Friday, February 27, 2015

रामस्य सत्कृत्य इत्यत्र कथं षष्ठी?

रामस्य सत्कृत्य इत्यत्र कथं षष्ठी?


ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः ॥
(आरण्यकाण्डे प्रथमसर्गे षोडशः श्लोकः)

ततः = पश्चात्, पावकोपमाः = अग्नितुल्याः, धर्मचारिणः = धर्माचरणे रताः, ते = तादृशः, महाभागाः = महनीयाः, रामस्य = रामं, विधिना = शास्त्रोक्तविधिना, सत्कृत्य = सत्कारं विधाय​, सलिलं = (अर्घ्यादिभिः स्वागतार्थं) पुण्यतीर्थम्, आजह्रुः = आनीतवन्तः ॥ तात्पर्यम् - श्रीरामस्य दर्शनात् परम्, अग्नितुल्याः धर्माचरणे प्रवृत्ताः ते महाभागाः ऋषयः, श्रीरामं शास्त्रोक्तविधिना सत्कृत्य अर्घ्यादिभिः स्वागताय पुण्यतीर्थम् आनीतवन्तः ॥

विशेषः - अत्र इदं विचार्यते "रामस्य सत्कृत्य​" इति प्रयोगः कथं युज्यते इति । यतः अत्र द्वितीयया "रामं सत्कृत्य​" इति भवितव्यम् । कारणं च - न लोकाव्ययनिष्ठाखलर्थतृनाम्" (२-३-६९) इति सूत्रेण "सत्कृत्य​" इति अव्यये परे षष्ठी न भवति, द्वितीया एव स्याद् इति । एवं सति कथम् अत्र षष्ठी इति प्रश्नः । एतस्य समाधानम् अधोनिर्दिष्टरीत्या व्याख्यातृभिः दर्शितम् । 

१) सरलं समाधानं भवति - एषः ऋषिप्रयोगः, तस्मात् न दोषाय ।
२) किञ्च अत्र कस्यचित् पदस्य अध्याहारेण समाधानं भवति - यथा रामस्य पादौ ( दर्शितरीत्या) सत्कृत्य इति ।
३) भूषणटीकाकारः " रामस्य सत्कृत्य इति षष्ठी आर्षी, ‘न लोकाव्यय​..इत्यादिना निषेधात्" इति व्याख्याति । रामायणटीकायां "रामस्य विधिना सत्कृत्य​" इत्येव व्याख्यातम् । इयं चर्चा एव न कृता अथवा पदान्तरस्य अध्याहारः व्याख्यात्रा इष्यते  इति वक्तुम् अपि निदानम् अस्ति ।
४) अत्र तिलकटीकाकारः " रामस्य सत्कृत्य इति कर्मणः शेषत्वविवक्षायां षष्ठी" इति किञ्चित् समाधानं दर्शयति । 

किमस्य व्याख्यानस्य तात्पर्यम् इति विचारयामः । षष्ठी शेषे (२-३-५०) इति सूत्रम् । अस्य अयम् अर्थः - कारकप्रातिपदिकादिव्यतिरिक्तः स्वस्वामिभावसम्बन्धः तत्र षष्ठी स्यात् । अत्र दीक्षितः लिखति - कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव इति । तत्र तत्त्वबोधिनीकारः एवम् आह - यथा विशेष​-अविवक्षायां "रूपवान्" इति प्रयुज्यते, विशेषविवक्षायां "नीलः", "पीतः" इति प्रयुज्यते तद्वत् इति । तथा च कर्मणः शेषत्वविवक्षया षष्ठी । अत एव "सर्पिषो जानीते" इत्यत्र षष्ठी तावत् "करणस्य सम्बन्धमात्रविवक्षायाम्" इति तत्त्वबोधिन्याम् । अन्यद् इदमपि सूत्रम् - "न लोकाव्ययनिष्ठाखलर्थतृनाम्" (२-३-६९) । अस्य अयमर्थः - सूत्रे परिगणितानाम् एतेषां योगे षष्ठी न स्यात् । अर्थाद् एतावत्पर्यन्तं षष्ठीविधायकानि सूत्राणि, इदं सूत्रं षष्ठीप्रतिषेधकं सूत्रम् । अत्र प्रकरणे दीक्षितः लिखति - "सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः , शेषे षष्ठी तु भवत्येव" इति । अत्र तत्त्वबोधिन्यां "शेषे षष्ठीति" प्रतीकमादाय "शाब्दबोधे वैलक्षण्यमस्ति इति भावः" इति आह । अर्थात् कारकषष्ठ्याः शाब्दबोधः भिन्नः, सम्बन्धमात्रविवक्षया प्रयुज्यमानायाः षष्ठ्याः शाब्दबोधः भिन्नः इति । लोकेऽपि एष एव अनुभवः । तथा हि "न लोकाव्ययनिष्ठाखलर्थतृनाम्" इति प्रतिषेधः कारकषष्ठ्याः एव प्रतिषेधः, न तु सम्बन्धषष्ठ्याः इति फलितम् । अर्थात् "रामस्य सत्कृत्य​" इत्यस्य बोधः सामान्यतया एवं भवति "रामसम्बन्धिसत्कारं विधाय​" इति, न तु "रामकर्मकसत्कारः" इति । प्रायः एतत्सर्वं मनसि निधाय एव तिलककारः तथा व्याख्यातवान् । कर्मणः कर्मत्वविवक्षायां यदा षष्ठी तदा अयं निषेधः प्रवर्तते, कर्मणः शेषत्वविवक्षायां यदा षष्ठी तदा षष्ठ्याः न निषेधः ॥  एवं च "रामस्य सत्कृत्य इति कर्मणः शेषत्वविवक्षायां षष्ठी" इति समाधानं तिलकटीकाकारस्य युक्तम् इति प्रतिभाति ।। 

हिन्दी - श्रीराम जी के दर्शन के बाद्, अग्नि के समान​, धर्म का आचरण करने वाले वे सभी ऋषियों ने शास्त्रों में दर्शित विधि के अनुसार श्रीराम जी का सत्कार करने के बाद​, उनहें अर्घ्यादि से स्वागत करने के लिए पुण्य तीर्थ लाया ॥ इस श्लोक में "रामस्य सत्कृत्य​" ऐसा प्रयोग है । जहां पर षष्ठी के बाद अव्यय होगा वहां षष्ठी नहीं होगी । यहां पर "रामस्य​" के बाद् "सत्कृत्य​" इति अव्यय का प्रयोग है, इसीलिए यहां "रामस्य​" इति षष्ठी गलत है - यही सामान्यतः देखने पर प्रतीत होता है । अब इस प्रयोग का क्या समाधान इस पर चर्चा करेंगें । 

१) यहां पर एक सरल और विना आयास का एक समाधान हो सकता है कि यह ऋषिप्रयोग है, अतः आर्षप्रयोग होने के कारण दुष्ट नहीं माना जाएगा । 
२) कुछ् अपेक्षित पद का अध्याहार करके भी इस का समाधान हो सकता है - जैसे  ने दर्शाया वैसे "रामस्य पादौ सत्कृत्य​", अर्थात राम जी के चरणों को सत्कार करके । 
३) भूषणटीकाकारः यहां पर षष्ठी आर्षी कहकर निषेध सूत्र "न लोकाव्यय​.." को भी उल्लेख किया है । 
४) तिलकटीकाकार ने - "यहां पर "रामस्य सत्कृत्य​" इति कर्मकारक को शेषत्वविवक्षा से षष्ठी" ऐसा कहते हैं । 

इस का तात्पर्य यह है कि "न लोकाव्यय​" इति सूत्र से जो षष्ठी का निषेध वह केवल कारक षष्ठी तक सीमित​, इसीलिए यहां कर्मा के सम्बन्धमात्रविवक्षा से "रामस्य सत्कृत्य​​" इति "सत्कृत्य​" इति अव्यय परे होने पर भी षष्ठी है । अन् य शास्त्रकारों के व्याख्यान से भी यह स्पष्ट होता है कि कर्म के सम्बन्ध मात्र विवक्षा में षष्ठी हो सकती है, अगर कारकविवक्षा होगी तब तु द्वितीया ही होनी चाहिए । यह समाधान तिलककार का युक्त ही प्रतीत होता है ॥
**********




No comments: