Sunday, February 8, 2015

ONE LETTER ONE KAVYA

ONE LETTER ONE KAVYA


संयक् पारयति यातुं हंसान् यातु पालयतु संस्थं हंसम् ।संयक् पातुमिह हंसं यायाः यातु पालयतु किं ते शेषः?

संयक् = उत्तमप्रकारेण, हंसान् = अग्रस्थितान्, यातुं = नेतुं, पारयति=समर्थः ! संस्थं = अवस्थितं, हंसम् = मत्सरं, यातु = यायावरं, पालयतु = रक्षतु ! इह = अत्र, हंसं = पक्षिविशेषं, संयक् = उत्तमरीत्या, पातुं = रक्षितुं, यायाः = गच्छतु । यातु = गच्छतु, पालयतु = रक्षतु, ते=तव, शेषः=अवशिष्टः, किम्=किम् अस्ति ॥

भवान् पुरतः स्थितान् (मूर्खान्) एव नेतुं समर्थः । भवान् मत्सरे वर्तमानान् पथि विचरतः एव रक्षतु । भवान् उत्तमरीत्या हंसं (ग्रामहंसं) रक्षितुमेव गच्छतु, तदर्थमेव भवान् योग्यः । अतः भवान् गच्छतु, रक्षतु अन्यत् किम् अवशिष्टं तव वर्तते । अर्थात् पुरतः विद्यमानं वेङ्कटनाथनामकं कविम् एवं कश्चिद् विद्वान् निन्दति । तदा वेङ्कटनाथः तेन उच्चरितस्य श्लोकस्य पादत्रये विद्यमानानां प्रथवर्णमाश्रित्य काव्यचतुष्टयं व्यरचयत् । वर्णचौष्टयस्य प्रथमाक्षराणि यथा तन्नामकानि काव्यानि च यथा -
१) सं = सङ्कल्पसूर्योदयनाटकम् २) पा - पादुकासहस्रमहाकाव्यम् ३) हं - हंससन्देशनामसन्देशकाव्यम् ४) यादवाभ्युदयं नाम महाकाव्यं श्रीकृष्णचरितपरम् ।

हिन्दी - वेङ्कटनाथ नामक कवि और एक विद्वान् के बीच् शास्त्रार्थ हुआ । तब उस विद्वान् ने वेङ्कटनाथ इस श्लोक के द्वारा निन्दा की । वेङ्कटनाथ ने इस श्लोक के तीन पादों के प्रथम अक्षर को लेकर चार काव्य का निर्माण किया । श्लोक के तीन पादों के प्रथम अक्षर और उन काव्यों के नाम -
१) सं = नाम से नाटक २) पा - पादुकासहस्र नाम से १००८ श्लोकों का महाकाव्य जो श्रीराम के पादुका के बारे में है । ३) हं - नाम से सन्देश काव्य जो सन्देश हंस ले जाता है सीता के पास । ४) यादवाभ्युदयं नाम से श्रीकृष्ण चरित वर्णन रूप महाकाव्य ।
यह ही वेङ्कटनाथ रघुवीरगद्य नाम के गद्य का भी रचयिता थे जो संस्कृत-रसानुभूति-घटिका में श्रीहरितिरुमलै जी के द्वारा अद्भुत रूप से प्रस्तुत होता है ।

English – When there was debate between Sri Venkatanatha and a scholar, the scholar scolded Venkatanatha with this shloka. Then Venkatanatha authored 4 Kavyas with the four letters of the words occurring in first three Padas of the Shloka. They are –
1.       Paa – Paadukasahasram, SaM – Sankalpasuuryodaya (an allegorical Drama), 3. Yaa – Yaadavabhyudayam a Mahakavya written on Sri Krishna. And 4. HaM – HaMsasandesha
This is the same Venkatanatha who is also the author of Raghuveeragadyam being wonderfully taught by Vidvan Hari Tirumalai during SanskritAppreciationHour on Twitter.

********

No comments: