Tuesday, February 3, 2015

ONE TREE FROM THREE DIFFERENT ROOTS

ONE TREE FROM THREE DIFFERENT ROOTS -TWO SHLOKAS


  युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनौ भीमसेनोऽस्य शाखाः ।  माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥   (राजशेखरस्य बालभारतम् द्वितीयोऽङ्कः श्लोकसंख्या – ५)


मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च = Root were Sri Krishna, Brahman and Brahminsयुधिष्ठिरो धर्ममयो महाद्रुमः = Yudhishthira was (the grown from the roots) the righteous Great Treeस्कन्धोऽर्जुनौ = Arjuna was the Stemभीमसेनोऽस्य शाखाः = Bhimasena was its Branchesमाद्रीसुतौ पुष्पफले समृद्धे = The Sons of Madri Nakula & Sahadeva were the gown up Flowers and FruitsThus from the various three roots – Sri Krishna, Brahman and Brahmanas one Dharma Tree grew up.


विशेषः -युधिष्ठिरः = युधि = रणे, स्थिरः = अचलः इति युधिष्ठिरः । सप्तम्याः अलुक् ।धर्ममयः = मयट् च इति सूत्रेण तत आगतः इत्यर्थे धर्माद् आगतः इत्यस्मिन् अर्थे मयट्-प्रत्ययः । अथवा तत्प्रकृतवचने मयट् इति सूत्रेण प्रचुरेण प्रस्तुतं प्रकृतम् इत्यर्थे मयट्-प्रत्यये रूपम् ।महाद्रुमः = महान् च द्रुमः च = महाद्रुमः । वृक्षः महीरुहः शाखी विटपी पादपः तरुः । अनोकहः कुटः शालः पलाशी द्रुः द्रुमः आगमः ॥ इति तस्य पर्यायाः इति अमरः ।स्कन्धः = स्कन्धः भुजशिरः अंसः इति तस्य पर्यायाः ।अर्जुनः = पाण्डवेषु तृतीयःभीमसेनः = पाण्डवेषु द्वितीयःअस्य = तत् इति शब्दस्य पुंसि षष्ठी-विभक्ति-एकवचनम् । नपुंसकेऽपि तस्य इति एव रूपम्शाखाः = शाखा शिफा अवरोहः इति तस्य पर्यायाः ।माद्रीसुतौ = माद्र्याः सुतः (पुत्रः) तौ माद्रिसुतौ नकुलः सहदेवः चपुष्पफले = पुष्पं च फलं च = पुष्पफले   सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् इति तस्य पर्यायाः । अत्र सुमनसः इति स्त्रीलिङ्गे बहुवचने एव प्रयोगः । फलं सस्यं शस्यम् इति तस्य पर्यायाः ।समृद्धे = समृद्धम् इति नपुंसकलिङ्गस्य प्रथमा-द्विचनम्मूलं = मूलं बुध्नः ब्रध्नः अङ्घ्रिः इति तस्य पर्यायाः ।भगवान् कृष्णःब्राह्मणः = द्विजातिः अग्रजन्मा भूदेवः वाडवः विप्रः ब्राह्मणः इति तस्य पर्यायाः ।च = अपि, अव्ययं चादिषु अन्तर्भवति । संस्कृतम् - धर्मरूपस्य युधिष्ठिरनामकस्य महावृक्षस्य अर्जुनः स्कन्ध​, भीमः शाखा, नकुलः सहदेवश्च पुष्पं फलानि च । एतस्य मूलं भवन्ति श्रीकृष्णः, ब्रह्मन् ब्राह्मणाश्च । हिन्दी - युधिष्ठिर धर्मरूपी महा वृक्ष है, उस के स्कन्ध अर्जुन​, भीम उस की शाखाएँ, नकुल और सहदेव उस के पुष्प और फल है । इस महान् वृक्ष के जड हैं श्रीकृष्ण​, ब्रह्म और ब्राह्मण । English – Yushishthira is the Great Tree of Dharma, for which Arjuna is the Stem, Bhima is the Branch, Nakula & Sahadeva are the Flowers and Fruits. Sri Krishna, Brahma and Brahmin are its roots.

SECOND SHLOKA

दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिः तस्य शखाः ।

 दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो मनीषी ॥ 

 (तत्रैव श्लोकसंख्या - ६)  दुर्योधन: मन्युमय: महाद्रुमः = Duryodhan is the Great Tree of Manyu, स्कन्धः कर्णः = Karna I the Stem, शकुनिः तस्य शखाः = Shakuni is the Branch, दुःशासनः पुष्पफले समृद्धे = Dushshaasana is its Flowers & Fruits. मूलं राजा धृतराष्ट्रो मनीषी = The root of this tree is the King Great Dhritarashtra.मन्युमय: = मन्यु: Angry मन्युमय: Full of Angry. शोकः, दैन्यं, क्रतुः, कोपः, अहङ्कारः इति अर्थाः मन्युशब्दस्य । अत्र अहङ्कारः कोपः इत्यर्थयोः प्रयोगः ।  Other words need no explanation.


No comments: