दशदिश्
दशदिश् इत्यस्य त्रेधा समाधानं भवितुमर्हति।
1) अपाणिनीयम् इति।
2) दश दिशः यस्याः सा = दशदिश् इति बहुव्रीहिः। कीर्तिः इत्यादिः अर्थः।
3) विभाषा वृक्ष-मृग...(2-4-12) इति सूत्रे भगवान् भाष्यकारः "आचार्यप्रवृत्तिः ज्ञापयति सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह" इति आह। तथा च एकवद्भावे किं लिङ्गम् इति जिज्ञासायां "स नपुंसकम्" इत्याह। "एतत् अपि न अस्ति प्रयोजनम्। लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य" इति उक्त्वा "स नपुंसकम्" इति सूत्रं प्रत्याख्याति। भगवतः भाष्यकृतः प्रत्याख्याने, तत्त्वबोधिनीकारोक्तदिशा प्रौढिवादे वा तात्पर्यं नास्ति। परन्तु एतेन ज्ञाप्यते क्वचिद् "स नपुंसकम्" इत्यस्य व्यभिचारः भवितुमर्हति इति। तथा च "दशानां दिशां समाहारः", इति "दश च दिशः च" इति वा अन्यथा वा विग्रहे दशदिश् इति एकत्वं स्त्रीत्वं च द्रष्टव्यम्।।
*********

No comments:
Post a Comment