Saturday, May 16, 2015

गुरुवायुपुरेशसुप्रभातम् - १५

गुरुवायुपुरेशसुप्रभातम् - १५

शुभपापसमापनैकलभ्यं स्वमहोमण्डलपञ्चमांशसंस्थम् ।
गुरुवायुपुरेश तावकीनं कुरु मन्मानसगोचरं महस्तत् ॥

पदच्छेदः

शुभपापसमापनैकलभ्यं, स्वमहोमण्डलपञ्चमांशसंस्थं, गुरुवायुपुरेश, तावकीनं, कुरु, मन्मानसगोचरं, महः, तत् ॥

अन्वयः

गुरुवायुपुरेश शुभपापसमापनैकलभ्यं स्वमहोमण्डलपञ्चमांशसंस्थं तावकीनं तत् महः मन्मानसगोचरं कुरु ॥

प्रतिपदार्थः

गुरुवायुपुरेश = हे बृहस्पति-पवन​-पुराधीश​, शुभपापसमापनैकलभ्यं = एतस्मात् संसाराद् मोचनात्परम् एव प्राप्तुं शक्यं, स्वमहोमण्डलपञ्चमांशसंस्थं = स्वीयतेजोमण्डलस्य पञ्चसु अंशेषु अर्चारूपेण विद्यमानं, तावकीनं = यौष्माकं, तत् = तादृशं, महः = तेजः, मन्मानसगोचरं = मम अन्तःकरणस्य प्रत्यक्षं, कुरु = कुरुतात् ॥

तात्पर्यम्

हे गुरुपवनपुरेश​, शुभं पापम् इत्यनयोः समाप्तेः परमेव प्राप्यमाणं, स्वीयतेजोमण्डलस्य पञ्चमांशरूपेण अर्चारूपेण अवस्थितं, यौष्माकं तत् तेजः यथा मम मनसि प्रत्यक्षं भवेत् तदा कुरु इति प्रार्थयते कविः ॥

हिन्दी

कवि प्रार्थना करते है कि हे गुरुपवनपुराधीश​, इस संसार के सुख और पाप समाप्त होने के बाद ही प्राप्यमाण और अपने तेजस्वी मण्डलों में से पांचवां मन्डल अर्चा (विग्रह​) के रूप में अवस्थित​, आप अपने उस तेजस को जैसे मेरी मन के प्रत्यक्ष हो वैसे करो ॥

विशेषः

१) शुभपापसमापनैकलभ्यं = शुभानि पापानि च = शुभपापानि, तेषां समापनं = शुभपापसमापनं, तेन एव लभ्यः = शुभपापसमापनैकलभ्यः, तम् । एतस्य संसारस्य बन्धनात् यदा मुक्तिः भवति तदा एव भागवान् प्राप्तुं शक्यः । तथापि संसारे विद्यमानस्य एव मम मनसि तव रूपं यथा तिष्ठेत् तथा त्वं अनुगृहाण इति कवेः प्रार्थना ।
२) स्वमहोमण्डलपञ्चमांशसंस्थं = स्वीयं महः (तेजः) = स्वमहः, स्वमहसः मण्डलं = स्वमहोमण्डलं, तत् च पञ्चधा वर्तते - पर​-व्यूह​-विभव​-अन्तर्यामि-अर्चाभेदेन । तस्य पञ्चमः अंशः अर्चारूपः । स च मन्दिरादिषु आराध्यमानः विग्रहरूपः भगवान् । तथा च स्वमहोमण्डलस्य पञ्चमः अंशः = स्वमहोमण्डलपञ्चमांशः, तद्रूपेण संस्थितः, स्वमहोमण्डलपञ्चमांशसंस्थः, तम् । यच्च अर्चारूपं श्रीनारायणभट्टतिरिवर्येण - अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं तत्तावद्भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् इति स्तुतम् । नृणां नि:श्रेयसार्थाय व्यक्तिर्भगवती भुवि । अव्ययस्याप्रमेयस्य निर्गुणस्य​ गुणात्मन:॥ (१०.२९.१४) इति श्रीमद्भागवते दर्शितः तस्य पञ्चमांशस्य विग्रहः अत्र कविना अभिप्रेतः ।
३) तावकीनं = त्वदीयम् इत्यर्थः । युष्मदस्मदोरन्यतरस्यां खञ्च (४-३-१) इति सूत्रेण खञ्-प्रत्ययः । तवकममकावेकवचने (४-३-३) इति सूत्रेण तवक इति आदेशः । तेन तावकीनम् इति रूपम् ।
४) मन्मानसगोचरं = मम मानसं = मन्मानसं, तस्य गोचरः = मन्मानसगोचरः । मन एव मानसं प्रज्ञादिभ्योऽण् (५-४-३८) इति सूत्रेण अण्-प्रत्यये रूपम् । गावः (इन्द्रियाणि) चरन्ति अस्मिन् इति गोचरः = इन्द्रियार्थः इत्यर्थः । अवाङ्मनसगोचरम् इत्यादिप्रयोगात् ज्ञानमात्रेऽपि । तथा च अत्र प्रत्यक्षम् इत्यर्थः ।
५) महः = महस् इति सकारान्तः, मह-धातोः असुन्-प्रत्यये निष्पन्नः, तेजः इत्यर्थः ॥

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

Prays the poet: ‘Oh Guruvayur Lord’ When one exhausts worldly pleasures & sins hoard One gets only to see Your Divine Form
Fifth of your illustrious forms revealed here to crowds that swarm In the incomparable Idol here with divinity personified
Hey Krishna, fill my mind so I am forever gratified
********

No comments: