Saturday, February 14, 2015

चाटुश्लोकः

चाटुश्लोकः

                   मनः नपुंसकं मत्वा प्रियायै प्रेषितं मया । 
                   तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥

मनः नपुंसकम् इति विचिन्त्य प्रियां प्रति प्रेषितवान्, हन्त ! तत् मनः प्रियायाम् एव सुखेन रमते । पाणिनिना वयं मारिताः ननु । कश्चित् कविः चमत्कारेण स्वीयं प्रेम प्रकटयति । पाणिनिः मनः नपुंसकलिङ्गे इति निर्दिशति । तत् सत्यमिति विचिन्त्य मया मनः प्रियां प्रति प्रेषितम् । परन्तु प्रियां प्राप्य तत् मनः आत्मानं पुरुषं मन्यमानं प्रियायाम् एव रमते । हन्त वयं खलु पाणिनिना मारिताः ॥ 

मन को नपुंसक समझकर अपनी प्रिया के पास भेजा था । वह वहां पहुंचकर वहीं पर रमने लगा । हन्त​, पाणिनि से हम लोग मारे गये हैं । 

I sent my mind to my lover having thought that it is of neuter (neuter gender). But mind having reached my lover, is permanently enjoying there. O, we are cheated by Panini. 

@@@@@@@@@@@

 

No comments: