Thursday, February 5, 2015

BEAUTIFUL CONVERSATION

BEAUTIFUL CONVERSATION

हे हेरम्ब ! किमम्ब ! रोदिषि कुतः ? कर्णौ लुठ्त्यग्निभूः
किन्ते स्कन्द ! विचेष्टितं, मम पुरा सङ्खया कृता चक्षुषाम्
नैतत्तेऽप्युचितं गजास्य ! चरितं नासां मिमीतेऽम्ब ! मे
तावेवं सहसा विलोक्य हसितव्यग्र: शिव: पातु वः

हे हेरम्ब = हे गणेश​, किम् अम्ब = किं मातः, रोदिषि कुतः = किमर्थं क्रन्दसि, अग्निभूः = कार्त्तिकेयः, कर्णौ = श्रोत्रे, लुठति = आकर्षति, किं स्कन्द = किं हे स्कन्द​, ते विचेष्टितं = भवता (किं) कृतं, पुरा = पूर्वं, मम चक्षुषां = मम नेत्राणां, संख्या कृता = गणनं विहितम् (अनेन गणेशेन मम द्वादश नेत्राणि सन्ति इति परिहासः कृतः), गजास्य = हे गणेश, ते = तवापि एतत् = इद​, उचितम् अपि = समीचीनं खलु, अम्ब = हे मातः, मे = मम​, नासां = शुण्डायाः, चरितं = दीर्घतां, म्मीते = मापयति (स्कन्दः), एवं = इत्थं, तौ = गणेश​-स्कन्दौ, सहसा = अञ्जसा, विलोक्य = दृष्ट्वा, हसितव्यग्रा = हासे व्याप्र्तः शिवः = महादेवः, वः = युष्मान्, पातु = रक्षतु

विशेषः
) हेरम्बः = हे = शिवे रम्बति इति रम्बः, हे+रम्बः = हेरम्बः सप्तम्याः अलुक् ( लोपः) रम्बति = स्निह्यति रब गतौ इति धातुः
) लुठति = लुठ लोटे त्दिआदिः परस्मैपदी अकर्मकः सेट् लुठति इति उपद्रवं करोति इत्यर्थः
) अग्निभूः = अग्नेः भवति इति अग्निभूः, अग्निस्वरूपस्य भगवतः शिवस्य कुमारः इत्यर्थः
) हसितव्यग्र: = हसितः   व्यग्रः हसितव्यग्रा, हसितौ व्यग्रः वा हसितव्यग्रा ति पाठे माता पार्वती
) मिमीते = माङ् माने जुहोत्यादिः, आत्मनेपदी, सकर्मकः, अनिट् मिमीते इति रूपम्
हिन्दी = इस श्लोक में हास्य के साथ भगवान् शिव के आशिर्वाद मांगा गया गणेश और स्कन्द परस्पर लडते हैं तब गणेश रोता है। उन से पार्वती पूछती है - क्यों रोते हो? गणेश - स्कन्द नेरे कान को कींचता है पार्वती - हे स्कन्द ऐसा क्यों करते हो? स्कन्दः - य्ह मेरे आंखों जिनकर मजाक करत है पार्वती - ऐस नही करना चाहिए था गणेश​, गणेश - यह स्कन्द मेरे शूण्ड को मापता है इस प्रकार खेलते अपने बालकों को देखकर जो महादेव हसता है, ऐसे महादेव आप लोगों की रक्षा करें कितना अद्भुत श्लोक है ?

English – This verse is in conversation form. Here the conversation is among Parvati, Ganesha and Skanda. Conversation goes like this –
Parvati - O, Ganesh, Ganehsa – What Mom? Parvati – Why are you crying? Ganesha – Skanda stirs my ears. Parvati – O Skanda, What did you do?, Skanda – He (Ganehsa) made mockery on my eyes by counting 1 to 12 (Skanda has 12 eyes as he has six heads). Parvati – O Ganesha, this is not good what you you did. Ganesha – Mom, He (Skanda) scales my trunks. Thus, having suddenly seeing his two kids, Shiva smiles and that Shiva protect you all.

*******

No comments: