Saturday, February 14, 2015

राम-रावणयोः युद्धम्

राम-रावणयोः युद्धम्


                       अक्षेषु केतुदण्डे च सारथौ च हयेषु च । 
                       खेलन्ति राक्षसेन्द्रस्य स्यन्दने रामपत्रिणः ॥
                                 [अनर्घराघवे षष्ठे अङ्के षष्टः (६०) श्लोकः] (महाकविः मुरारिः)
 
राक्षसेन्द्रस्य = रावणस्य​, स्यन्दने = रथे, अक्षेषु = चक्रकीलकेषु, केतुदण्डे च = पताकादण्डे च​, सारथौ च = रथचालके अपि, हयेषु = (रथ​)अश्वेषु च = अपि, रामपत्रिणः = श्रीरामबाणाः खेलन्ति = क्रीडन्ति ॥
 
राक्षसेन्द्रस्य रावणस्य रथे चक्राक्षेषु, पताकादण्डे, सारथौ, हयेषु च = अश्वेषु च श्रीरामबाणाः क्रीडन्ति ॥ (ततः तस्य हृदयच्छेदात् पूर्वम् एषु स्थलेषु बाणाः प्रक्षिप्ताः) ॥
 
हिन्दी - राक्षस रावण के रथ पर चक्र कीलक​, ध्वज दण्ड​, सारथि, एवं घोडों पर श्री राम जी के बाण खेलते हैं । अर्थात् रावण को मारने पूर्व श्री राम जी के बाण इन जगह पर लगी ॥
 
विशेषः -
१. केतुदण्डे = केतुदण्डः इत्यस्य सप्तमी । केतवे केतोः वा दण्डः = केतुदण्डः ।
२. राक्षसेन्द्रस्य = राक्षसेन्द्रः इत्यस्य षष्ठी । राक्षसानाम् इन्द्रः = राक्षसेन्द्रः ।
३. रामपत्रिणः = रामपत्री (त्रिन्) इत्यस्य प्रथमाबहुवचनम् । रामस्य पत्रिण = रामपत्रिणः ।
 
English – Shri Rama’s arrows are playing on the chariot of Ravana at axis, flag-pole, charioteer and the horses. Before shooting Ravana, Sri Rama shot at these places of the chariot.
 
Note: वाल्मीकिः इत्थं वर्णयति -
मुमोच धवजमुद्दिश्य रावणस्य रथे स्थितम् । (यु.का.५१३-८)
रावणस्य हयान् रामः हयान् रामस्य रावणः जघ्नतुस्तौ तदान्योन्यम् (यु.का.५१३-२७) रावणस्य शिरोऽच्छिन्दत् श्रीमज्ज्वलितकुण्डलम् । (यु.का.१०७-५४)
 
$$$$$$$$

No comments: