Friday, January 2, 2015

SRI KRISHNASHTAKAM

श्रीकृष्णाष्टकम्
श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताऽब्जनयनः
गदी शंङ्खी चक्री विमलवनमाली स्थिररुचिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
यतः सर्वं जातं वियदनिलमुख्यं जगदिदं
स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा
लये सर्वं स्वस्मिन्हरति कलया यस्तु विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
असूनायम्यादौ यमनियममुख्यैः सुकरणै-
र्निरुद्ध्येयं चित्तं हृदि विलयमानीय सकलम्
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
पृथिव्यां तिष्ठन्यो यमयति महीं वेद धरा
यमित्यादौ वेदो वदति जगतामीशममलम्
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो
कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते
बलारातेर्गर्वं परिहरति योऽसौ विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
विना यस्य ज्ञानं जनिमृतिभयं याति जनता
विना यस्य स्मृत्या कृमिशतजनिं याति विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
नरातङ्कोट्टङ्कः शरणशरणो भ्रान्तिहरणो
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः
स्वयम्भूर्भतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी तदा लोकस्वामी प्रकटितवपुः सेतुधृदजः
सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः

*********

No comments: