Saturday, February 21, 2015

॥ छाया-सुवर्चलासमेतसूर्यनारायणाय नमः ॥

॥ छाया-सुवर्चलासमेतसूर्यनारायणाय नमः ॥

छाया
नारीमुत्पादयामास स्वशरीरादनिन्दिताम् ।
त्वाष्ट्रीस्वरूपेण नाम्ना छायेति भामिनी तदा ॥ इति मात्स्यपुराणम् । तदनु सूर्यपत्नी छाया । हरिवंशे नवमेऽध्याये छायायाः कथा वर्ण्यते । सूर्यपत्नी संज्ञानाम्नी स्वीयां छायां श्यामवर्णां तेजोऽधिकां द्रष्टुम् असहमाना तत्सदृशीं काञ्चित् निर्मितवती । सा एव छाया । सा संज्ञा या छायां निर्मितवती सा च पितुः त्वष्टुः पार्श्वे वारं वारं गता, तदा पित्रा आदिष्टा सा सूर्यमेव शरणं गतवती । एतन्मध्ये सूर्यः तां संज्ञया निर्मितां छायां संज्ञा इत्येव विचिन्त्य तस्यां पुत्रद्वयम् उत्पादयामास । तत्र ज्येष्ठः मनुः - यः संज्ञानिर्मितसवर्णायाः छायायाः जातः इति हेतोः सावर्णमनुः इति प्रसिद्धः अभवत् । द्वितीयः शनैश्चरः । ततः प्रभृति छाया सूर्यस्य प्रिया पत्नी सञ्जाता ।

सुवर्चला
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।
तं नित्यम् अनुरक्तास्मि यथा सूर्यं सुवर्चला ॥ (वाल्मीकिरामायणम्, सुन्दरकाण्डे)
श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला |
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् (शान्तिपर्व - २६४-४)
श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला |
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् (अनुशासनपर्व १३४-४)
इत्यादिषु दर्शितरीत्या सुवर्चला सूर्यपत्नी ज्ञायते ।

क्षमस्व भास्कर त्वञ्च साक्षान्नारायणो भवान् । इति ब्रह्मवचनात् साक्षात् नारायणः सूर्य: । स यश्चायं पुरुषः यश्चासावादित्ये - इति श्रुतिश्चापि ।

तथा च च्छाया-सुवर्चलासमेतसूर्यनारायणाय नमः इति प्रयोगः सिद्धः ॥

@@@@@@@@@


No comments: