Friday, October 2, 2015

तिङन्तेन तरप् तमप् च

अतिशायने तमबिष्ठनौ (५-३-५५) इति सूत्रम् । ङ्याप्प्रातिपदिकात् (४-१-१) इति प्रातिपदिकाधिकारः । तथा च सूत्रार्थः - अतिशायनार्थे विद्यमानात् प्रातिपदिकात् तमप् इष्ठन् च प्रत्ययौ भवतः । तथा च उदाहरणानि - लघुतमः लघिष्ठः, गुरुतमः गरिष्ठः इत्यादीनि । एषः प्रत्ययः तिङन्तात् अपि इष्यते । अतः अग्रिमं सूत्रं - तिङश्च (५-३-५६) इति । तिङन्तात् इष्ठन् न भवति, गुणवचनाभावात्, इष्ठन् गुणवचने एव नियतः, अतः तमब् एव । तथा च उदाहरणं - कूर्दतितमाम्, गच्छतितमाम्, वदतितमाम् इति । 

अग्रिमसूत्रं द्विवचनविभज्यौपपदे तरबीयसुनौ (५-३-५७) इति । अत्र अपि प्रातिपदिकाधिकारः, तिङश्च इत्यपि अनुवर्तते । तथा च प्रातिपदिकाद्, तिङः च अपि तरप्-प्रत्ययः, प्रातिपदिकात् गुणवचनात् ईयसुन्-प्रत्ययः च भवतः । लघुतरः लघीयान्, पटुतरः पटीयान्, पचतितराम्, जल्पतितराम् इति उदाहरणानि ।

बहूनाम् एकस्य निर्धारणे तमब् इष्ठन् च प्रत्ययौ । द्वयोः एकस्य निर्धारणे तरब् ईयसुन् च प्रत्ययौ इति विवेकः ।
अत्र कश्चन विचारः - लघुतमः लघिष्ठः इति सिद्धम् । अत्र पुनः बहूनां लघुतमानाम् अयम् अतिशयेन लघुतमः इति विवक्षायाम्, एवमेव लघिष्ठानाम् अयम् अतिशयेन लघिष्ठः इति विवक्षायां च लघुतमतमः, लघिष्ठतमः इत्यादिरूपाणि भवन्ति वा इति । अत्र काशिकाकारः स्पष्टं वदति वैदिकं लौकिकं च उदाहरणे दर्शयित्वा - यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदातिशायिकान्तादपरः प्रत्ययो भवत्येव। देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे। युधिष्ठिरः श्रेष्ठतमः कुरूणाम् इति। परन्तु इदं मतं शास्त्रकारैः न अङ्गीक्रियते । यतः इदं भाष्यविरुद्धं मतम् । 

अस्मिन् सूत्रे "तदन्ताच्च स्वार्थे च्छन्दसि दर्शनं श्रेष्ठतमाय" इति वार्त्तिकम् । तद्व्याख्यानरूपं भाष्यं यथा - तदन्ताद् आतिशायनिकान्तात् स्वार्थे छन्दसि आतिशायिको दृश्यते - देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे इति । अत्र नागेशः "तदन्ताच्च स्वार्थे इति । एवञ्च लोके अन्यत्र च तरबाद्यन्तात् अतिशये तरबादि अनिष्टमेव इति भावः" इति । तथा च एतस्य भाष्यस्य विरोधात् काशिकाकारेण यदुक्तं तत् न युज्यते इति स्पष्टम् ।

काशिकाकारमतस्य किं मूलम् इति परिशीलयामः । अस्मिन् सूत्रे वार्त्तिके भाष्ये च "छन्दसि दृश्यते श्रेष्ठतमाय​" इत्येव उक्तम् । लोके न भवति इति कण्ठतः नोक्तम् इति विभाव्य काशिकाकारः तथा मतं प्रकटितवान् ।

अत्र अपरः क्लश्चन विचारः । द्विवचनविभज्योपपदे एव तरब् ईयसुन् च भवतः इति सूत्रादीनाम् आशयः स्पष्टः । परन्तु बहूनां निर्धारणे अपि तरब् ईयसुन् च भवतः इति भाष्यप्रयोगप्रामाण्यात् ज्ञायते । तद्यथा - तस्मिन्निति निर्दिष्टे पूर्वस्य (१-१-६६) इति सूत्रे भाष्ये - "एते खल्वपि नैर्देशिकानां वार्ततरका भवन्ति" इति बहूनां निर्धारणे "वार्त्ततरकाः" इति तरबन्तं प्रयुक्तम् । किञ्च आद्यन्तवदेकस्मिन् (१-१-२१) इति सूत्रे - "यदा तर्हि बहुषु पुत्रेषु एतद् उपपन्नं भवति - अयं मे ज्येष्ठः, अयं मे मध्यमः, अयं मे कनीयान्" इति । अत्र बहूनां निर्धारणे कनीयान् इति ईयसुन्-प्रत्ययान्तं प्रयुक्तम् । अत्र कैयटः अपि भाष्यप्रयोगात् बहूनां निर्धारणे तरबन्तमपि साधु इति । बालमनोरमाकारः अपि तथैव आह ।

परन्तु नागेशः इदं न अङ्गीकरोति । तान् प्रयोगान् अन्यथा व्याख्याय तरबन्तस्य साधुत्वं दर्शयति । अपि च नागेशः अतिशायने तमबिष्ठनौ (५-३-५५) इति सूत्रस्थेन "न खल्वपि बहूनां प्रकर्षे तरबा भवितव्यम्" इति वचनेन विरोधं प्रदर्श्य द्वयोः एकस्य निर्धारणे तरप्, बहूनाम् एकस्य निर्धारणे तमप् इति च निर्णयं करोति ।

अत्र मम आशयः भाष्यप्रयोगयोः अन्यथा व्याख्यानसम्भवे अपि, भाष्यवचनप्रामाण्यात् बहूनां निर्धारणे अपि तरप्-प्रत्ययः भवितुम् अर्हति । परन्तु अयं पक्षः क्वचिद् दृष्टस्य एतादृशप्रयोगस्य समर्थनाय एव आश्रयणीयः, अस्माभिः यथेच्छं प्रयोगः न करणीयः इति शम् ॥ 

&&&&&

No comments: