शूद्राणाम् अनिरवसितानाम्
(2-4-10) इति सूत्रम् । पृषोदराणि यथोपदिष्टम् (6-3-109) इति अन्यत्सूत्रम् । एतस्मिन्
सूत्रद्वये आर्यावर्तलक्षणम् आह भगवान् भाष्यकारः । तच्च इत्थम् –
शूद्राणाम्
अनिरवसितानाम् (2-4-10) अत्र इदं भाष्यम् –
“अनिरवसितानाम् इति उच्यते ।
कुतः अनिरवसितानाम् ?
आर्यावर्तात् अनिरवसितानाम् । कः पुनः आर्यावर्तः ?
प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् ।
यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति न सिध्यति ।
एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् ।
कः पुनः आर्यनिवासः ?
ग्रामः घोषः नगरम् संवाहः इति ।
एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति ।
एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् ।
एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति ।
एव म् तर्हि पात्रात् अनिरवसितानाम् ।
यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः ।
यैः भुक्ते संस्कारेण अपि न शुध्यति ते निरवसिताः ।”
अत्र
कुतः अनिरवसिताः इति पृष्ट्वा आर्यावर्तात् इति समाहितम् । कः आर्यावर्तः इति तल्लक्षणमुच्यते
इत्थं - प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् इति । इदं सूत्रं द्वन्द्वप्रकरणगतम्
। अनेन सूत्र्रेण एकत्वं प्रतिषिध्यते । यदि आर्यावर्तात् बहिर्भूतानाम् इत्यर्थः क्रियते
तर्हि किष्किण्धाः च गन्दिकाः च = किष्किन्ध-गन्दिकम् इति एकत्वम् इष्यते । तत् न सिध्यति
बहुत्वं प्राप्नोति । तदर्थं तर्हि आर्यनिवासाद् बहिर्भूताः इत्युच्यते । तथा चेत्
महत्सु निवासस्थानेषु यत्र आर्याः एकत्र, चन्डालाः मृतपाः च अन्यत्र निवसन्ति तत्र
चन्डालाः च मृतपाः च = चण्डाल-मृतपाः इति इष्यते, तच्च न सिध्यति, यतः तेषामपि आर्यनिवासे
(महति) अन्तर्भावात् । तर्हि यज्ञात् कर्मणः ये बहिर्भूताः इत्युच्यते । तथा चेदपि
तक्षाः च अयस्काराः च = तक्षायस्कारम् इति इष्यते तच्च न सिध्यति । तर्हि पात्रात्
अनिरवसितानाम् इत्युच्यते । तथा सति इष्टं सिध्यति । एवञ्च अनिरवसितानाम् इत्यस्य यैः
भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः (बहिर्भूताः), यैः भुक्ते पात्रं
संस्कारेण शुध्यति अनिरवसिताः (अन्तर्भूताः) । अस्मिअन्
प्रकरणे प्रसङ्गवशात् आर्यावर्तलक्षणम् अभिहितं भगवता भाष्यकारेण ॥
पृषोदराणि
यथोपदिष्टम् (6-3-109) अत्र इदं भाष्यम् –
“पृषोदरादीनि इति उच्यते । कानि पृषोदरादीनि ? पृषोदरप्रकाराणि । कानि पुनः पृषोदरप्रकाराणि ?
येषु लोपागमविकाराः श्रूयन्ते न च उच्यन्ते । अथ यथा इति किम् इदम् ? प्रकारवचने थाल् । अथ किम् इदम् उपदिष्टानि इति ।
उच्चारितानि । कुतः एतत् ? दिशिः उच्चारणक्रियः । उच्चार्य हि वर्णान् आह उप्दिष्टाः इमे वर्णाः इति ।
कैः पुनः उपदिष्टाः ?
शिष्टैः ।
के पुनः शिष्टाः ?
वैयाकरणाः । कुतः एतत् ? शास्त्रपूर्विका हि शिष्टिः वैयाकरणाः च शास्त्रज्ञाः ।
यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकम् च शास्त्रम् तत् इतरेतराश्रयम् भवति ।
इतरेतराश्रयाणि च न प्रकल्पन्ते । एवम् तर्हि निवासतः आचारतः च । सः च आचारः आर्यावर्त्ते एव । कः पुनः आर्यावर्त्तः ? प्राक् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । एतस्मिन् आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किम् चित् अन्तरेण कस्याः चित् विद्यायाः पारगाः तत्रभवन्तः शिष्टाः ।
यदि तर्हि शिष्टाः शब्देषु प्रमाणम् किम् अष्टाध्याय्या क्रियते ।
शिष्टज्ञानार्था अष्टाध्यायी । कथम् पुनः अष्टाध्याय्या शिष्टाः शक्याः विज्ञातुम् ?
अष्टाध्यायीम् अधीयानः अन्यम् पश्यति अनधीयानम् ये अत्र विहिताः शब्दाः तान् प्रयुञ्जानम् । सः पश्यति । नूनम् अस्य दैवानुग्रहः स्वभावः वा यः अयम् न च अष्टाध्यायीम् अधीते ये च अस्यम् विहिताः शब्दाः तान् प्रयुङ्क्ते ।
नूनम् अयम् अन्यान् अपि जानाति ।
एवम् एषा शिष्टज्ञानार्था अष्टाध्यायी ।”
कानिचन
रूपाणि व्याकरणप्रक्रियया न सिध्यन्ति, तथापि तानि शिष्टैः परिगृहीतानि अर्थात् प्रयुक्तानि,
तेषां यथा यथा शिष्टैः प्रयुक्तं तथैव साधुता इति निर्णयः अनेन सूत्रेण क्रियते । अत्र
प्रसङ्गवशाद् शिष्टानां ब्राह्मणानां निवासदेशः आर्यावर्तः इत्युक्त्वा आर्यावर्तस्य
लक्षणम् अभिहितं भगवता भाष्यकारेण ॥
उभयत्रापि
आर्यावर्तलक्षणं समानम् एव । तच्च यथा “प्राग् आदर्शात् प्रत्यक्
कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । अत्र प्रकरणे निवासतः आचारतश्च
इत्युक्तत्वात्, स च आचारः आर्यावर्ते एव इति च उक्तत्वात् आर्यावर्तः परिच्चिन्नभूमिभागः
(देशविशेषः) इति स्पष्टं ज्ञायते ।
मत्स्यपुराणे
सप्तानां कुलपर्वतानां नामानि उक्तानि तानि
यथा – “सप्त येऽस्मिन्
महापर्व्वा विस्तृताः कुलपर्व्वताः ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥
विन्ध्यश्च पारिपात्रश्च इत्येते कुलपर्व्वताः” इति
। श्रेष्ठपर्वतानां नामसु अपि “बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा” इति पारियात्रः
दृश्यते । किञ्च पारियात्रपर्वतोद्भवनदीजलस्य गुणः इत्थं वर्णितः – “हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् । पारिपात्रभवा याश्च बिन्ध्यर्क्षप्रभवाश्च याः ॥ शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च । चन्द्रार्ककरसंस्पृष्टं वायुनास्फालितां मुहुः ॥ पर्व्वतोपरि यद्बारि समं पौरन्दरेण तत् । तस्यानुगुणमुद्दिष्टं शैलप्रस्रवणोद्भवम् ॥ लेखनं दीपनं रूक्षं किञ्चिद्वातप्रकोपणम्” इति । सुमेरोः पश्चिमायां
दिशि विद्यमानेषु पर्वतेषु पारियात्रस्य नाम दृश्यते “सहस्रशिखरश्चाद्रिः पारिपात्रः स शृङ्गवान्” इति ।
अत्र
आदर्शात् इत्यस्य केचन अदर्शात् इत्यपि वदन्ति पाठम् । तद्दृष्ट्या सरस्वतीनद्याः अदर्शनक्षेत्रम्
इति मतम् । कालकवनम् अद्यतनः प्रयागः इति विद्वांसः । अत्र भूगोलविदः परस्परं विवदन्ते
। तथा च यत्र सरस्वतीनदी लुप्यते तत्स्थानम् अर्थात् कुरुक्षेत्रं, कालकवनम् अर्थात्
प्रयागः, पारियात्रः अर्थात् विन्ध्यपर्वतः, हिमवान् इत्येतेषां स्थानानां मध्यवर्ती
भूभागः आर्यावर्तः इति अनुमातुं शक्यते । अत्र बहूनां मतानि बहुधा वर्तन्ते । केचन
भारताद् बहिर्भूतं भूभागमपि आर्यावर्ते अन्तर्भावयन्ति । वस्तुतः अत्र आर्यावर्तस्य
लक्षणम् उक्तम्, न तु जम्बूद्वीपस्य वा सप्तानां द्वीपानां वा । अतः भारताद् बहिर्भूतः
भूभागः आर्यावर्ते भवितुं नार्हति । एतस्य सामान्यज्ञानार्थं चौखम्बासंस्कृतप्रतिष्ठानेन
प्रकाशितं (1987 संस्करणं) महाभास्यं द्रष्टुं शक्यते यत्र प्रथमपुटे एव मानचित्रम्
आर्यावर्तस्य प्रदर्शितं वर्तते । परन्तु इदमेव अन्तिमो निर्णयः इति न ग्राह्यः । आर्यावर्तलक्षणं
भगव्ता भाष्यकारेण उक्तम् आधुनिकदृष्ट्या परिच्छेत्तुम् इतोपि अनुसन्धानम् अपेक्ष्यते
। अत्र धर्मसूत्रकाराणां बोधायनप्रभृतीनामपि विशिष्टं किञ्चित् मतं वर्तते । तत्सर्वं
परिशील्य आधुनिकदृष्ट्या च भूभागं विचार्यैव निर्णयः कर्तुं शक्यते । मम मतं सम्प्रति
कुरुक्षेत्रं, प्रयागः, विन्ध्यः, हिमवान् इति चतुर्णां मध्यवर्ती भूभागः एव आर्यावर्तः
।
एतेन
दाक्षिणात्याः न शिष्टाः इति न मन्तव्यम् । शिष्तत्वं भिन्नम् आर्यावर्तलक्षणं भिन्नम्
। अत एव भगवान् भाष्यकारः शिष्टलक्षणे “अलोलुपाः कुम्भीधान्याः अगृह्यमाणकारणाः किञ्चिदन्तरेण
कस्याश्चिद्विद्यायाः पारङ्गताः शिष्टाः” इत्याह । शिष्टत्वं याज्ञिकत्वं च दाक्षिणात्येष्वपि
वर्तत एव ॥
*******