प्रमाणविचारः
विधिषु विनियोगविधिः अन्यतमः । तस्मिन्
विनियोगविधौ षट् प्रमाणानि निर्णायकरूपेण निरूप्यन्ते । तत्प्रसङ्गे इदं सूत्रम् -
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् इति ।
श्रुतिः, लिङ्गं, वाक्यं, प्रकरणं,
स्थानं, समाख्यानम्
इति षट् प्रमाणानि पूर्वमेव निरूपितानि । तेषु प्रमाणेषु सम्प्रति बलाबलं
निरूप्यते अनेन सूत्रेण । सूत्रार्थो भवति - एषु प्रमाणेषु पूर्वपूर्वं प्रबलम्
इति । अर्थात् लिङ्गात् श्रुतिः बलीयसी,
वाक्यात् लिङ्गं बलीयः, प्रकरणाद्
वाक्यं बलीयः, स्थानात्
प्रकरणं प्रबलं, समाख्यायाः
स्थानं बलीयः इति फलितः अर्थः । क्रमशः उदाहरणानि प्रस्तुत्य पूर्वस्य बलीयस्त्वं
निरूप्यते । तथा च षट्सु प्रमाणेषु परस्परं (द्वयोर्द्वयोः) समवाये सति कस्यचिद्
दुर्बलता (अन्यतरस्य प्रबलता) वा अर्थस्य सन्निकर्षं विप्रकर्षं वा दृष्ट्वा
(सन्निकर्षे प्रबलता विप्रकर्षे दुर्बलता) निर्धार्यते ।
श्रुतेः बलीयस्त्वं यथा - ऐन्द्र्या
गार्हपत्यमुपतिष्ठत इति । अत्र सन्देहः - किम् एन्द्रो देवता आहोस्विद् गार्हपत्यः
(अग्निः) इति, यतः उभयोरपि
श्रवणमत्र विनियोगविधौ । तत्र अनेन श्रुतेः बलीयस्त्वं निर्धार्यते । तद्यथा - गार्हपत्य
इति शब्दश्रवणमात्रमेव । परन्तु ऐन्द्र्या इत्यस्य उपोद्बलकं लिङ्गं किञ्चित्
श्रूयते - कदा च न स्तरीरसि नेन्द्रसश्चसि दाशुषे । अर्थाद् इन्द्रशब्दस्य
विशिष्टदेवताभिधानसामर्थ्यम् लिङ्गमत्र । लिङ्गं नाम शब्दस्यार्थम् अभिधातुं
सामर्थ्यम् । अर्थस्याभिधानं शब्दस्य श्रवणमात्रेण एव भवति सा श्रुतिः । प्रकृते
इन्द्रस्य अभिधानं कदाचन इति श्रुत्यन्तरेण अवगम्यते । परन्तु गार्हपत्यस्य
श्रवणमात्रेण एव जायते । एवं श्रुतिलिङ्गयोः तुल्यबले श्रुतेः बलीयस्त्वं भवति ।
तथा च अत्र गार्हपत्य एव उपस्थेयः इति निर्णयः । अत्र पुनः महान् विचारः वर्तते
श्रुतिः लिङ्गम् इत्युभयमपि वाक्यमेव खलु कथं तस्य परिहारः इत्यादिः ।
लिङ्गस्य बलीयस्त्वं निरूप्यते । लिङ्गं
नाम शब्दस्यार्थम् अभिधातुं सामर्थ्यम् । वाक्यं नाम संहत्य अर्थमभिदधति पदानि वाक्यम्
। स्योनं ते
सदनं कृणोमि घृतस्य धारया सुषेवं कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ
व्रीहीणां मेध सुमनस्यमान इति उदाहरणम् । अत्र विनोयोगद्वयं श्रूयते - उपस्तरणं, (पुरोडाशस्य) आसादनम् इति । अत्र सन्देहः
- किं कृत्स्नस्य मन्त्रस्य उपस्तरणे पुरोडाशासादने च प्रयोगः आहोस्वित् कल्पयामि
पर्यन्तो भागः उपस्तरणे तदग्रिमभागः पुरोडाशासादने इति । यदि लिङ्गस्य बलीयस्त्वं
तर्हि कल्पयामि इत्यन्तो भागः उपस्तरणे,
तदग्रिमो भागः पुरोडाशासादने इति सिद्धम् । यदि वाक्यस्य बलीयस्त्वं तर्हि
उभयत्र (उपस्तरणे पुरोडाशासादने च) कृत्स्नस्य मन्त्रस्य प्रयोगः इति सिद्धम् ।
अत्र वाक्याद् लिङ्गस्य बलीयस्त्वम् अङ्गीक्रियते, अतः उपस्तरणे कल्पयामि इत्यन्तो भागः, तदग्रिमो भागः पुरोडाशासादने च प्रयुज्यते
इति निर्णयः ।
प्रकरणवतः सन्निधौ आम्नानाद्
दर्शपूर्णमासाङ्गम् अयं मन्त्रः । तस्मिन् सीदेति
पुरोडाशासादनाभिधानसामर्थ्यात्सादने विनियुज्यमाने कृतसामर्थ्यं मन्त्राम्नानमिति, उपस्तरणेऽपि अस्य विनियोगे प्रमाणं नास्ति
। एवं स्योनं ते सदनं कृणोमि इति मन्त्रः
प्रकरणाम्नानसामर्थ्यादेव दर्शपूर्णमासाङ्गतामापन्नः सामर्थ्यादेवोपस्तरणे
विनियोगात् न पुरोडाशासादने विनियोगमर्हति । एवमुपस्तरणे तस्मिन् सीद इत्यस्य
नास्ति सामर्थ्यम् । पूरोडाशासादनेऽपि स्योनं त इत्यस्य । अत्र अर्थविप्रकर्षो यथा
- पूर्वेण एकवाक्यताम् उपेत्य उपस्तरणे सामर्थ्यम्, पूर्वस्य परेण एकवाक्यत्वात् पुरोडाशासादने सामर्थ्यम् । नहि स्वरूपेण उभयोः
सामर्थ्यं वर्तते इति एषः अर्थविप्रकर्षः ।
वाक्यस्य बलीयस्त्वं यथा - प्रकरणाद्
वाक्यं बलीयः । संहत्य
अर्थमभिदधति पदानि वाक्यम् इति वाक्यं निरुक्तम् । कर्तव्यस्य इतिकर्तव्यताकाङ्क्षस्य वचनं
प्रकरणम् । तद्यथा - सूक्तवाकनिगदेषु
पौर्णमासीदेवताः अमावास्यादेवताः च समाम्नातः । ताः परस्परम् एकवाक्यतां न लभन्ते
। परन्तु लिङ्गसामर्थ्यात् पौर्णमासीशब्दप्रयोगात् इन्द्राग्निशब्दः उत्क्रष्टव्यः
अमावास्यायां प्रयोक्तव्यश्च । तेन एकवाक्यता सिद्ध्यति । इदानीं सन्देहः - अत्र
किं यत्र इन्द्राग्निशब्दः उत्कृष्टः तत्रैव शेषस्य (अवीवृधेतां महोज्यायो
क्राताम् इत्यस्य) प्रयोगः आहोस्विद् यावत्वारं सूक्तवाकमन्त्रेषु प्रयोगः
दृश्यते तावद्वारं शेषस्य प्रयोग इति । प्रकरणाद्वाक्यं बलीयः, अर्थविप्रकर्षात् । कः अर्थविप्रकर्षः? वाक्ये एकैकं पदं विभज्यमानं साकाङ्क्षं
भवति, कृत्स्नं परिपूर्णं
भवति, तत्र प्रत्यक्षः
एकवाक्यभावः, प्रकरणे
परोक्षः । यतः इतिकर्तव्यताकाङ्क्षस्य समीपे उपनिपतितं पूर्णमिति तस्य प्रकृतस्य
साकाङ्क्षत्वमवगम्यते, न एकवाक्यभूतम्
इत्यनुमीयते । अतः एकवाक्यता प्रकरणे परोक्षा, वाक्ये प्रत्यक्षा,
तस्मात् प्रकरणे अर्थविप्रकर्षः,
अतः वाक्यं बलीयः ।अत्र प्रकरणाद् वाक्यस्य बलीयस्त्वात् यत्र
इन्द्राग्निशब्दः उत्कृष्य नीतः तत्रैव शेषस्य प्रयोगः इति निर्णयः । अत्रापि
महान् विचारः वर्तते ।
प्रकरण-क्रमयोः बलाबलं विचार्यते -
राजसूययागे (प्रकरणे) अभिषेचनीयसन्निधौ (क्रमे) शौनःशेफाख्यानं आम्नातम् । अत्र
संशयः इदं शौनःशेफाख्यानं राजसूयस्य अभिषेचनीयस्य च इति सर्वेषाम् अङ्गम्
आहोस्विद् अभिषेचनीयस्यैव इति । राजसूयप्रकरणत्वात् सर्वेषामङ्गत्वम् आहोस्विद्
अभिषेचनीयक्रमत्वात् केवलम् अभिषेचनीयस्यैव अङ्गत्वमिति सन्देहः । अत्र क्रमस्य
(स्थानस्य) परस्य दुर्बलता (पारदौर्बल्यम्) यतः क्रमे अर्थः विप्रकृष्टः, प्रकरणे अर्थः सन्निकृष्टः । तस्मात्
प्रकरणं प्रबलं, क्रमः दुर्बलः
। तत्र प्रकरणे प्रत्यक्षं साकाङ्क्षता,
क्रमे तावत् साकाङ्क्षता आनुमानिकी । अतः प्रकरणे श्रुत्यर्थः सन्निकृष्टः, क्रमे स विप्रकृष्टः । अतः
अर्थविप्रकर्षात् क्रमस्य दौर्बल्यम् (पारदौर्बल्यम्) ।
सम्प्रति क्रम-समाख्ययोः बलाबलं
विचार्यते । शुन्धत्वं दैव्याय कर्मणे इति शुन्धनार्थः मन्त्रः । एषः
सान्नाय्यक्रमे समाम्नातः । तत्र च समाख्या वर्तते पौरोडाशिकम् इति । इदानीं संशयः
- सानाय्यक्रमत्वात् सान्नाय्यपात्राणां शुन्धनम् अहोस्वित् पौरोडाशिकम् इति
समाख्यया पुरोडाशपात्राणां शुन्धनम् अनेन मन्त्रेण इति । अत्र अर्थस्य
विप्रकर्षात् समाख्या दुर्बला,
अर्थस्य सन्निकर्षात् क्रमः प्रबला इति निष्कर्षः । लौकिकः शब्दः क्रमः ।
एतादृशेषु अर्थेषु न लौकिकशब्दः प्रमाणं ,यत्र क्रमेण
अर्थः स्पष्टः जायते । तस्मात् श्रुत्यर्थावगमने क्रमः एव प्रबलः, न लौकिकशब्दः । लौकिकशब्दपर्यन्तम्
अनुधावनात् अर्थः विप्रकृष्टः समाख्यायाम् ।
समाख्यायाः तत्रैव प्रमाणं यत्र
अनिन्द्रियविषयाः अर्थाः न उपपद्यन्ते । यत्र अनिद्न्रियविषयाः अर्थाः उपपद्यन्ते
तत्र समाख्या न प्रमाणम् । यत्र अनिद्न्रियविषयाः अर्थाः न उपपद्यन्ते तत्र
अभियुक्ताः प्रमाणम्, यत्र
अनिन्द्रियविषयाः अर्थाः उपपद्यन्ते,
न तत्र अभियुक्ताः प्रमाणम् इति निष्कर्षः ।
तथा च
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये = विरोधे, पारदौर्बल्यं - परस्य दुर्बलता (दुर्बलस्य
भावः दौर्बल्यं, परस्य
दौर्बल्यं = परदौर्बल्यं, तस्य भावः
पारदौर्बल्यम्) , (यतः)
अर्थविप्रकर्षात् = अर्थस्य असन्निकृष्तत्वात् । अतः अर्थस्य विप्रकृष्तत्वात्
पूर्वं प्रति परं दुर्बलम् इति फलितः अर्थः सूत्रस्य ।
******
No comments:
Post a Comment