः इति पुराणकथा । एतस्य शरीराद् यदा रक्तबिन्दुः भूमौ पतति तदा प्रतिबिन्दु तादृशः एव असुर उत्पद्यते । तदा देव्या स्ववदनात् काञ्चित् शक्तिम् उत्पाद्य तद्द्वारा भूमौ पतितान् रक्तबिन्दून् पीत्वा रक्तबीजं जघान । तदुपाख्यान यथा - पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् । योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यास्तत्प्रमाणस्तदासुरः ॥
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः । ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥
कुलिशेनाहतस्याशु तस्य सुस्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः । तावन्तः पुरुषा जातास्तद्बीर्य्यबलविक्रमाः ॥
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि । पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा । उवाच कालीं चामुण्डे ! विस्तरं वदनं कुरु ॥ मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता ॥ भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान् । एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥ भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे । इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ मुखेन काली जगृहे रक्तबीजस्य शोणितम् । तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ यतस्ततस्तद्वक्त्रेण चामुण्डा संप्रतीच्छति । मुखे समुद्गता येऽस्या रक्तपातान्महासुराः । तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥ देवी शूलेन वज्रेण वाणैरसिभिरृष्टिभिः । जघान रक्तबीजं तं चामुण्डापीतशोणितम् ॥ स पपात महीपृष्ठे शस्त्रसंघसमाहतः । नीरक्तश्च महीपाल ! रक्तबीजो महासुरः ॥ ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ! । तेषां मातृगणो जातो ननर्त्तासृङ्मदोद्धतः ॥ इति मार्कण्डेयपुराणे रक्तबीजवधवर्णनम् । महिषासुरस्य पिता रम्भ इत्याख्यः एव जन्मान्तरे रक्तबीजरूपेण जन्म अलभत इति देवीमाहात्म्ये श्रूयते ।
४) शुम्भः निशुम्भः = एतौ असुरौ महाबलौ आस्ताम् । अग्रजः शुम्भः अनुजः निशुम्भः । एतौ देव्या हतौ । तदुपाख्यानं मार्कण्डेयपुराणे, कालिकापुराणे, देवीमाहात्म्ये च द्रष्टव्यम् ।
५) परिगीतकीर्ते = परिगीता कीर्तिः यस्याः सा = परिगीतकीर्तिः, तस्य सम्बोधनम् ॥

तात्पर्यम्

अत्युग्रयुद्धे चण्ड​-मुण्डौ नामकौ शुम्भसेनानायकौ, रक्तबीजनामकम् अपरं सेनापतिं, भयानकं शुम्भं निशुम्भं च हत्वा देवानां स्तुतेः पात्रम् अभवत् । हे वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥

हिन्दी

अति घोर युद्ध में चण्ड एवं मुण्ड नामक शुम्भ के दो सेनानायकों को, रक्तबीज नामक और एक सेनानायक को, शुम्भ तथा निशुम्ह नामक असुरों को मारकर देवताओं की स्तुति के पात्र हुई । हे वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥


(Translation by Brahmasri Ganeshan @vezhamukhan)

You killed Canda, Munda and Raktabeeja the fierce warlords of Shumbha the DemonThus becoming the object of prayer of all Gods, Hey VatyapureSvari, benign DivineWe sing Your Morning praise, kill such evil forces from our mind.


(Translation by Muddassir Ahmad @muddassirahmad7)


In extremely vehement battle by slaying Chand and Munda, then that Raktabīja and awful Nisumbha and then by finally killing Sumbha, you earned the glory sung by the Immortals, O Lady of Vātyapura, the benigant! Good Morning to you!

******

Friday, May 29, 2015

वात्यापुरेश्वरीसुप्रभातम् - ९

वात्यापुरेश्वरीसुप्रभातम् - ९


निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते ।
पानोत्सुके महिषमर्द्दिनि भीमनादे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥ 

पदच्छेदः


निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते, पानोत्सुके, महिषमर्द्दिनि, भीमनादे, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥ 


अन्वयः


निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते, पानोत्सुके, महिषमर्द्दिनि, भीमनादे, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥ 


प्रतिपदार्थः


निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते = अखिलदेववृन्दैः उद्गच्छदपरिमेयज्योतिर्विशेषस्य सम्यक् पुष्टः अत्याश्चर्यभयानकमूर्तियुक्ते, पानोत्सुके = रक्षणाय उत्कण्ठिते, महिषमर्द्दिनि = महिषनामकस्य असुरस्य वधकर्त्री, भीमनादे = भीष्मशब्दयुते, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

विशेषः


१) निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते = देवता एव दैवतं।तः स्वार्थे अण् । निश्शेषः (अखिलः) दैवतः, तस्य गणः = निश्शेषदैवतगणः, उद्यत् (उद्गच्छत्) अमेयतेजःपुञ्जैक्यं, तेन सम्भृता महाद्भुतरौद्रमूर्तिः, तस्य सम्बोधनम् ।
२) पानोत्सुके = पाने (रक्षणे) उत्सुका (उत्कण्ठिता) = पानोत्सुका, तस्य सम्बोधनम् । पा रक्षणे इत्यस्माद् धातोः भावे ल्युट्-प्रत्यये रूपम् ।
३) महिषमर्द्दिनि = महिषस्य (असुरविशेषस्य​) मर्द्दिनी, तस्य सम्बोधनम् ।
४) भीमनादे = भीमः नादः यस्याः सा = भीमनादा, तस्य सम्बोधनम् ।


तात्पर्यम्


सकलदेवैः अनुभूता कान्तिसमूहस्य महदाश्चर्ययुक्ता भयानकरूपयुक्ता भवती सर्वेषां रक्षणे उत्कण्ठिता भयङ्करशब्दयुक्ता महिषासुरस्य वधकर्त्री च वर्तते । हे वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥


हिन्दी


सभी देव् गणों द्वारा अनुभूत कान्ति से युक्त अत्यन्त आश्चर्यजनक भयानक ध्वनिवाली सब के रक्षण करनेवाली महिषासुर की वध करनेवाली हे वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥


ENGLISH

(Translation by Brahmasri Ganeshan @vezhamukhan)

Endowed with the radiance of all divine powers and with a roar that is a wonderment Slaying the great demon Mahisha so to protect all in the three worlds & firmament 
Now residing here as VatyapreSvai, benign Mother, we sing your morning praise in fulfilment!

(Translation by Muddassir Ahmad @muddassirahmad7)

Endowed with majesty of entire multitude of divinities, O greatly marvelous fierce-form!
O the one ever-ready to protect! O Slayer of Mahisha! O one with terrific sound!
O Lady of Vātyāpura, the Benignant! Good morning to you!

*******

वात्यापुरेश्वरीसुप्रभातम् - ८

वात्यापुरेश्वरीसुप्रभातम् - ८


त्वं देववृन्दमहितस्तुतिगीतहृष्टा तं धूम्रलोचनमहो रणदुष्प्रधर्षम् ।
हुङ्कारतोऽथ चकृषे भसितं जवेन वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥


पदच्छेदः
त्वं, देववृन्दमहितस्तुतिगीतहृष्टा, तं, धूम्रलोचनम्, अहो, रणदुष्प्रधर्षं, हुङ्कारतः, अथ, चकृषे, भसितं, जवेन​, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥

अन्वयः
देववृन्दमहितस्तुतिगीतहृष्टा त्वम् अथ रणदुष्प्रधर्षं धूम्रलोचनं तं हुङ्कारतः अहो जवेन भसितं चकृषे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

प्रतिपदार्थः
देववृन्दमहितस्तुतिगीतहृष्टा = देवैः पूजिता स्तुतिभिः गीतैः च आनन्दिता, त्वं = भवती, अथ = ततः, रणदुष्प्रधर्षं = युद्धे हिंसितुम् अशक्यं, धूम्रलोचनं = धूम्रलोचननामकम् असुरं, तं = तादृशं, हुङ्कारतः = तव हुङ्करणेन​, जवेन = सद्यः (वेगेन​), भसितं = भस्मीकरणं, चकृषे = कृतवती,  वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

विशेषः

१) देववृन्दमहितस्तुतिगीतहृष्टा = महितं (पूजनं) स्तुतिः गीतं च = महितस्तुतिगीतानि, देववृन्दानां महितस्तुतिगीतानि = देववृन्दमहितस्तुतिगीतानि, तैः हृष्टा = देववृन्दमहितस्तुतिगीतहृष्टा, देवानां पूजनेन स्तुतिभिः गीतैः च सन्तुष्टा इत्यर्थः ।
२) धूम्रे लोचने यस्य सः = धूम्रलोचनः, शुम्भनामकस्य असुरस्य सेनापतिः एषः ।
३) रणदुष्प्रधर्षं = रणे दुष्प्रधर्षं = रणदुष्प्रधर्षम् । दुःखेन प्रधर्षः = दुष्प्रधर्षः ।
४) हुङ्कारतः = हुम् इति अव्यक्तशब्दस्य कारः = हुङ्कारः, तस्मात् = हुङ्कारतः, पञ्चम्यर्थे तसिः । 
५) भसितं = भस दीप्तौ अथवा भस भक्षणे इत्यस्मात् धातोः क्त​-प्रत्यये रूपं, भस्म इत्यर्थः । "गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ" "दापयेत्प्रोक्षणीपात्रे भसितं प्रणवेन च"  इत्यादयः प्रयोगाः द्रष्टव्याः ।
६) धूम्रलोचननामकस्य असुरस्य वधं चकार दुर्गा । यदा शुम्भः स्वसेनापतिं दुर्गायाः केशान् आकृष्य आनय इत्यादिष्टवान् तदा सः सेनापतिः धूम्रलोचनः दुर्गाम् उक्तवान् भवती स्वतः आगच्छतु अन्यथा अहं केशान् आकृष्य बलाद् नयामि इति । तदा दुर्गा तं धूम्रलोचनं स्वीयेन हुङ्कारेण एव भस्म कृतवती । तदुपाख्यानं यथा - तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः । वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥ स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् । जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥ न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति । ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥ दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः । बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥ इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः । हुङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥ (दुर्गासप्तशती अध्यायः - ६)

तात्पर्यम्

भवती देवैः पूजिता स्तुता सती दूम्रलोचनं नामकं युद्धे जेतुम् अशक्यम् असुरं स्वीयेन हुङ्कारेण एव भस्म कृतवती । हे वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥

हिन्दी

हे गुर्गे आप देवों के द्वारा पूजिता, स्तुता होकर धूम्रलोचन नामक युद्ध में पराक्रमी असुर का वध अपने हुङ्कार से ही किया । वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥

ENGLISH

(Translation bu Brahmasri Ganeshan @vezhamukhan)

Hey Durga, when Shumbha ordered his General to fetch You, worshipped & eulogized by the GodsYou reduced that demon. Dhoomralochana to ashes with a roar from your vocal chords VatyapureSvari, You vanquish even the most invincible, rise as we sing the morning prayers adored


(Translation by Muddassir Ahmad @muddassirahmad7)

You, worshiped by chorus of gods; pleased by hymns and songs, then reduced that Dhūmralochana, ah! the one untouchable in battle, into ashes merely by an impulsive roar! O Lady of Vātyapura, the Benignant! Good Morning to you!

*********

Monday, May 25, 2015

वात्यापुरेश्वरीसुप्रभातम् - ७

वात्यापुरेश्वरीसुप्रभातम् - ७

स्रष्टारमाशु चकृषे जगतीहितार्थम् स्वस्थं तदैव मधुकैटभमर्दनेन ।
तत्तादृगद्भुतदयामयि योगमाये वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

पदच्छेदः

स्रष्टारम् आशु चकृषे जगतीहितार्थं स्वस्थं तदा एव मधुकैटभमर्दनेन तत्तादृगद्भुतदयामयि योगमाये वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥ 

अन्वयः

मधुकैटभमर्दनेन तदा एव स्रष्टारं जगतिहितार्थम् आशु स्वस्थं चकृषे तत्तादृगद्भुतदयामयि योगमाये वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

प्रतिपदार्थः

मधु-कैटभमर्दनेन = मधु-कैटभयोः विनाशनेन​, तदा एव = तत्क्षणे एव, स्रष्टारं = ब्रह्माणं, जगतीहितार्थं = लोककल्याणाय​, आशु = झटित्, स्वस्थं = निश्चिन्तं, चकृषे = कृतवती । तत्तादृगद्भुतदयामयि = तादृशप्रभावशालिनि दयास्वरूपिणि, योगमाये = योगमायारूपिणि, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभ्प्रभातं (व्याहरामः) ॥

विशेषः 

१) चकृषे = कृ-धातोः लिटि मध्यमपुरुष​-एकवचनम् ।
२) जगतीहितार्थं = जगत्याः हितार्थं जगतीहितार्थम् ।
३) मधु-कैटभमर्दनेन = मधु-काभयोः मर्दनं, तेन ।
४) तत्तादृगद्भुतदयामयि = तस्याः तादृक् = ततादृक्, तत्तादृक् च अद्भुतदयामयी च = तत्तादृगब्धुतदयामयी, तस्य सम्बोधनम् ।
५) योगमाया = योगः एव माया = योगमाया, विष्णुमायारूपिणी, या जगस्रष्टौ शक्तिरूपेण उपतिष्ठते । अत्र विष्णोः योगनिद्रारूपिणी योगमाया इत्यर्थः । 
६) एषः श्लोकः पूर्वश्लोकस्य अनुवर्तनरूपः । तत्र आरब्धः प्रसङ्गः अत्र समापितः ॥

तात्पर्यम्

मधुकैटभयोः विनाशनेन ब्रह्माणं स्वशं कृतवती, लोककल्याणाय इदं कार्यं कृतम् । तादृशाद्भुतया दयया युक्ते, योगमाये, वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥

हिन्दी

लोक कल्याण के लिए मधु और कैटभ नामक के दोनों असुरों को मरकर ब्रह्मा को स्वश किया । उस प्रकार की अद्भुत दया से युक्त​, योगाअये, वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥

Translation by Brahmasri Ganeshan @vezhamukhan


(Translation by Muddassir Ahmad @muddassirahmad7)

You at once cured the creator, Brahmā (from his anxiety), by slaying Madhu and Kaiṭbha for well-being of the world. O such gracious driving force of the world(yogamāya)! O Lady of Vātyapura, the Benignant! Good Morning to you!


******

वात्यापुरेश्वरीसुप्रभातम् – ६

वात्यापुरेश्वरीसुप्रभातम् – ६

दैत्यारिकर्णमलजौ मधुकैटभौ तौ दृष्ट्वाऽशु कातरधिया कमलासनेन ।
दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

पदच्छेदः

दैत्यारिकर्णमलजौ मधुकैटभौ तौ दृष्ट्वा आशु कातरधिया कमलासनेन दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

अन्वयः

दैत्यारिकर्णमलजौ तौ मधुकैटभौ दृष्ट्वा कमलासनेन कातरधिया आशु दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

प्रतिपदार्थः

दैत्यारिकर्णमलजौ = विष्णोः श्रोत्राद् उत्पन्नमलाद् उत्पन्नौ, तौ = तौ द्वौ, मधुकैटभौ = मधु-कैटभनामानौ, दृष्ट्वा = अवलोक्य​, कमलासनेन = ब्रह्मणा, कातरधिया = भयबुद्ध्या, आशु = झटिति, दिव्यैः = श्रेष्ठैः, स्तवैः = स्तोत्रैः, परिणुते = वन्दिते, हरियोगनिद्रे = विष्णोः योगनिद्रास्वरूपिणि, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभ्प्रभातं (व्याहरामः) ॥

विशेषः

१) दैत्यारिकर्णमलजौ = दैत्यारिः = विष्णुः (दैत्यानाम् अरिः), कर्णस्य (कर्णयोः) मलं = कर्णमलं, दैत्यारेः कर्णमलं = द्ऐत्यारिकर्णमलं, तस्मात् जातौ = दैत्यारिकर्णमलजौ ।
२) मधुकैटभौ = मधुः च कैटभः च = मधुकैटभौ । एतौ असुरविशेषौ । एतौ द्वौ असुरौ विष्णोः कर्णमलात् जातौ इति पुराणकथा । एतौ उत्पन्नौ विष्णोः नाभिकमले आसीनं ब्रह्माणं हन्तुम् उद्यतौ । तदानीं भगवान् योगनीद्रां परित्यज्य तौ जघनभागे संस्थाप्य नाशितवान् इति श्रूयते । तद्यथा मार्कण्डेयपुराणे - योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्य्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥ तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ॥ इति । विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभाविति इति देवीमाहात्म्ये च श्रूयते । यदा एतौ ब्रह्माणं हन्तुम् उद्यतौ तदा ब्रह्मा भीत्या आत्मनः रक्षणाय हरेः योगनिद्रारूपेण विद्यमानां त्वां दिव्यैः स्तोत्रैः स्तुतवान् । तेन एव सः रक्षितः ।
३) हरियोगनिद्रे = हरेः (विष्णोः) योगनिद्रा = हरियोगनिद्रा, तस्य सम्बोधनम् । हरे योगनिद्रारुपिणी दुर्गा वात्यापुरेश्वरी इति तात्पर्यम् ।
४) कातरधिया = कातरः भीतिः अधैर्यं वा । कातरधीः = भीतिबुद्धिः । तया ।
५) कमलासनेन = कमलम् आसनं यस्य सः = कमलासनः, तेन । ब्रह्मा इत्यर्थः ।

तात्पर्यम्

पुरा विष्णोः कर्णमलाद् द्वौ असुरौ मधु-कैटभनामानौ उत्पन्नौ । तौ ब्रह्माणं हन्तुम् उद्यतौ । तदा ब्रह्मा भीत्या विष्णोह् योगनिद्रारूपिणीं दुर्गाम् (वात्यापुरेश्वरीं) स्तुतवान् । तेनैव ब्रह्मा रक्षितः । ब्रह्मणः रक्षणकर्त्री वात्यापुरेश्वरी वर्तते । हे ईश्वरि, भद्रे, तव शुभप्रभातम् व्याहरामः, त्वम् उत्तिष्ठ ॥

हिन्दी

पुरा विष्णु के कान के मल से मधु और कैटभ नाम के दो असुर जन्म लिए । वे दोनों जब ब्रह्मा की हत्या करने के लिए तत्पर हुए, तब ब्रह्मा ने डर से विष्णु की योगनिद्रारूपिणी दुर्गा की स्तुति की ।  वही योगनिद्रा ब्रह्मा को बचाया । ऐसी ब्रह्मा को बचानेवाली हे वात्यापुरेश्वरि, भद्रे, आप का शुभ प्रभात कहते हैं, आप उठो ॥

(Translation by Brahmasri Ganeshan @vezhamukhan)


(Translation by Muddassir Ahmad @muddassirahmad7)

Upon seeing those two demons,named Madhu and Kaiṭabha, risen from earwax of Hari, the demons' foe the lotus-seated Brahmā, with fear, immediately evoked you with divine hymns,O meditative slumber of Hari! (Oh protector of that Brahmā!), Lady of Vātyapuri, the Benignant! Good Morning to you!


******

Sunday, May 24, 2015

सरस्वतीसूक्तम्

सरस्वतीसूक्तम् (ऋग्वेदे ६-६१)

अस्मिन् सूक्ते सरस्वती देवतारूपेण नदीरूपेण च स्तूयते ॥

इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥ (६-६१-१)

पदच्छेदः

इयम्, अददात्, रभसम्, ऋण​ऽच्युतम्, दिवह्ऽदासम्, वध्रिऽअश्वाय​, दाशुषे,
या, शश्वन्तम्, आऽचखाद​, अवसम्, पाणिम्, ता, ते, दात्राणि, तविषा, सरस्वति ॥

अन्वयः

इयं रभसम् ऋणच्युतं दिवोदासं दाशुषे वध्र्यश्वाय अददात् या शश्वन्तं पणिम् अवसम् आचखाद सरस्वति ता ते दात्राणि तविषा ॥

प्रतिपदार्थः

इयं = सरस्वती, रभसं = वेगयुक्तं, ऋणच्युतं = वैदिकस्य लौकिकस्य (देव​-ऋषि-पितृऋणानि) च दूरीकर्तारं, दिवोदासं = दिवोदासनामकं पुत्रं, दाशुषे = (हविः) दत्तवते, वध्र्यश्वाय = वध्र्यश्वनामकाय ऋषये, अददात् = दत्तवती । या = सरस्वती, शश्वन्तं = बहुलं, पणिं = पणनशीलं वनिजं, अवसं = निजतर्पकं, आचखाद = आजघान । सरस्वति = हे सरस्वति!, ता = पुत्रदानादीनि, ते = त्वदीयानि, दात्राणि = दानानि, तविषा = महान्ति ॥

तात्पर्यम्

या सरस्वती केवलं स्वार्थपरायणम् अदातृजनं हन्ति स्म​, सा सरस्वती तेजस्विनं दिवोदासं (यः वैदिकलौकिक​-ऋणानां दूरीकर्ता) वध्र्यश्वनामकाय ऋषये पुत्रत्वेन दत्तवती । ह् ए सरस्वति ! पुत्रदानादीनि तव दानानि महान्ति भवन्ति ॥

हिन्दी

जिस सरस्वती ने केवल स्वार्थ परायण दान करनेवालों को मारा, वह सरस्वती बडे तेजस्वी सभी प्रकार के ऋणों से (वैदिक और देव​-ऋषि-पितृ-ऋणों से) मुक्त करनेवाले दिवोदास नामक पुत्र को वध्र्यश्व नामक ऋषि को दी ॥

ENGLISH

Who destroyed the selfish and non-giver that Sarasvati has given a son named Divodas who is the remover of all kinds of debt (both Vaidik and Laukik) to the seer Vadhryashva.

Translation by Ralph T.H.Griffit

To Vadhryasva when be worshipped her with gifts she gave fierce Divodāsa, canceller of debts. Consumer of the churlish niggard, one and all, thine, O Sarasvatī, are these effectual boons. 

Translation by Brahmasri Ganeshan @vezhamukhan


Sarasvati, One of speed,annihilating self-centredness & niggardliness 
Gave the Seer VadhryaSva a son named Divodasa, remover of all indebtedness
That a person born in this world could incur,Hey Sarasvati Your boons show your greatness

*******



इयं शुष्मेभिर्बिसखाइवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः ।
पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥ २ ॥

पदच्छेदः

इयं शुष्मेभिः विसखाऽइव अरुजत् सानु गिरीणां तविषेभिः ऊर्मिऽभिः
पारावतऽघ्नीम् अवसे सुवृक्तिऽभिः सरस्वतीम् आ विवासेम धीतिऽभिः ॥

अन्वयः

इयं शुष्मैः तविषेभिः ऊर्मिभिः गिरीणां सानु अरुजत् । बिसखाइव सरस्वतीं परावतघ्नीं सुवृक्तिभिः धीतिभिः अवसे आ विवासेम ॥

प्रतिपदार्थः

सरस्वती देवतारूपेण नदीरूपेण च वर्तते । पूर्वम् ऋचा देवतारूपा सरस्वती स्तुता । सम्प्रति नदीरूपा सरस्वती स्तूयते अनया ऋचा ॥

प्रतिपदार्थः

इयं = नदीरूपा सरस्वती, शुष्मैः = शोषकशक्तिभिः, तवेषिभिः = बृहद्भिः, ऊर्मिभिः = तरङ्गैः, गिरीणां = पर्वतानां, सानु = अधोभागान्, बिसखा इव = मृणालकर्त्तयिता इव​, अरुजत् = भग्नम् अकरोत् ।  सरस्वतीं = तादृशीं सरस्वतीं, परावतघ्नीं = दूरे वर्तमानस्य अपि हन्त्रीम् अथवा पारावारयोः तीरयोः हन्त्रीं, सुवृक्तिभिः = स्तोत्रैः, धीतिभिः = कर्मभिः, अवसे = रक्षणाय​, आ विवासेम = परिचर्यां कुर्महे ॥

तात्पर्यम्

नदीरूपा सरस्वती स्वीयैः शक्तिमद्भिः महत्त्तरङ्गैः पर्वतानाम् अधोभागं यथा तडागे मृणालस्य कर्त्तयिता मृणालकर्त्तनावसरे तडागस्य पङ्कं भनक्ति तथा रुजति स्म । तादृशीं सरस्वतीं दूरे वर्तमानस्यापि वृक्षादेः हन्त्रीं (अथवा उभयपारयोः तीरयोः भङ्क्त्रीं) वयं स्तोत्रैः कर्मभिः च नः रक्षणाय परिचराम ॥

हिन्दी

इस ऋचा में सरस्वती के दोनों रूपों में से (देवता और नदी) नदीरूपा सरस्वती की स्तुति की जाती है । यह नदी रूपा सरस्वती अपने शक्तिशालि और महत् तरङ्गों से जैसे कमल फूल के मृणाल को खाटनेवाला तडाग के पङ्क को भेद कर आगे बढता है वैसे ही पहाड के निचे के हिस्से को खाट देती है ।  उस प्रकार की नदीरुपा सरस्वती की जो कि दूर में विद्यमान पेडों को भी उखाड देती है (या अपने दोनों पार के तीर को अपक्षरण करती है) हम लोग स्तोत्रों से विविध पूजा अर्चना आदि काम से भी अपने रक्षा के लिए सेवा करते हैं ॥

ENGLISH

Sarasvati is in two forms – one is Goddess and the other is River. Here, in this Rik, River form of Sarasvatii is worshipped. River Sarasvati eroded the ridges of mountains by her forceful waves like the Lotus-Stem-Cutter cuts the sludge and proceeds to cut the Lotu-stem. We pray that Sarasvati with Stotras and actions who destroys the trees which are even away from the it (or erodes both banks).

Translation by Ralph T.H.Griffith

She with her might, like one who digs for lotus-stems, hath burst with her strong waves the ridges of the hills. Let us invite with songs and holy hymns for help Sarasvatī who slayeth the Paravatas.

Translation by Brahmasri Ganeshan @vezhamukhan

Sarasvati, when you flow as the mighty river delving deep into mire 
As if to cut off the stems of lotus flowers that thrive in your weir 
And bursting out with tidal waves eroding ridges of great mounts on Your corridor 
Uprooting trees that are far away on Your banks, we bow to Thy power 
With glorious hymns and good deeds, so You protect us all for ever!



सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।
उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥ ३ ॥

पदच्छेदः

सरस्वति देवऽनिदः नि बर्हय प्र​ऽजां विश्वस्य बृसयस्य मायिनः उत क्षितिऽभ्यः अवनीः अविन्दः विषम् एभ्यः अस्रवः वाजिनीऽवति ॥

अन्वयः

सरस्वति देवनिदः नि बर्हय विश्वस्य मायिनः बृसयस्य प्रजां उत वाजिनीवति क्षितिभ्यः अवनीः अविन्दः एभ्यः विषम् अस्रवः ॥

प्रतिपदार्थः

सरस्वति = हे सरस्वति, देवनिदः = देवानां निन्दकान् असुरान्, निबर्हय = अवधीः, विश्वस्य = व्याप्तस्य​, मायिनः = मायाविनः, बृसयस्य = त्वष्टृदेवस्य​, प्रजां = वृत्रासुरनामकं (च अवधीः) । उत = किञ्च​, वाजिनीवति = हे अन्नवति (सरस्वति) क्षितिभ्यः = मानवेभ्यः, अवनीः = (असुरैः अपहृताः) भूमीः, अविन्दः = अलम्भयः, एभ्यः = मानवेभ्यः, विषं = जलं, अस्रवः = अक्षारयः ॥

तात्पर्यम्

हे सरस्वति ! त्वं देवनिन्दकानाम् असुराणां वधं कृतवती, अपि च मायाविनः त्वष्टृदेवस्य पुत्रस्य वृत्रासुरस्य वधं कृतवती । किञ्च हे अन्नवति! मानवेभ्यः वासाद्यर्थं भूमिं दत्तवती, तेभ्यः जलम् अपि उपलम्भितवती ॥

हिन्दी

हे सरस्वति! आप तु देवताओं के निन्दक असुरों का वध किया और त्वष्टृदेवता के मायावी पुत्र वृत्रासुर का भी वध किया । और हे अन्नवति! मनुष्यों के लिए रहने लायक भूमि दी और जल भी प्राप्त करायी ॥

विशेषः

१) देवनिदः = देवानां निदः (निन्दकानां) देवनिदः, असुराणाम् इत्यर्थः ।
२) नि बर्हय = बर्ह हिंसायाम् (चुरादिः सकर्मकः सेट् उभयपदी) इति धातोः लङ्लकारे मध्यमपुरुष​-एकवचने रूपं "बर्हय​" इति वेदे क्वचित् ॥ स च नि इति उपसर्गपूर्वकः । वस्तुतः "अबर्हयः" इति लङि रूपं स्यात् । वेदे सर्व​-व्यत्ययः भवितुम् अर्हति । अतः लङि नि+बर्हय इति रूपम् । एतस्य अर्थः एव सायणेन दर्शितः "न्यबर्हयः अवधीः" इति । वेदे उपसर्गस्य पृथक् पदत्वेन ग्रहणं भवति । अतः एव पदपाठे "नि" "बर्हय​" इति दर्शितम् । अत्र "अबर्हयः" इति पदं नास्ति । "बर्हय​" इति एव पदं लङ्लकारे म​.पु.ए.वचने वेदे अस्याम् ऋचि ॥
३) बृसयस्य = बृसयः इति त्वष्टृदेवस्य नाम, तस्य षष्ठी बृसयस्य इति ।
४) क्षितिभ्यः = क्षितौ वसद्भ्यः अर्थात् मानवेभ्यः ।
५) अवनीः = अत्र असुरैः अपहृता भूमिः उच्यते अवनी इति द्वितीया बहुवचनम् ।
६) अविन्दः = लम्भनं कृतवती ।
७) विषम् - जलम्,
८) अस्रवः = अवक्षरणम् कृतवती ।

ENGLISH

O Sarasvati, you destroyed the censurers of Gods and also Vritrasura Son of Tvasta. O Annavati (one who has food), you gave Earth and water to people for their living.

Translation by Ralph T.H.Griffith

May the divine Sarasvatī, rich in her wealth, protect us well,
Furthering all our thoughts with might

Translation by Brahmasri Ganeshan @vezhamukhan

Slayer of Demons who abused the Gods and also Tvashta’s son 
The fierce VrutraSura, Hey Sarasvati, You established an order
You are the God of Food, giving us the Earth to till & water to live on.

*******


प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु ॥४॥

पदच्छेदः

प्र नः देवी सरस्वती वाजेभिः वाजिनीऽवती धीनाम् अवित्री अवतु ॥

अन्वयः

देवी वजिनीवती धीनाम् अवित्री सरस्वती वाजेभिः नः प्र अवतु ॥

प्रतिपदार्थः

देवी = दानगुणयुता, वाजिनीवती = अन्नक्रियायुक्ता, धीनां = स्तोतॄणाम्, अवित्री = रक्षणकर्त्री, सरस्वती = एतादृशी सरस्वती, वाजेभिः = अन्नैः, नः = अस्मान्, प्र = प्रकर्षेण​, अवतु = तर्पयतु ॥

तात्पर्यम्

दानशीला अन्नदात्री स्तोत्रं क्रियमाणानां रक्षणकर्त्री (वर्तते) सरस्वती । तादृशी सरस्वती अन्नैः अस्मान् उत्तमरीत्या तर्पयतु (अस्माकं तृप्तिं कारयतु) ।

हिन्दी

दानशीला अन्नदात्री स्तोत्र करने वालों की रक्षणकर्त्री है सरस्वती । उस प्रकार की सरस्वती अन्न से हमें उत्कृष्ट रूप से तृप्त करें ॥

ENGLISH

Sarasvati is of Giving Natured, Food-giver (wealth-giver), and protect who do prayers. Let Sarasvati with those qualities make us contented with Food (wealth).

(Translation by Ralph T.H.Griffit)

May the divine Sarasvatī, rich in her wealth, protect us well,
Furthering all our thoughts with might

(Translation by Brahmasri Ganeshan @vezhamukhan)

Sarasvati,who grants & provides all with food & wealth May she protect her devotees giving them all things material on the earth



******

यस्त्वा देवि सरस्वत्युपब्रूते धने हिते । इन्द्रं न वृत्ततूर्ये ॥ ५ ॥

पदच्छेदः

यः त्वा देवि सरस्वति उपऽब्रूते धने हिते इन्द्रं न वृत्तऽतूर्ये ॥

अन्वयः

देवि सरस्वति यः वृत्रतूर्ये धने हिते इन्द्रं न त्वाम् उपब्रूते ॥

प्रतिपदार्थः

देवि = हे दानशीले, सरस्वति = हे सरस्वति, यः = स्तोत्रकर्त्ता, धने = अर्थे, हिते = निमित्तभूते (सति), वृत्ततूर्ये = युद्धे, इन्द्रं न = इन्द्रं इव​, त्वां = भवतीं, उपब्रूते = स्तोत्रं करोति, (तं रक्ष​) ॥

तात्पर्यम्

हे देवि सरस्वति, यः स्तोता संग्रामे धने निमित्तभूते सति इन्द्र इव त्वां स्तौति तं रक्ष ॥

हिन्दी

हे देवि सरस्वति, जो स्तोत्र करनेवाला व्यक्ति युद्ध में धन के निमित्त जैसे इन्द्र ने तुमारा स्तोत्र किया वैसे स्तोत्र करता है, उस की रक्षा करें ॥

विशेषः

१) उपब्रूते = वदति, अत्र स्तौति इत्यर्थः ।
२) इन्द्रं न = वेद में जहां सुबन्त के बाद "न​" आता है, वहां पर "न​" का अर्थ होगा "इव​" ।

ENGLISH

O Sarasvati, protect the invoker who invokes you for wealth like Indra invokes you during battle.

Translation by Ralph T.H.Griffith

Whoso, divine Sarasvatī, invokes thee where the prize is set,
Like Indra when he smites the foe.

Translation by Brahmasri Ganeshan @vezhamukhan


Hey Sarasvati protect whoso invokes You for wealth material 
As the Chief of Gods, Indra, sings Your hymns when he engages the demons in battle

*******


त्वं देवि सरस्वत्यवा वाजेषु वाजिनि । रदा पूषेव नः सनिम् ॥ ६ ॥

पदच्छेदः

त्वं देवि सरस्वति अव वाजेषु वाजिनि रद पूषाऽइव नः सनिम् ॥

अन्वयः

देवि वाजिनि सरस्वति त्वं वाजेषु अव नः पूषेव सनिं रद ॥

प्रतिपदार्थः

देवि = हे दानशीले, वाजिनि = हे बलयुक्ते अन्नयुक्ते वा, सरस्वति = हे सरस्वति, त्वं = भवती, वाजेषु = युद्धेषु, अव = रक्ष​, नः = अस्माकं, पूषेव = पोषक इव​, सनिं = धनं, रद = विलिख (प्रयच्छ​) ॥

तात्पर्यम्

हे सरस्वति बलवति (अन्नवति) दानशीले, युद्धेषु अस्मान् रक्ष । अस्माकं पोषयित्री इव अस्मभ्यं धनं प्रयच्छ ॥

हिन्दी

हे सरस्वति, बलयुक्ते, (आनवाली) दानशीले, युद्ध से हमारी रक्षा करें । हमारी पोषयित्री होकर हमें सम्पत्ति दें ॥

विशेषः

१) देवि = दानाद् देवी इति, तस्य संबोधनम् ।
२) वाजिनि = वाजः अन्नं बलं वा तद् अस्याम् अस्ति इति वाजिनी, तस्य सम्बोधनम् ।
३) रद विलेखने भ्वादिः परस्मैपदी सेट् सकर्मकः । धातूनाम् अनेकार्थत्वात् अत्र दानार्थः ।

ENGLISH

O Sarasvati, Giving-Natured, Powerful, protect us from battles. Being our nourisher give us wealth.

Translation by Ralph T.H.Griffith

Aid us, divine Sarasvad, thou who art strong in wealth and power
Like Pūṣan, give us opulence.

Translation by Brahmasri Ganeshan @vezhamukhan


O Devi Sarasvati, bestower of boons, personification of Strength 
Save us from all battles, mental & corporeal, and as Pushan give us wealth.


उत स्या नः सरस्वती घोरा हिरण्यवर्तिनिः । वृत्रघ्नी वष्टि सुष्टुतिम् ॥ ७ ॥

पदच्छेदः

उत स्या नः सरस्वती घोरा हिरण्य​ऽवर्तिनिः वृत्रऽघ्नी वष्टि सुऽस्तुतिम् ॥

अन्वयः

उत स्या सरस्वती घोरा हिरण्य​ऽवर्तिनिः वृत्रऽघ्नी नः सुऽस्तुतिं वष्टि ॥

प्रतिपदार्थः

उत = अपि च​, स्या = सा, सरस्वती = सरस्वती, घोरा = भयकारिणी, हिरण्यऽवर्तिनिः = स्वर्णमयरथयुता, वृत्र​ऽघ्नी = शत्रुनाशयित्री, नः = अस्मदीयां, सुऽस्तुतिं = समीचीनां स्तुतिं, वष्टि = इच्छतात् ॥

तात्पर्यम्

अपि च सा प्रसिद्धा सरस्वती शत्रूणां भयकारिणी स्वर्णमयरथा शत्रूणां नाशयित्री अस्मदीयां शोभनां स्तुतिं कामयताम् ॥

हिन्दी

और वह जो सरस्वती शत्रुओं की भयदात्री स्वर्ण रथवाली शत्रुओं की नाशयित्री हमरे अच्छी स्तुति की कामना करें ॥

विशेषः

१) हिरण्यवर्तिनिः = वर्तते अनेन इति वर्तनिः = रथः, हिरण्यः रथः यस्याः सा = हिरण्यवर्तनिः ।
२) वृत्रघ्नी = वृत्राणां हन्त्री = वृत्रघ्नी । वृत्राः अत्र शत्रवः ॥

ENGLISH

O Famous Sarasvati, terrible to enemies, having golden chariot, destroyer of enemies, wish for our good prayer.

Translation by Ralph T.H.Griffith

Yea, this divine Sarasvatī, terrible with her golden path,
Foe-slayer, claims our eulogy.

Translation by Brahmasri Ganeshan @vezhamukhan

That Sarasvati,who terrorize Demonic forces & their slayer 
On a golden car, may she kindle our best tributes to her for ever
Mighty River,Your boundless waters flow swift not meandering
Rushing brilliantly with a roar give water of life engendering


यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः । अमश्चरति रोरुवत् ॥ ८ ॥

पदच्छेदः

यस्याः अनन्तः अह्रुतः त्वेषः चरिष्णुः अर्णवः अमः चरति रोरुवत् ॥

अन्वयः

यस्याः अमः अनन्तः अह्रुतः त्वेषः चरिष्णुः अर्णवः रोरुवत् चरति ॥

प्रतिपदार्थः

यस्याः = सरस्वत्याः, अमः = बलम्, अनन्तः = अपरिमितः, अह्रुतः = अकुटिलः, त्वेषः = दीप्तः, चरिष्णुः = चरणशीलः, अर्णवः = उदकयुक्तः, रोरुवत् = शब्दायमानः, चरति = वर्तते ॥

तात्पर्यम्

देव्याः सरस्वत्याः बलम् अपरिमितम् अकुटिलं दीप्तं चरणशीलम् उदकप्रदं शब्दं कुर्वद् वर्तते ॥

हिन्दी

देवी सरस्वती का बल अनन्त अकुटिल उद्दीप्त हमशा प्रसरणयुक्त उदक दातृ और शब्द करते हुए है ॥

विशेषः

१) अनन्तः = यस्य अन्तः नास्ति अपरिमितः च सः अनन्तः । नास्ति अन्तः यस्य = अनन्तः ।
२) अह्रुतः = अहिंसितः अकुटिलः वा । बलम् इत्यस्य विशेषणम् अकुटिलार्थः ।
३) त्वेषः = त्वेषस् इति सकारान्तः विशेष्यनिघ्नः । दीप्तः इत्यर्थः ।
४) चरिष्णुः = चर​-धातोः इष्णुच्-प्रत्यये रूपम् . चरणशीलः इत्यर्थः ।
५) अर्णवः = अर्णाम्सि (जलानि) सन्ति अस्मिन् इति अर्णवः = जलवान् इत्यर्थः, अर्थात् जलदाता इत्यर्थः ।
६) अमः = बलम् । अम गतौ इत्यस्मात् निष्पन्नः । गत्यर्थानां नानार्थत्वात् ।
७) रोरुवत् = अतिशयेन शब्दं कुर्वाणः ॥
एतस्याः ऋचः अग्रिमया ऋचा साकम् अन्वयः ॥

ENGLISH

The power of Sarasvati is immeasurable, non-zigzag, bright, always moving, and giver of waters that comes with roar. 

Translation by Ralph T.H.Griffith

Whose limitless unbroken flood, swift-moving with a rapid rush,
Comes onward with tempestuous roar.

Translation by Brahmasri Ganeshan @vezhamukhan

Mighty River,Your boundless waters flow swift not meandering
Rushing brilliantly with a roar give water of life engendering


सा नो विश्वा अतिद्विषः स्वसॄरन्या ऋतावरी । अतन्नहेव सूर्यः ॥९॥

पदच्छेदः

सा नः विश्वाः अति द्विषः स्वसॄः अन्याः ऋतावरी अतन् अह​ऽइव सूर्यः ॥

अन्वयः

सा नः विश्वाः द्विषः अति स्वसॄः ऋताव्री अन्याः सूर्यः अतन् अहेव ॥

प्रतिपदार्थः

सा = सरस्वती, नः = अस्मान्, विश्वाः = सर्वाः, द्विषः = द्वेषं धारयन्तीः प्रजाः, अति = तारयतु, स्वसॄः = साकम् उत्पन्नाः, ऋतावरीः = उदकयुक्ताः, अन्याः = इतराः नदीः, (अतितारयतु) । सूर्यः = आदित्यः, अतन् = गच्छन्, अहेव = दिवा इव (अतिनयतु) ॥

तात्पर्यम्

सा सरस्वती अस्मान् द्वेष्ट्रीः प्रजाः अतितारयतु, सा सर्स्वती स्वस्याभिः भगिनीभिः (गङ्गप्रभृतीभिः नदीभिः) साकम् अस्मान् अतितारयतु । यथा वा सूर्यः गच्छन् एव शीघ्रमेव दिवा अतिनयति तथा इयं सरस्वती अस्मान् अतिनयतु ॥

हिन्दी

यह सरस्वती हम लोगों को उद्धार करें । यह सरस्वती अपनी बहनों के साथ (गङ्गा आदि नदियों के साथ​) । जैसे सूरज चलते हुए दिवा को जलदी ही मिटा देता है वैसे यह सरस्वती हम लोगों को उद्धार करें ॥

विशेषः

१) अति = अत्र नयतु तारयतु इति क्रियापदानाम् अध्याहारः करणीयः ।
२) स्वसॄः = स्वयं सारिणीः सहोत्पन्ना वा इति सायणः ।
३) ऋतावरीः = ऋतम् इति उदकस्य नाम । ऋतावन् इत्यस्य स्त्रीत्व विवक्षायां वनो र च (४-१-७) इत्यनेन रेफादेशः ङीप् च । तेन ऋतावरी इति रूपम् । ऋतं = उअदकं, तद्युक्ता इत्यर्थः, अत्स्य द्वितीयाबहुवचने रूपम् ।

ENGLISH

May that Sarasvati make us to overcome our enemies. Let Sarasvati make us to overcome along with Her seven sisters (seven meters or seven rivers). Just as the Sun takes away the day quickly while moving, this Sarasvati take us.  

Translation by Ralph T.H.Griffith

She hath spread us beyond all foes, beyond her Sisters, Holy One,
As Sūrya spreadeth out the days.

Translation by Brahmasri Ganeshan @vezhamukhan

May you Sarasvati protect us whoever spites us, 
May we overcome with Her grace all our foes 
Overflowing to us along with Her sister rivers

May She take us along as quickly as the Sun the day giver

*******


उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत् ॥१०॥

पदच्छेदः

उत नः प्रिया प्रियासु सप्त​ऽस्वसा सुऽजुष्टा सरस्वती स्तोम्या भूत् ॥

अन्वयः

उत नः प्रियासु प्रिया सप्तस्वसा । सुजुष्टा । सरस्वती स्तोम्या भूत् ॥

प्रतिपदार्थः

उत = अपि च​, नः = अस्माकं, प्रियासु = प्रियाणां मध्ये, प्रिया = अतीव प्रिया, सपतस्वसा = गायत्र्यादीनि सप्त छन्दांसि स्वसारः यस्याः तादृशी अथवा गङ्गाद्याः सप्त नद्यः स्वसारः यस्याः सा तादृशी, सुजुष्टा = सुष्ठु सेविता, सरस्वती = तादृशी सरस्वती, स्तोम्या = स्तोतव्या, भूत् = भवतात् ॥

तात्पर्यम्

अस्माकं प्रीतिविषयासु या अत्यन्तं प्रिया, गायत्र्यादीनां सप्तानां छन्दसां सोदरी अथवा गङ्गादीनां सप्तानां नदीनां सोदरी, प्राचीनैः ऋषिभिः सेविता तादृशी सरस्वती अस्माभिः स्तूयते ॥

हिन्दी

हमारी प्रीतिपात्रों में अत्यन्त प्रियतमा, गायत्री आदि छन्दों की सोदरी या गङ्गा आदि सात नदियों की सोदरी, प्राचीन ऋषियों द्वारा सेवित​, वह सरस्वती हमारी स्तुति विषय हों ॥

विशेषः

१) सप्तस्वसा = सप्त स्वसारो यस्याः सा = सप्तस्वसा । अत्र सप्त सोदर्यः काः इति जिज्ञासायां द्वेधा समाधानं करोति सायणः । गायत्री-प्रभृतीनि सप्त छन्दांसि इति अथवा गङ्गा प्रभृतयः सप्त नद्यः इति ॥
२) सुजुष्टा = सुष्ठु सेविता । कैः इति जिज्ञासायां पुरातनैः ऋषिभिः इति । जुष हर्षे सेवायां च इति धातुः, तुदादिः आत्मनेपदी सेट् । हर्षे अकर्मकः, सेवार्थे सकर्मकः ।
३) स्तोम्या = स्तोतव्या । स्तोम श्लाघने चुरादिः परस्मैपदी सकर्मकः सेट् ॥

ENGLISH

Sarasvati is the most dearest among our beloved, is the sister of seven meters or rivers, prayed by the ancient seers and that Sarasvati is invoked by us.

Translation by Ralph T.H.Griffith

Yea, she most dear amid dear stream, Seven-sistered, graciously inclined,
Sarasvatī hath earned our praise.

Translation by Brahmasri Ganeshan @vezhamukhan

May Sarasvati,dearest of Rivers with sisters seven 
Most graceful as eulogized by Seers great even 

Be invoked with this hymn.

******


आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् । सरस्वती निदस्पातु ॥११॥

पदच्छेदः

आऽपप्रुषी पार्थिवानि उरु रजः अन्तरिक्षं सरस्वती निदः पातु ॥

अन्वयः

पार्थिवानि उरु रजः अन्तरिक्षम् आपप्रुषी सरस्वती निदः पातु ॥

प्रतिपदार्थः

पार्थिवानि = पृथिवीसम्बन्धीनि, उरु = विस्तीर्णानि, रजः = लोकान्, अन्तरिक्षं = नभः, आपप्रुषी = पूरितवती (स्वतेजसा), सरस्वती = तादृशी सरस्वती, निदः = निन्दां कुर्वतः शत्रोः, पातु = रक्षतु ॥

तात्पर्यम्

पृथिव्यां वर्तमानान् लोकान् अन्तरिक्षं च स्वतेजसा पूरितवती । तादृशी सरस्वती अस्मान् अस्माकं निन्दां कुर्वतः शत्रोः रक्षतु ॥

हिन्दी

इस भूमि पर वास करने वाले लोग और अन्तरिक्ष इन दोनों को अपनी तेजस से पूर्ण करती है सरस्वती । उस प्रकार की सरस्वती हमें अपने निन्दक शत्रुवों से रक्षा करें ॥

विशेषः

१) पार्थिवानि = पृथिव्यां भवं, तानि = पार्थिवानि, मनिष्यादयः ।
२) उरु = ऊर्णौति इति उरु । महान्, विपुलं, विस्तीर्णं, विशालम् इत्याद्यर्थाः ।
३) निदः = निद कुत्सायां नेदति इति निदः = निन्दकः ॥

ENGLISH

Sarasvati filled with her brilliance the Earth and the Sky. That kind of Sarasvati may protect us from the enemies who censure us.

Translation by Ralph T.H.Griffith

Guard us from hate Sarasvatī, she who hath filled the realms of earth,
And that wide tract, the firmament!

Translation by Brahmasri Ganeshan @vezhamukhan

May Sarasvati, who fills Earth & the wide Sky with her brilliance 
Save us all from our enemies’ abhorrence


*******

त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । वाजेवाजे हव्या भूत् ॥१२॥

पदच्छेदः

त्रिऽसधस्था, सप्त​ऽधातुः, पञ्च​, जाता, वर्धयन्ती, वाजेऽवाजे, हव्या, भूत् ॥

अन्वयः

त्रिऽसधस्था, सप्त​ऽधातुः, पञ्च​, जाता, वर्धयन्ती, वाजेऽवाजे, हव्या, भूत् ॥

प्रतिपदार्थः

त्रिषशस्था = त्रिषु लोकेषु व्याप्ता, सप्तधातुः = सप्तभिः अवयवैः युक्ता (गायत्र्यादिभिः छन्दोभिः, गङ्गादिभिः नदीभिः वा), पञ्च जातानि = निषादान्तवर्णपञ्चकं गन्धर्वादीन् वा, वर्धयन्ती = संवर्धनं कुर्वती, वाजेवाजे = युद्धे युद्धे (सर्वेषु युद्धेषु), हव्या = ह्वातव्या, भूत् = भवति ॥

तात्पर्यम्

सरस्वती त्रिलोकव्यापिनी सप्तभिः गायत्र्यादिभिः छन्दोरूपैः गङ्गादिभिः अवयवैः पञ्च अपि वर्णान् ब्राह्मण​-क्षत्रिय​-वैश्य​-शूद्र​-निषादान् संवर्धयन्ती वर्तते । तादृशी सरस्वती प्रतियुद्धं ह्वातव्या भवति ॥

हिन्दी

सरस्वती त्रिलोकों में व्याप्त​, गायत्री आदि छन्दों रूप अवयवों से या गङ्गा आदि नदी रूप अवयवों से ब्राह्मण क्षत्रिय वैश्य शूद्र और निषाद पांच वर्णों को संवर्धन करती है ।  उस प्रकार की सरस्वती को हर युद्ध में आमन्त्रण करना है ॥

विशेषः

१) त्रिषधस्था = त्रिषु सधस्था = त्रिषधस्था । सह तिष्ठति इति सधस्था । अर्थात् त्रिषु लोकेषु सहावतिष्ठमाना = त्रिलोकव्यापिनी इति ।
२) सप्तधातुः = सप्त धातवः यस्याः सा = सप्तधातुः सरस्वत्याः विशेषणम् इदम् । धातुः अत्र अवयववाची । अत्र सायणः द्वेधा अर्थं दर्शयति । गायत्र्यादीनि सप्त छन्दांसि अवयवाः यस्याः सा इति, गङ्गाद्याः सप्त नद्यः अवयवाः यस्याः सा इति च ।
३) पञ्च जाता = पृथक् पृथक् पदम् । जाता = जातानि द्वितीयाबहुवचनस्य रूपम् । अत्र के ते पञ्च इति जिज्ञासायां ब्राह्मण​-क्षत्रिय​-वैश्य​-शूद्र​-निषादाः पञ्च । तान् पञ्च अपि अभिवर्धयन्ती वर्तते सरस्वती ।
४) भूत् = भवति, लटि प्रथमा-एकवचने लकारव्यत्ययः छान्दसः ॥

ENGLISH

Sarasvati is present in the three world, and nurtures five social institutions via Brahmana, Ksatriya, Vaishya, Shudra and Nishada with her seven sisters (meters or rivers). That kind of Sarasvati should be invoked in every action of might.  

Translation by Ralph T.H.Griffith

Seven-sistered, sprung from threefold source, the Five Tribes' prosperer, she must be
Invoked in every deed of might.

Translation by Brahmasri Ganeshan @vezhamukhan

She who is omnipresent in the three worlds, has seven sisters 
In the seven metres of prosody and the seven holy rivers
Sustainer of the five classes in the societal order 
Be invoked in every battle or deed for being our warder


*****

प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।
रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥१३॥

पदच्छेदः

प्र या महिम्ना महिना आसु चेकिते द्युम्नेभिः अन्याः अपसाम् अपःऽतमा रथःऽइव बृहती विऽभ्वने कृता उपऽस्तुत्या चिकितुषा सरस्वती ॥

अन्वयः

महिम्ना महिना द्युम्नेभिः आसु या प्र चेकिते अन्याः अपसाम् अपस्तमाः रथः इव विभ्वने बृहती कृता सरस्वती चिकितुषा उपस्तुत्या ॥

प्रतिपदार्थः

महिम्ना = महत्त्वेन​, महिमा = महती, द्युम्नेभिः = यशोभिः अन्नैः वा, आसु = आसां मध्ये, या = सरस्वती, प्र = प्रकर्षेण​, चेकिते = ज्ञायते, अन्याः = या च अन्यासाम् , अपसां = वेगयुक्तानाम्, अपस्तमा = वेगवत्तमा, रथ इव = या च रथः इव​, विभ्वने = विभुत्वाय​, बृहती = महती, कृता = निर्मिता, सरस्वती = सा सरस्वती, ज्ञातवता स्तोत्रकर्त्रा, उपस्तुत्या = उपस्तोतव्या ॥

तात्पर्यम्

महत्त्वेन महती, यशोभिः अन्नैः वा देवतानां नदीनां च मध्ये या सरस्वती प्रकर्षेण ज्ञायते, या च सरस्वती अन्यासां वेगयुक्तानां मध्ये अत्यन्तं वेगवती, या च सरस्वती रथः इव विभुत्वाय महती निर्मिता सा सरस्वती जानता स्तोत्रकर्त्रा उपस्तोतव्या ॥

हिन्दी

अपने महत्त्व से बडी, कीर्ति से या अन्न से देवताओं या नदीयों में से प्रकृष्ट रूपसे जानी जाती है, जो कि इतर वेगयुक्ताओं में से अत्यन्त वेगयुक्ता, और जो सरस्वती रथ जैसे विभुत्व केलिए महती निर्मित हुई है वह सरस्वती जानने वाले स्तोत्रकर्ताओं के द्वारा स्तोत्र करनेवाली है ॥

विशेषः

१) प्र उपसर्गः प्रकर्षार्थः ।
२) महिना = महती ।
३) चेकिते = ज्ञायते ।
४) द्युम्नेभिः = द्योतमानैः (यशोभिः अन्नैः वा) इत्यर्थः ।
५) अपसाम् = आप इत्यस्मात् असुन्-प्रत्ययः ह्रस्वः च​, तेन अपस् इति रूपम् । जलव्द्वेगयुक्ता इत्यभिप्रायः । तथा च वेगयुक्तानाम् इत्यर्थः । अपस्तमाः इत्यस्य अपि अनेन एव वेगवत्तमाः इत्यर्थः लभ्यते ।

ENGLISH

Majesty among the majesties, is well known among the Gods and Rivers by fame or food, the most rapid among the rapid streams, and created huge for power like a chariot. That Sarasvati should be invoked by the knower invoker.  

Translation by Ralph T.H.Griffith

Marked out by majesty among the Mighty Ones, in glory swifter than the other rapid Streams, Created vast for victory like a chariot, Sarasvatī must be extolled by every sage.

Translation by Brahmasri Ganeshan @vezhamukhan

Magnificent among majestic Gods & Rivers by your repute & victuals 
Rapidest among rapid Riverways, created powerful like a chariot subtle 
May every realized soul invoke Sarasvati, to sing her mettle


*******

सरस्वत्यभि नो नेषी वस्यो माप स्फरीः पयसा मान आ धक् ।
जुषस्व न सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥१४॥

पदच्छेदः

सरस्वति अभि नः नेषी वस्यः मा अप स्फरीः पयसा मा नः आ धक् जुषस्व न सख्या वेश्या च मा त्वत् क्षेत्राणि अरणानि गन्म ॥

अन्वयः

सरस्वति नः वस्यः अभि नेषी मा अप स्फरीः । पयसा नः मा आ धक् । नः सख्या वेश्या च जुषस्व । त्वत् अरणानि क्षेत्राणि मा गन्म ॥

प्रतिपदार्थः

सरस्वति = हे सरस्वति, नः = अस्माकं, वस्यः = धनम्, अभि नेषी = अभिप्रापय, मा अप स्फरी = समृद्धिहीनान् मा कार्षीः । पयसा = उदकेन​, नः = अस्मान्, मा आ धक् = मा अभिदह । नः = अस्माकं, सख्या = सख्यानि, वेश्या = प्रवेशनानि, च = अपि, जुषस्व = सेवस्व । त्वत् = तव सकाशात्, अरणानि = अरमणीयानि, क्षेत्राणि = भूमिं, मा गन्म = न प्राप्नुयाम ॥

तात्पर्यम्

हे सरस्वति, अस्मभ्यं प्रशस्तं धनं प्रापय, अस्मान् समृद्धिहीनान् मा कुरु । अधिकोदकेन प्रवाहादिना अस्मान् मा पीडय । अस्माकं मैत्रीं सेवस्व । भवत्याः उत्तमं क्षेत्रं वयं प्राप्नुयाम ॥

हिन्दी

हे सरस्वति, हमें प्रशस्त धन दें, हमें समृद्धि से वञ्चित न रखें । ज्यादा पानी से हमें कष्ट न दें । हमारी मैत्री को स्वीकार करें । आप से हम अच्छी भूमि को प्राप्त करें ॥

विशेषः

१) वस्यः = वसीयः अर्थात् प्रशस्तं वसु ।
२) स्फरीः = सामृद्धिः, उपसर्गयोगात् विपरीतार्थं निर्दिशति (अप स्फरीः) असमृद्धिः इति तद्विशिष्टान् ।
३) पयसा = अत्र उदकवाची, तेन पीडा इत्युक्ते अतिजलेन प्रवाहादिना जायमाना पीडा उच्यते ।
४) अरणानि = अरमणानि । अरमणम् इत्यस्य अरणम् इति रूपम् । पृषोदरादित्वात् साधु । अर्थात् निकृष्टम् इति ॥

ENGLISH

O Sarasvati! give us magnificent wealth. Do not make us non-wealthier. Do not make us suffer by excess-waters (floods). Accept our friendship. Let us get good land.

Translation by Ralph T.H.Griffith

Guide us, Sarasvatī, to glorious treasure: refuse us not thy milk, nor spurn us from thee. Gladly accept our friendship and obedience: let us not go from thee to distant countries.

Translation by Brahmasri Ganeshan @vezhamukhan

Lead us to righteous wealth, not deprive us of due prosperity 
May we not suffer from floods, let us make friends with you our deity
O Sarasvati, bestower of all things good, grant us nice landed property

*******


*** Meaning is given following Sayanacharya’s commentary.