Friday, May 15, 2015

गुरुवायुपुरेशसुप्रभातम् - १४

गुरुवायुपुरेशसुप्रभातम् - १४

एकादश्यां तवास्यां सुरगुरुकृतसान्निध्यमत्रातुलाभं
सम्प्राप्तः सुप्रभातस्तुतिमयकुसुमैः पूजयाम्यादरात्त्वाम्
पूजानिष्ठां मदीयां कलिकृतकलुषध्वंसनार्थं सुक्लृप्तां
स्वीकृत्यैतां मुरारे सफलय भगवन् मारुतागारनाथ

पदच्छेदः

एकाश्यां तव अस्यां सुरगुरुकृतसान्निध्यम् अत्र अतुलाभं सम्प्राप्तः सुप्रभातस्तुतिमयकुसुमैः पूजयामि आदरात् त्वां पूजानिष्ठां मदीयां कलिकृतकलुषध्वंसनार्थं सुकॢप्तां स्वीकृत्य एतां मुरारे सफलय भगवन् मारुतागारनाथा

अन्वयः

तव अस्याम् एकादश्याम् अत्र सम्प्राप्तः सुरगुरुकृतसान्निध्यम् अतुलाभं त्वाम् आदरात् सुप्रभातस्तुतिमयकुसुमैः पूजयामि कलिकृतकलुषध्वंसनार्थं मदियाम् एतां पूजानिष्ठां सुकॢप्तां स्वीकृत्य भगवन् मुरारे मारुतागारनाथ सफलय

प्रतिपदार्थः

तव = भवतः, अस्यां = एतस्याम्, एकादश्यां = एकादशीतिथौ, अत्र = अस्मिन् क्षेत्रे, सम्प्राप्तः = समागतः, सुरगुरुकृतसान्निध्यं = बृहस्पतिद्व्रा प्रैष्ठापितम्, अतुलाभं = अनुपमशोभायुक्तं, त्वां = भावन्तम्, आदरात् = श्रद्धया सुप्रभातस्तुतिमयकुसुमैः = सुप्रभातस्तोत्ररूपपुष्पैः, पूजयामि = अर्चयामि कलिकृतकलुषध्वंसनार्थं = कलियुगमलनाशाय​, मदीयां = मया कृताम्, एतां = इमां, पूजानिष्ठां = वन्दनपरां, सुकृप्तां = सम्यग्रचितां, स्वीकृत्य = गृहीत्वा, भगवन् = हे प्रभो, मुरारे = विष्णो (मुरनामकस्य असुरस्य अरे), मारुतागारनाथ = वायुपुराधीश​, सफलय = माम् सफलं कुरु

तात्पर्यम्

कविः कस्याञ्चिद् एकादश्यां तिथौ गुरुवायुपुरं गतवान्   तत्र बृहस्पतिद्वारा प्रतिष्ठापितं अनुपमकान्तियुतं भगवन्तं श्रीकृष्णं श्रद्धया सुप्रभातरूपस्तोत्रैः पूजितवान् तत्र भगवतः सन्निधौ सः कविः वदति - कलियुगदोषनिवारणाय मया रचिताम् इमां सुप्रभातं श्रुत्वा हे मुरारे, भगव​, गुरुवायुप्राधीश मां सफलं कुरु इति

हिन्दी

इस सुप्रभात स्तोत्र के कवि एकदशी के दिन गुरुवायुपुर गया है वहां सुर गुरु बृहस्पति के द्वार प्रतिष्ठापित अतुल्य कान्ति से युक्त श्रीकृष्ण जी को इस सुप्रभात रूप पुष्प से पूजता है और कहता है कि इस कलियुग के पापों के निवारण हेतु मेरे द्वारा रचित इस सुप्रभात को स्वीकार कर हे भगवन्, मुरारे, गुरुवायुप्राधीश मुझे सफल बनाओ

विशेषः

) एकादशी भगवान् श्रीकृष्ण के विशिष्ट दिन के रूप मनाया जाता है किञ्च एकादशी दिन भगवान् के नाम स्मरण के लिए विशिष्ट दिन है और इस दिन उपवास के साथ भगवान् की पूजा की जाती है उपवास का अर्थ है समीप में वास करना अर्थात् भगवान् के समीप में रहकर पूजा जप आदि करना है वृश्चिकमासे एकादश्यां भगवतः विशेषपूजा भवति एकादश्यां भगवतः माल्यार्पणं गजराजेन क्रियते एषः दिवसः गीतोपदेशदिवसत्वेन अपि अनुष्ठीयते
) सुरगुरुकृतसान्निध्यं = सुरगुरुणा कृतं सान्निध्यं यस्य सः = सुरगुरुकृतसान्निध्यः, तम्
) अतुलाभं = नास्ति तुला (सादृश्यं) यस्याः सा = अतुला, अतुला आभा (कान्तिः) यस्य सः = अतुलाभः, तम्
) कलिकृतकलुषध्वंसनार्थं = कलिना कृतः कलिकृतः, कलुषः = कलिकृतकलुषः, तस्य ध्वंसनं = कलिकृतकलुषध्वंसनं तस्य चतुर्थ्यर्थः
) सुकॢप्तां = सम्यक् कॢप्ता (रचिता), ताम्

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

On your Holy Eleventh day of the full moon I am fortunate to be here with your boon At your unparalleled Sanctum set up by Gods’ preceptor
And to worship you with all my heart, hey Protector Remove all my sins arising from my birth in this Kali era
So I have sung this beautiful morning hymns awed by your aura Accept my prayers, Hey Guruvayurappa, Hare Krishna Murare, make me successful in my endeavours, Vishno!


*******

No comments: