SAUNDARYALAHARI - SHLOKA No.63
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः
पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकतया ॥६३॥
स्मितज्योत्स्नाजालं, तव, वदनचन्द्रस्य, पिबतां, चकोराणाम्, अतिरसतया, चञ्चुजडिमा, आसीत्, , अतः, ते, शीतांशोः, अमृतलहरीं, आम्लरुचयः, पिबन्ति, स्वच्छन्दं, निशि, निशि, भृशं, काञ्जिकतया ॥
अन्वयः - तव वदनचन्द्रस्य स्मितज्योत्स्नाजालं पिबतां चकोराणाम् अतिरसतया
चञ्चुजडिमा आसीत्,
अतः ते आम्लरुचयः
शीतांशोः अमृतलहरीं काञ्जिकतया भृशं निशि निशि स्वच्छन्दं पिबन्ति ॥
पदार्थः –
तव=भवत्याः,
वदनचन्द्रस्य = (वदनम् एव चन्द्रः) मुखचन्द्रस्य,
स्मितज्योत्स्नाजालं = (स्मितरूपिणी ज्योत्स्ना = स्मितज्योत्स्ना, तस्याः
जालं=स्मितज्योत्स्नाजालं) ईषद्-हास्यरूपचन्द्रिकायाः समूहः
पिबतां = पानं कुर्वतां
चकोराणां = चकोरनामकपक्षिणाम्
अतिरसतया = अधिकमाधुर्ययुक्तत्वात्
चञ्चुजडिमा = (चञ्चोः जडिमा, चञ्चुः इति
स्त्रीलिङ्गे प्रयोगः, जडिमन् इति
इमनिच्-प्रत्यये पुंसि प्रयोगः) (पक्षिणाम्) ओष्ठः (त्रोटिः इति पर्यायः) तस्य
जडिमा = जाड्यम्
आसीत् = अभूत् । अर्थात् भगवत्याः मुखरूपचन्द्रिकासमूहस्य पानं कुर्वतां
चकोरपक्षिणां चञ्चुः अधिकमाधुर्येण जडत्वं प्राप्नोत् ।
अतः = तस्मात् कारणात्
ते = चकोराः
आम्लरुचयः = (मध्ये मध्ये अतीव मधुरतया अम्लत्वं वाञ्छन्तः) अम्लरुचिमन्तः
शीतांशोः = चन्द्रस्य (शीतः अंशुः यस्य सः=शीतांशुः = शीतकिरणयुक्तः)
अमृतलहरीं = अमृतधाराम् (अपि) (अमृतरूपकिरणान् अपि)
काञ्जिकतया = (काञ्जिका = सर्षपनिर्मितः व्यञ्जनभेदः वैद्यशास्त्रे उक्तः)
सर्षपनिर्मितव्यञ्जनरूपेण
भृशम् = (मुहुर्मुहुः इत्यर्थे अव्ययम्) मुहुः मुहुः
निशि निशि = प्रतिनिशि (प्रतिदिनं रात्रौ)
स्वच्छन्दं = (स्वस्य छन्दः = अभिप्रायः) स्वस्य इच्छानुसारेण (यथेष्टम्)
पिबन्ति = पानं कुर्वन्ति ॥
NOTE - वैद्यकीक्ते सार्षपकन्देन कृते व्यञ्जनभेदे तल्लक्षणं यथा -
सार्षपीक्रन्दली सूक्ष्मा खण्डिता स्निग्धभाजने ।
स्थापिता मण्डसहिता त्वथ वा तण्डुलोदके ॥
सप्तरात्रात् परं चुक्रं ततः सम्यक् प्रजायते ।
तस्मादेव समाकृष्य तलयेद्वा प्रलेहयेत् ॥
काञ्जिकेति समाख्याता सूदधर्म्मोपजीवकैः ।
सार्षपस्य गुणा ये हि ते चास्या अपि कीर्त्तिताः ॥
इति चरकसंहितायां काञ्जिकानिर्माणप्रकारः दर्शितः ।
SANSKRIT - हे भगवति! भवत्याः वदनचन्द्रस्य मन्दहास्यज्योत्स्नासमूहं
प्रचुरं पीत्वा चकोराणां चञ्चुः अधिकमाधुर्येण जडत्वम् आपन्ना । तस्मात् ते चकोराः
माधुर्यस्य मध्ये अम्लरुचिम् इच्छन्तः चन्द्रस्य अमृतलहरीम् अपि
सर्षपनिर्मितपथ्यम् इव अपनी इच्छा से प्रतिदिनं रात्रौ पिबन्ति । अर्थात् भगवत्याः
स्मिताननस्य पुरतः चन्द्रिकापि कषायरूपेण भवति ॥
HINDI - तेरे चन्द्र जैसे वदन की मुस्कान् रूपी चांदनी को प्रचुर
मात्रा में पीकर (इन) चकोरों की चञ्चु अधिक माधुर्य से जड बन गयी है । इस लिए वे
(चकोर) कुछ माधुर्य के बीच अम्ला रस को चाहते हुए चन्द्र की अमृतलहरी को सरसों से
बना हुआ पथ्य (कषाय) जैसे हर दिन रात को अपनी इच्छा से पीते हैं । अर्थात् हे
भगवती! आप के मुस्कान की मधुरिमा के सामने चन्द्र की अमृत लहरी भी सरसों से बना
काञ्जि लगती है चकोरों को ॥
ENGLISH - Cakora birds having
drunken the mass of moonlight of (Your) smile, of Your moon-like-face their
beak became insentient, from excessive sweetness. Therefore, they desiring some
sour taste, drink of their own free will, excessively every night, the wave of
nectar of the moon, thinking it to be a gruel made up of mustard.
No comments:
Post a Comment