Monday, February 2, 2015

शकुनं सेतुबन्धनमहाकाव्ये

शकुनं सेतुबन्धनमहाकाव्ये


           वामं निशिचरनयनं रघुपतेर्दक्षिणं च स्पन्दते नयनम् ।
       बन्धुवधराज्यपिशुनं प्रस्फुरति विभीषणस्य लोचनयुगलम् ॥
                        (सेतुबन्धमहाकाव्यम् - आश्वासः-१५, श्लोकसंख्या-७७)

पदच्छेदः - वामं, निशिचरनयनं, रघुपतेः, दक्षिणं, , स्पन्दते, नयनम्,,बन्धुवधराज्यपिशुनं, प्रस्फुरति, विभीषणस्य, लोचनयुगलम् ॥
 अन्वयः - निशिचरनयनं, वामं, रघुपतेः, दक्षिणं नयनं, च स्पन्दते, विभीषणस्य​, बन्धुवधराज्यपिशुनं, लोचनयुगलं, प्रस्फुरति ॥ पदार्थः –
निशाचरनयनं = रावणस्य नेत्रं, वामं = दक्षिणेतरं, रघुपतेः = रामस्य​, दक्षिणं = वामेतरं, नयनं = नेत्रं, च = अपि, स्पन्दते = प्रस्फुरति । विभीषणस्य = रावणानुजस्य विभीषणाख्यस्य​, बन्धुवधराज्यपिशुनं = रावणस्य भ्रातुः वधसूचकं, राज्यलाभसूचकं च​, लोचनयुगलं - नेत्रद्वयं, प्रस्फुरति = स्पन्दते ॥ विशेषः -
१) निशिचरस्य नयनं = निशिचरनयनम्, अर्थाद् अत्र रावणस्य नयनम् इति । निशिचरः राक्षसः । निश् इति शब्दः रात्रिः इत्यर्थे । तस्य सप्तमी एकवचनं निशि, निशि चरः = निशिचरः इति सप्तमी-अलुक्-समासः । निशा इति आकारान्तशब्दः अपि वर्तते, तस्या निशायाम् इति सप्तमी-एकवचने रूपम् ।२) रघुषु - रघुवंशीयेषु, पतिः - वरः (श्रेष्ठः) = रघुपतिः, अत्र रामः इत्यर्थः ।३) स्पद ईषत्कम्पे भ्वादिः, आत्मनेपदी, सेट्, अकर्मकः । अपन्दते इति रूपम् ।४) बन्धुवधपिशुनं राज्य​(लाभ​)पिशुनं च = बन्धुवध​ऋआज्यपिशुनम् । पिशुनं = सूचकम् । द्वन्द्वान्ते श्रूयमाणं प्रत्येकम् अभिसम्बद्ध्यते इति न्यायेन पिशुनम् (सूचकम्) इति उभयत्र अन्वेति ।५) स्फुर स्फूर्तौ, तुदादिः चुरादिश्च​, अकर्मकः सेट् परस्मैपदी । स्फुरति प्रपूर्वकः = प्रस्फुरति ।
 तात्पर्यम् - रावणस्य वामनेत्रं स्पन्दते स्म​, तस्य नाशसूचकत्वात् । वामनयनस्पन्दने नाशः इति सामुद्रिकाशास्त्रम् । रामस्य दक्षिणं नेत्रं प्सन्दते स्म​, तस्य अभीष्टभार्यालाभसूचकत्वात् । दक्षिणं नेत्रं स्पन्दते चेत् शुभम् इति सामुद्रिकाशास्त्रम् । विभीषणस्य नेत्रद्वयं स्पन्दते स्म । तस्य भ्रातुः रावणस्य वधसूचकत्वात्, राज्यलाभः इति शुभ सूचकत्वात् च ॥ लक्षणं तु त्रयाणामपि समानम् एव आसीत् नेत्रस्पन्दनम् इति । परन्तु परिणामे भेदः तु वाम​-दक्षिणनेत्रस्पन्दनेन आसीत् ॥ हिन्दी - रावण के बाए आंख फडकता था, यह उस के लिए नाश सूचक था, राम के दाए आंख फडकता था, यह तो उनके लिए (सीता लाभ के) शुभ का सूचक था । विभीषण के दोनों आंखें फडकते थे, इससे उन के भाई का वधा और राज्य की प्राप्ति दोनों के सूचक था । शकुन तो तीनों को समान ही था कि आंखों को फडकना, पर परिणाम में इसी लिए बदलाव था कि बाए और दाए आंख फडकने से ॥ English – The left eye of Ravana pulsated and it hinted at his death, whereas the right eye of Rama pulsated and it hinted good omen of getting his wife Sita back. Both the eyes of Vibhishana pulsated and it hinted both good and bad omen to him (death of his brother Ravana and becoming the King of Lanka).
 Omen is the same for all the three i.e. pulsation of eyes, but the results varied because of left and right eyes pulsations.
  

No comments: