Tuesday, May 12, 2015

गुरुवायुपुराधीशसुप्रभातम् - ११

गुरुवायुपुराधीशसुप्रभातम् - ११

भक्तैरनेकविधसत्कृतिरत्ननूत्नश्रेणीसमर्पणपुरस्सरमादृतं त्वाम्
भक्त्या भजन्निदमुपायनमर्पयामि श्रीमारुताधिप हरे तव सुप्रभातम्

पदच्छेदः अन्वयः

भक्तैः, अनेकविधसत्कृतिरत्ननूत्नश्रेणीसमर्पणपुरस्सरम्, आदृतं, त्वां, भक्त्या, भजन्, इदम्, उपायनम्, अर्पयामि, श्रीमारुताधिप, हरे, तव, सुप्रभातम्

प्रतिपदार्थः

भक्तैः = भागवतैः, अनेकविधसत्कृतिरत्ननूत्नश्रेणीसमर्पणपुरस्सरम् = बहुविधश्रेष्ठसत्कार​-आवलीनां समर्पणेन​, आदृतं = आश्रितं, त्वां = भवन्तं, भक्त्या = अनुरागेण​, भजन् = स्तुवन्, इदं = एतत्, उपायनं = उपहारं, अर्पयामि = समर्पयामि श्रीमारुताधिप = हे श्रीवायुपुराधीश​, हरे = विष्णो, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः)

तात्पर्यम्

भक्ताः बहुविध​-उत्तमसत्काराणां नूतन​-आवलीनां समर्पणपुरस्सरं त्वाम् आश्रितवन्तः, तादृशं त्वां अहं (कविः) भक्त्या स्तुवन् इदं सुप्रभातस्तोत्राख्यम् उपहारम् अर्पयामि हे वायुपुराधीश विष्णो तव शुभप्रभातं व्याहरामः

हिन्दी

सभी भक्त भक्ति के साथ विविध उत्तम सत्कारों के अभिनव श्रेणी के सपर्ण के साथ आप के आश्रय में आये हैं, ऐसे आप को मैं भक्ति के साथ इस सुप्रभात स्तोत्र रूप उपहार का सपर्मण करता हूं हे वायुपुराधीश विष्णो आप का शुभ प्रभात कहते हैं

विशेषः

) अनेकविधसत्कृतिरत्ननूत्नश्रेणीसमर्पणपुरस्सरम् = अनेकविधानि सत्कृतिरत्नानि, तेषां नूत्नश्रेणी (नूत्ना श्रेणी), तस्याः समर्पणं, तेन पुरस्सरम् = अनेकविधसत्कृतिरत्ननूत्नश्रेणीसमर्पणपुरस्सरम् अत्र रत्नशब्दः श्रेष्ठार्थे प्रयुक्तः - स्वस्वजातिषु श्रेष्ठम् इति मेदिनीकोशप्रामाण्यात् सत्कृतिह: = सत्कारः पूजा इत्यर्थः नूत्नश्रेणी इति शब्दः श्लेषया प्रयुक्तः आद्यः अर्थः नूतनश्रेणी इति, अपरः अर्थः - एषः कविः "पुदुश्शेरी" इति गृहनामयुक्तः, तदेव संस्कृते अनूद्य नूत्नश्रेणी इति प्रयुक्तम्, अर्थात् पुदुश्शेरी इत्युपनामभाजा मया समर्पितम् इति
) उपायनम् = उपहारः

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhmukhan)

Devotees all have brought the best of everything Performing newest series of prayers that are rarest gems As has this devotee from the household called New Chain*
Taken refuge in You with their ceaseless hymns in offering
Hey Protector Vishnu in Guruvayur, this is a pleasant morning. * The poet is from Pudusserry - meaning a New Chain
******

No comments: