सौन्दर्यलहरी-श्लोक-संख्या – ६६
विपञ्च्या गायन्ती विविधमपदानं पशुपते
स्त्वयाऽऽरब्धे वक्तुं चलितशिरसा साधु वचने ।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां
वीणां वाणी निचुलयति चोलेन निभृतम् ॥६६॥
पदच्छेदः - विपञ्च्या, गायन्ती विविधम्, अपदानं, पशुपतेः, त्वया, आरब्धे, वक्तुं, चलितशिरसा, साधु, वचने, तदीयैः, माधुर्यैः, अपलपिततन्त्रीकलरवां, निजां, वीणां, वाणी, निचुलयति, चोलेन, निभृतम् ॥
अन्वयः - पशुपतेः, विविधम्, अपदानं, विपञ्च्या, गायन्ती, चलितशिरसा, त्वया, साधु, वचने, वक्तुं, आरब्धे तदीयैः,
माधुर्यैः, अपलपिततन्त्रीकलरवां, निजां, वीणां, वाणी, निचुलयति, चोलेन, निभृतम् ॥
पदार्थः - पशुपतेः = शिवस्य, विविधम् = नानाप्रकारम्, अपदानं = वृत्तं कर्म (तद्द्वारा
कृतः लोकोपकारः इत्यर्थः), विपञ्च्या
= वीणया, गयन्ती
= गायनं कुर्वती, चलितशिरसा
= शिरसः कम्पनपूर्वकं, त्वया
= भवत्या, साधु =
शोभनं, वचने =
वाक्ये, वक्तुं
= भाषितुम्, आरब्धे
= प्रारब्धे (सति), तदीयैः
= भवत्याः वचनैः (तत्-शब्देन भगवत्याः वचनं परामृश्यते), माधुर्यैः = मधुरैः, अपलपिततन्त्रीकलरवां = निरर्थकरूपेण(ध्वनि
जैसे) अपलापकलरवं कुर्वतीं, निजां
= स्वीयां, वीणां
= वीणां, वाणी =
सरस्वती, चोलेन
= स्वीयेन अञ्चलेन, निभृतं
= संयक्प्रकारेण गोपनीयरीत्या, निचुलयति
= आवृणोति ॥
विशेषः -
१) चलितं शिरः यया सा, तया = चलितशिरसा - भगवत्याः
विशेषणम् इदम् ।
२) तन्त्र्याः कलरवः = तन्त्रीकलरवः, अपलपितः तन्त्रीकलरवः यस्याः सा =
अपलपिततन्त्रीकलरवा (वीणा), ताम् -
अपलपिततन्त्रीकलरवाम् ।
३) विपञ्ची = वीणा, तया = विपञ्च्या, विपञ्ची इति वीणायाम् ।
४) अपदानं = लोकोपकारः, तम् । वृत्तं कर्म्म ।
"वृत्तिः प्रवर्त्तनं सा प्रशस्ता विद्यते यत्र तत् । यत्र कर्म्मणि वृत्तिः
सर्व्वैः प्रशस्यते तत् इत्यर्थः" इत्यमरटीकायां स्वामी ।
५) निचुलयति = चुल समुच्छ्राये इति धातुः, चुरादिः, उभयपदी, सेट्, सकर्मकः । चोलयति इति रूपं, वररुचिपक्षे चुलयति इत्यपि, निपूर्वः । आवृणोति इत्यर्थः ।
६) चोलेन = आप्रपदीनेन वस्त्रेण अर्थात्
पादौ यावत् विस्तीर्णं वस्त्रम् अर्थात् दीर्घवस्त्रेण इति तात्पर्यम् ।
७) निभृतम् = विनीतार्थे गुप्तार्थे च ।
उभयमपि अत्र सङ्गच्छते ।
तात्पर्यम् - सरस्वती यदा स्वीयया विणया भगवतः शिवस्य गुणं गायति स्म, तदा भगवती शिरसः कम्पनपूर्वकं सरस्वत्याः प्रशंसां कर्तुम्
आरब्धवती । यदा भगवत्याः वाक् प्रसृता तदा
सरस्वत्याः विणानादः अपि अपलापः इव आसीत् । एतेन लज्जिता सरस्वती स्वीयवीणां
स्ववस्त्रेण आच्छादितवती । अर्थात् वीणायाः नादादपि भगवत्याः वाक् मधुरतरा (तमा)
इति ॥
हिन्दी - सरस्वती जब भगवान् शिव की गुण गान करने लगी, तब भगवती अपने सर को हिलाते हुए सरस्वती के प्रशंसा करने
लगी । भगवती की वाक् से वीणा नाद फीका पड गया । इसे लज्जित होकर सरस्वती अपनी
अञ्चल से विणा ढकने लगी । अर्थात् सरस्वती की वीणा के नाद से भी मधुर है भगवती की
वाणी ॥
English –Sarasvati
was singing the glory of Shiva. When n
you (Bhagavati) began to speak the words of admiration with nodding of (your)
head, having seen the lowered sweetness of her Veena (before the sweetness of
the words of Bhagavati), Sarasvati covered completely her Veena out of sight
(with shyness). It means that the sweetness of words of Bhagavati is greater
than the sweetness of Veena of Sarasvati.