Saturday, April 23, 2016

॥चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते॥


This is one compound word. This can be explained in many ways as shown below:

1) चतुरविचारधुरीणमहाशिवदूतः  कृतप्रमथाधिपतिः यस्याः सा = चतुरविचारधुरीणमहाशिवदूत-कृतप्रमथाधिपतिः (बहुव्रीहिः), सम्बोधने चतुरविचारधुरीणमहाशिवदूत-कृतप्रमथाधिपते! अत्र इत्थं क्रमेण समासः –

अ) विचारे धुरीणः = विचारधुरीणः (सप्तमीतत्पुरुषः), चतुरः च विचारधुरीणः च = चतुरविचारधुरीणः (कर्मधारयः), चतुरविचारधुरीणः च शिवदूतः च = चतुरविचारधुरीणमहाशिवदूतः [(कर्मधारयः), शिवः एव दूतः (अवधारणापूर्वपदकर्मधारयः) अथवा शिवः दूतः (विशेषण-उत्तरपदकर्म्मधारयः) = शिवदूतः], कृतः प्रमथः अधिपतिः येन सः = कृतप्रमथाधिपतिः अर्थात् शिवः (बहुव्रीहिः) ।

2) चतुरा विचारधुरीणा च = चतुरविचारधुरीणा (कर्मधारयः), महाशिवः दूतः यस्याः सा = महाशिवदूता (बहुव्रीहिः), कृतः प्रमथः अधिपतिः यया सा = कृतप्रमथाधिपतिः अर्थात् दुर्गा (बहुव्रीहिः), चतुरविचारधुरीणा च महाशिवदूता च = चतुरविचारधुरीणमहाशिवदूता (कर्मधारयः), चतुरविचारधुरीणनहाशिवदूता च कृतप्रमथाधिपतिः च = चतुरविचारधुरीणनहाशिवदूत-कृतप्रमथाधिपतिः अर्थात् दुर्गा (कर्मधारयः), सम्बोधने चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते ।

3)  (चतुरविचारधुरीणमहाशिवः) दूतः कृतः यया सा = चतुरविचारधुरीणमहाशिवदूतकृता (बहुव्रीहिः), चतुरविचारधुरीणमहाशिवदूतकृता च प्रमथाधिपतिः (प्रमथानाम् अधिपतिः=प्रमथाधिपतिः अर्थात् दुर्गा, तत्पुरुषः) च = चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपतिः (कर्मधारयः) सम्बोधने चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते ।

4) कृतः दूतः = दूतकृतः (कथञ्चिद् विशेषणोत्तरपदकर्मधारयः चिन्तनीयः) । अन्यत्सर्वं पूर्ववद् एव ।

एतावान् प्रयासः किमर्थं करणीयः आपतितः इति चेत् – कृतशब्दः बाधते । तस्य समीकरणार्थम् एतावान् प्रयासः अपेक्ष्यते । यदि “कृतचतुरविचारधुरीणमहाशिवदूतप्रमथाधिपते” अथवा “कृतदूतचतुरविचारधुरीणमहाशिवप्रमथाधिपते” अथवा “चतुरविचारधुरीणकृतदूतमहाशिवप्रमथाधिपते” अथवा “चतुरविचारधुरीणमहाशिवकृतदूतप्रमथाधिपते” इति अभविष्यत् तर्हि न क्लेशः । तथा क्रियते चेत् छन्दोभङ्गः प्रसज्यते । अतः स्थितस्य गतिः चिन्त्यते, तदर्थम् एतावान् प्रयत्नः अपेक्ष्यते ॥

 *******

3 comments:

Venugopalan Sankaran said...

Appppapppaaaa, EtAvAn prayAsa: SishyahitAya krta:anyena kena VA kriyEta?

Venugopalan Sankaran said...

Appppapppaaaa, EtAvAn prayAsa: SishyahitAya krta:anyena kena VA kriyEta?

iksusara said...

Thanks @gopalee67