Sunday, May 24, 2015

सरस्वतीसूक्तम्

सरस्वतीसूक्तम् (ऋग्वेदे ६-६१)

अस्मिन् सूक्ते सरस्वती देवतारूपेण नदीरूपेण च स्तूयते ॥

इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥ (६-६१-१)

पदच्छेदः

इयम्, अददात्, रभसम्, ऋण​ऽच्युतम्, दिवह्ऽदासम्, वध्रिऽअश्वाय​, दाशुषे,
या, शश्वन्तम्, आऽचखाद​, अवसम्, पाणिम्, ता, ते, दात्राणि, तविषा, सरस्वति ॥

अन्वयः

इयं रभसम् ऋणच्युतं दिवोदासं दाशुषे वध्र्यश्वाय अददात् या शश्वन्तं पणिम् अवसम् आचखाद सरस्वति ता ते दात्राणि तविषा ॥

प्रतिपदार्थः

इयं = सरस्वती, रभसं = वेगयुक्तं, ऋणच्युतं = वैदिकस्य लौकिकस्य (देव​-ऋषि-पितृऋणानि) च दूरीकर्तारं, दिवोदासं = दिवोदासनामकं पुत्रं, दाशुषे = (हविः) दत्तवते, वध्र्यश्वाय = वध्र्यश्वनामकाय ऋषये, अददात् = दत्तवती । या = सरस्वती, शश्वन्तं = बहुलं, पणिं = पणनशीलं वनिजं, अवसं = निजतर्पकं, आचखाद = आजघान । सरस्वति = हे सरस्वति!, ता = पुत्रदानादीनि, ते = त्वदीयानि, दात्राणि = दानानि, तविषा = महान्ति ॥

तात्पर्यम्

या सरस्वती केवलं स्वार्थपरायणम् अदातृजनं हन्ति स्म​, सा सरस्वती तेजस्विनं दिवोदासं (यः वैदिकलौकिक​-ऋणानां दूरीकर्ता) वध्र्यश्वनामकाय ऋषये पुत्रत्वेन दत्तवती । ह् ए सरस्वति ! पुत्रदानादीनि तव दानानि महान्ति भवन्ति ॥

हिन्दी

जिस सरस्वती ने केवल स्वार्थ परायण दान करनेवालों को मारा, वह सरस्वती बडे तेजस्वी सभी प्रकार के ऋणों से (वैदिक और देव​-ऋषि-पितृ-ऋणों से) मुक्त करनेवाले दिवोदास नामक पुत्र को वध्र्यश्व नामक ऋषि को दी ॥

ENGLISH

Who destroyed the selfish and non-giver that Sarasvati has given a son named Divodas who is the remover of all kinds of debt (both Vaidik and Laukik) to the seer Vadhryashva.

Translation by Ralph T.H.Griffit

To Vadhryasva when be worshipped her with gifts she gave fierce Divodāsa, canceller of debts. Consumer of the churlish niggard, one and all, thine, O Sarasvatī, are these effectual boons. 

Translation by Brahmasri Ganeshan @vezhamukhan


Sarasvati, One of speed,annihilating self-centredness & niggardliness 
Gave the Seer VadhryaSva a son named Divodasa, remover of all indebtedness
That a person born in this world could incur,Hey Sarasvati Your boons show your greatness

*******



इयं शुष्मेभिर्बिसखाइवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः
पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः

पदच्छेदः

इयं शुष्मेभिः विसखाऽइव अरुजत् सानु गिरीणां तविषेभिः ऊर्मिऽभिः
पारावतऽघ्नीम् अवसे सुवृक्तिऽभिः सरस्वतीम् विवासेम धीतिऽभिः

अन्वयः

इयं शुष्मैः तविषेभिः ऊर्मिभिः गिरीणां सानु अरुजत् बिसखाइव सरस्वतीं परावतघ्नीं सुवृक्तिभिः धीतिभिः अवसे विवासेम

प्रतिपदार्थः

सरस्वती देवतारूपेण नदीरूपेण वर्तते पूर्वम् ऋचा देवतारूपा सरस्वती स्तुता सम्प्रति नदीरूपा सरस्वती स्तूयते अनया ऋचा

प्रतिपदार्थः

इयं = नदीरूपा सरस्वती, शुष्मैः = शोषकशक्तिभिः, तवेषिभिः = बृहद्भिः, ऊर्मिभिः = तरङ्गैः, गिरीणां = पर्वतानां, सानु = अधोभागान्, बिसखा इव = मृणालकर्त्तयिता इव, अरुजत् = भग्नम् अकरोत्   सरस्वतीं = तादृशीं सरस्वतीं, परावतघ्नीं = दूरे वर्तमानस्य अपि हन्त्रीम् अथवा पारावारयोः तीरयोः हन्त्रीं, सुवृक्तिभिः = स्तोत्रैः, धीतिभिः = कर्मभिः, अवसे = रक्षणाय, विवासेम = परिचर्यां कुर्महे

तात्पर्यम्

नदीरूपा सरस्वती स्वीयैः शक्तिमद्भिः महत्त्तरङ्गैः पर्वतानाम् अधोभागं यथा तडागे मृणालस्य कर्त्तयिता मृणालकर्त्तनावसरे तडागस्य पङ्कं भनक्ति तथा रुजति स्म तादृशीं सरस्वतीं दूरे वर्तमानस्यापि वृक्षादेः हन्त्रीं (अथवा उभयपारयोः तीरयोः भङ्क्त्रीं) वयं स्तोत्रैः कर्मभिः नः रक्षणाय परिचराम

हिन्दी

इस ऋचा में सरस्वती के दोनों रूपों में से (देवता और नदी) नदीरूपा सरस्वती की स्तुति की जाती है यह नदी रूपा सरस्वती अपने शक्तिशालि और महत् तरङ्गों से जैसे कमल फूल के मृणाल को खाटनेवाला तडाग के पङ्क को भेद कर आगे बढता है वैसे ही पहाड के निचे के हिस्से को खाट देती है   उस प्रकार की नदीरुपा सरस्वती की जो कि दूर में विद्यमान पेडों को भी उखाड देती है (या अपने दोनों पार के तीर को अपक्षरण करती है) हम लोग स्तोत्रों से विविध पूजा अर्चना आदि काम से भी अपने रक्षा के लिए सेवा करते हैं

ENGLISH

Sarasvati is in two forms – one is Goddess and the other is River. Here, in this Rik, River form of Sarasvatii is worshipped. River Sarasvati eroded the ridges of mountains by her forceful waves like the Lotus-Stem-Cutter cuts the sludge and proceeds to cut the Lotu-stem. We pray that Sarasvati with Stotras and actions who destroys the trees which are even away from the it (or erodes both banks).

Translation by Ralph T.H.Griffith

She with her might, like one who digs for lotus-stems, hath burst with her strong waves the ridges of the hills. Let us invite with songs and holy hymns for help Sarasvatī who slayeth the Paravatas.

Translation by Brahmasri Ganeshan @vezhamukhan

Sarasvati, when you flow as the mighty river delving deep into mire 
As if to cut off the stems of lotus flowers that thrive in your weir 
And bursting out with tidal waves eroding ridges of great mounts on Your corridor 
Uprooting trees that are far away on Your banks, we bow to Thy power 
With glorious hymns and good deeds, so You protect us all for ever!



सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।
उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥ ३ ॥

पदच्छेदः

सरस्वति देवऽनिदः नि बर्हय प्र​ऽजां विश्वस्य बृसयस्य मायिनः उत क्षितिऽभ्यः अवनीः अविन्दः विषम् एभ्यः अस्रवः वाजिनीऽवति ॥

अन्वयः

सरस्वति देवनिदः नि बर्हय विश्वस्य मायिनः बृसयस्य प्रजां उत वाजिनीवति क्षितिभ्यः अवनीः अविन्दः एभ्यः विषम् अस्रवः ॥

प्रतिपदार्थः

सरस्वति = हे सरस्वति, देवनिदः = देवानां निन्दकान् असुरान्, निबर्हय = अवधीः, विश्वस्य = व्याप्तस्य​, मायिनः = मायाविनः, बृसयस्य = त्वष्टृदेवस्य​, प्रजां = वृत्रासुरनामकं (च अवधीः) । उत = किञ्च​, वाजिनीवति = हे अन्नवति (सरस्वति) क्षितिभ्यः = मानवेभ्यः, अवनीः = (असुरैः अपहृताः) भूमीः, अविन्दः = अलम्भयः, एभ्यः = मानवेभ्यः, विषं = जलं, अस्रवः = अक्षारयः ॥

तात्पर्यम्

हे सरस्वति ! त्वं देवनिन्दकानाम् असुराणां वधं कृतवती, अपि च मायाविनः त्वष्टृदेवस्य पुत्रस्य वृत्रासुरस्य वधं कृतवती । किञ्च हे अन्नवति! मानवेभ्यः वासाद्यर्थं भूमिं दत्तवती, तेभ्यः जलम् अपि उपलम्भितवती ॥

हिन्दी

हे सरस्वति! आप तु देवताओं के निन्दक असुरों का वध किया और त्वष्टृदेवता के मायावी पुत्र वृत्रासुर का भी वध किया । और हे अन्नवति! मनुष्यों के लिए रहने लायक भूमि दी और जल भी प्राप्त करायी ॥

विशेषः

१) देवनिदः = देवानां निदः (निन्दकानां) देवनिदः, असुराणाम् इत्यर्थः ।
२) नि बर्हय = बर्ह हिंसायाम् (चुरादिः सकर्मकः सेट् उभयपदी) इति धातोः लङ्लकारे मध्यमपुरुष​-एकवचने रूपं "बर्हय​" इति वेदे क्वचित् ॥ स च नि इति उपसर्गपूर्वकः । वस्तुतः "अबर्हयः" इति लङि रूपं स्यात् । वेदे सर्व​-व्यत्ययः भवितुम् अर्हति । अतः लङि नि+बर्हय इति रूपम् । एतस्य अर्थः एव सायणेन दर्शितः "न्यबर्हयः अवधीः" इति । वेदे उपसर्गस्य पृथक् पदत्वेन ग्रहणं भवति । अतः एव पदपाठे "नि" "बर्हय​" इति दर्शितम् । अत्र "अबर्हयः" इति पदं नास्ति । "बर्हय​" इति एव पदं लङ्लकारे म​.पु.ए.वचने वेदे अस्याम् ऋचि ॥
३) बृसयस्य = बृसयः इति त्वष्टृदेवस्य नाम, तस्य षष्ठी बृसयस्य इति ।
४) क्षितिभ्यः = क्षितौ वसद्भ्यः अर्थात् मानवेभ्यः ।
५) अवनीः = अत्र असुरैः अपहृता भूमिः उच्यते अवनी इति द्वितीया बहुवचनम् ।
६) अविन्दः = लम्भनं कृतवती ।
७) विषम् - जलम्,
८) अस्रवः = अवक्षरणम् कृतवती ।

ENGLISH

O Sarasvati, you destroyed the censurers of Gods and also Vritrasura Son of Tvasta. O Annavati (one who has food), you gave Earth and water to people for their living.

Translation by Ralph T.H.Griffith

May the divine Sarasvatī, rich in her wealth, protect us well,
Furthering all our thoughts with might

Translation by Brahmasri Ganeshan @vezhamukhan

Slayer of Demons who abused the Gods and also Tvashta’s son 
The fierce VrutraSura, Hey Sarasvati, You established an order
You are the God of Food, giving us the Earth to till & water to live on.

*******


प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु ॥४

पदच्छेदः

प्र नः देवी सरस्वती वाजेभिः वाजिनीऽवती धीनाम् अवित्री अवतु ॥

अन्वयः

देवी वजिनीवती धीनाम् अवित्री सरस्वती वाजेभिः नः प्र अवतु ॥

प्रतिपदार्थः

देवी = दानगुणयुतावाजिनीवती = अन्नक्रियायुक्ताधीनां = स्तोतॄणाम्अवित्री = रक्षणकर्त्रीसरस्वती = एतादृशी सरस्वतीवाजेभिः = अन्नैःनः = अस्मान्प्र = प्रकर्षेण​अवतु = तर्पयतु ॥

तात्पर्यम्

दानशीला अन्नदात्री स्तोत्रं क्रियमाणानां रक्षणकर्त्री (वर्तते) सरस्वती । तादृशी सरस्वती अन्नैः अस्मान् उत्तमरीत्या तर्पयतु (अस्माकं तृप्तिं कारयतु) ।

हिन्दी

दानशीला अन्नदात्री स्तोत्र करने वालों की रक्षणकर्त्री है सरस्वती । उस प्रकार की सरस्वती अन्न से हमें उत्कृष्ट रूप से तृप्त करें ॥

ENGLISH

Sarasvati is of Giving Natured, Food-giver (wealth-giver), and protect who do prayers. Let Sarasvati with those qualities make us contented with Food (wealth).

(Translation by Ralph T.H.Griffit)

May the divine Sarasvatī, rich in her wealth, protect us well,
Furthering all our thoughts with might

(Translation by Brahmasri Ganeshan @vezhamukhan)

Sarasvati,who grants & provides all with food & wealth May she protect her devotees giving them all things material on the earth



******

यस्त्वा देवि सरस्वत्युपब्रूते धने हिते । इन्द्रं न वृत्ततूर्ये ॥ ५ ॥

पदच्छेदः

यः त्वा देवि सरस्वति उपऽब्रूते धने हिते इन्द्रं न वृत्तऽतूर्ये ॥

अन्वयः

देवि सरस्वति यः वृत्रतूर्ये धने हिते इन्द्रं न त्वाम् उपब्रूते ॥

प्रतिपदार्थः

देवि = हे दानशीले, सरस्वति = हे सरस्वति, यः = स्तोत्रकर्त्ता, धने = अर्थे, हिते = निमित्तभूते (सति), वृत्ततूर्ये = युद्धे, इन्द्रं न = इन्द्रं इव​, त्वां = भवतीं, उपब्रूते = स्तोत्रं करोति, (तं रक्ष​) ॥

तात्पर्यम्

हे देवि सरस्वति, यः स्तोता संग्रामे धने निमित्तभूते सति इन्द्र इव त्वां स्तौति तं रक्ष ॥

हिन्दी

हे देवि सरस्वति, जो स्तोत्र करनेवाला व्यक्ति युद्ध में धन के निमित्त जैसे इन्द्र ने तुमारा स्तोत्र किया वैसे स्तोत्र करता है, उस की रक्षा करें ॥

विशेषः

१) उपब्रूते = वदति, अत्र स्तौति इत्यर्थः ।
२) इन्द्रं न = वेद में जहां सुबन्त के बाद "न​" आता है, वहां पर "न​" का अर्थ होगा "इव​" ।

ENGLISH

O Sarasvati, protect the invoker who invokes you for wealth like Indra invokes you during battle.

Translation by Ralph T.H.Griffith

Whoso, divine Sarasvatī, invokes thee where the prize is set,
Like Indra when he smites the foe.

Translation by Brahmasri Ganeshan @vezhamukhan


Hey Sarasvati protect whoso invokes You for wealth material 
As the Chief of Gods, Indra, sings Your hymns when he engages the demons in battle

*******


त्वं देवि सरस्वत्यवा वाजेषु वाजिनि । रदा पूषेव नः सनिम् ॥ ६ ॥

पदच्छेदः

त्वं देवि सरस्वति अव वाजेषु वाजिनि रद पूषाऽइव नः सनिम् ॥

अन्वयः

देवि वाजिनि सरस्वति त्वं वाजेषु अव नः पूषेव सनिं रद ॥

प्रतिपदार्थः

देवि = हे दानशीले, वाजिनि = हे बलयुक्ते अन्नयुक्ते वा, सरस्वति = हे सरस्वति, त्वं = भवती, वाजेषु = युद्धेषु, अव = रक्ष​, नः = अस्माकं, पूषेव = पोषक इव​, सनिं = धनं, रद = विलिख (प्रयच्छ​) ॥

तात्पर्यम्

हे सरस्वति बलवति (अन्नवति) दानशीले, युद्धेषु अस्मान् रक्ष । अस्माकं पोषयित्री इव अस्मभ्यं धनं प्रयच्छ ॥

हिन्दी

हे सरस्वति, बलयुक्ते, (आनवाली) दानशीले, युद्ध से हमारी रक्षा करें । हमारी पोषयित्री होकर हमें सम्पत्ति दें ॥

विशेषः

१) देवि = दानाद् देवी इति, तस्य संबोधनम् ।
२) वाजिनि = वाजः अन्नं बलं वा तद् अस्याम् अस्ति इति वाजिनी, तस्य सम्बोधनम् ।
३) रद विलेखने भ्वादिः परस्मैपदी सेट् सकर्मकः । धातूनाम् अनेकार्थत्वात् अत्र दानार्थः ।

ENGLISH

O Sarasvati, Giving-Natured, Powerful, protect us from battles. Being our nourisher give us wealth.

Translation by Ralph T.H.Griffith

Aid us, divine Sarasvad, thou who art strong in wealth and power
Like Pūṣan, give us opulence.

Translation by Brahmasri Ganeshan @vezhamukhan


O Devi Sarasvati, bestower of boons, personification of Strength 
Save us from all battles, mental & corporeal, and as Pushan give us wealth.


उत स्या नः सरस्वती घोरा हिरण्यवर्तिनिः । वृत्रघ्नी वष्टि सुष्टुतिम् ॥ ७ ॥

पदच्छेदः

उत स्या नः सरस्वती घोरा हिरण्य​ऽवर्तिनिः वृत्रऽघ्नी वष्टि सुऽस्तुतिम् ॥

अन्वयः

उत स्या सरस्वती घोरा हिरण्य​ऽवर्तिनिः वृत्रऽघ्नी नः सुऽस्तुतिं वष्टि ॥

प्रतिपदार्थः

उत = अपि च​, स्या = सा, सरस्वती = सरस्वती, घोरा = भयकारिणी, हिरण्यऽवर्तिनिः = स्वर्णमयरथयुता, वृत्र​ऽघ्नी = शत्रुनाशयित्री, नः = अस्मदीयां, सुऽस्तुतिं = समीचीनां स्तुतिं, वष्टि = इच्छतात् ॥

तात्पर्यम्

अपि च सा प्रसिद्धा सरस्वती शत्रूणां भयकारिणी स्वर्णमयरथा शत्रूणां नाशयित्री अस्मदीयां शोभनां स्तुतिं कामयताम् ॥

हिन्दी

और वह जो सरस्वती शत्रुओं की भयदात्री स्वर्ण रथवाली शत्रुओं की नाशयित्री हमरे अच्छी स्तुति की कामना करें ॥

विशेषः

१) हिरण्यवर्तिनिः = वर्तते अनेन इति वर्तनिः = रथः, हिरण्यः रथः यस्याः सा = हिरण्यवर्तनिः ।
२) वृत्रघ्नी = वृत्राणां हन्त्री = वृत्रघ्नी । वृत्राः अत्र शत्रवः ॥

ENGLISH

O Famous Sarasvati, terrible to enemies, having golden chariot, destroyer of enemies, wish for our good prayer.

Translation by Ralph T.H.Griffith

Yea, this divine Sarasvatī, terrible with her golden path,
Foe-slayer, claims our eulogy.

Translation by Brahmasri Ganeshan @vezhamukhan

That Sarasvati,who terrorize Demonic forces & their slayer 
On a golden car, may she kindle our best tributes to her for ever
Mighty River,Your boundless waters flow swift not meandering
Rushing brilliantly with a roar give water of life engendering


यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः । अमश्चरति रोरुवत् ॥

पदच्छेदः

यस्याः अनन्तः अह्रुतः त्वेषः चरिष्णुः अर्णवः अमः चरति रोरुवत् ॥

अन्वयः

यस्याः अमः अनन्तः अह्रुतः त्वेषः चरिष्णुः अर्णवः रोरुवत् चरति ॥

प्रतिपदार्थः

यस्याः = सरस्वत्याः, अमः = बलम्, अनन्तः = अपरिमितः, अह्रुतः = अकुटिलः, त्वेषः = दीप्तः, चरिष्णुः = चरणशीलः, अर्णवः = उदकयुक्तः, रोरुवत् = शब्दायमानः, चरति = वर्तते ॥

तात्पर्यम्

देव्याः सरस्वत्याः बलम् अपरिमितम् अकुटिलं दीप्तं चरणशीलम् उदकप्रदं शब्दं कुर्वद् वर्तते ॥

हिन्दी

देवी सरस्वती का बल अनन्त अकुटिल उद्दीप्त हमशा प्रसरणयुक्त उदक दातृ और शब्द करते हुए है ॥

विशेषः

१) अनन्तः = यस्य अन्तः नास्ति अपरिमितः च सः अनन्तः । नास्ति अन्तः यस्य = अनन्तः ।
२) अह्रुतः = अहिंसितः अकुटिलः वा । बलम् इत्यस्य विशेषणम् अकुटिलार्थः ।
३) त्वेषः = त्वेषस् इति सकारान्तः विशेष्यनिघ्नः । दीप्तः इत्यर्थः ।
४) चरिष्णुः = चर​-धातोः इष्णुच्-प्रत्यये रूपम् . चरणशीलः इत्यर्थः ।
५) अर्णवः = अर्णाम्सि (जलानि) सन्ति अस्मिन् इति अर्णवः = जलवान् इत्यर्थः, अर्थात् जलदाता इत्यर्थः ।
६) अमः = बलम् । अम गतौ इत्यस्मात् निष्पन्नः । गत्यर्थानां नानार्थत्वात् ।
७) रोरुवत् = अतिशयेन शब्दं कुर्वाणः ॥
एतस्याः ऋचः अग्रिमया ऋचा साकम् अन्वयः ॥

ENGLISH

The power of Sarasvati is immeasurable, non-zigzag, bright, always moving, and giver of waters that comes with roar. 

Translation by Ralph T.H.Griffith

Whose limitless unbroken flood, swift-moving with a rapid rush,
Comes onward with tempestuous roar.

Translation by Brahmasri Ganeshan @vezhamukhan

Mighty River,Your boundless waters flow swift not meandering
Rushing brilliantly with a roar give water of life engendering


सा नो विश्वा अतिद्विषः स्वसॄरन्या ऋतावरी । अतन्नहेव सूर्यः ॥९॥

पदच्छेदः

सा नः विश्वाः अति द्विषः स्वसॄः अन्याः ऋतावरी अतन् अह​ऽइव सूर्यः ॥

अन्वयः

सा नः विश्वाः द्विषः अति स्वसॄः ऋताव्री अन्याः सूर्यः अतन् अहेव ॥

प्रतिपदार्थः

सा = सरस्वती, नः = अस्मान्, विश्वाः = सर्वाः, द्विषः = द्वेषं धारयन्तीः प्रजाः, अति = तारयतु, स्वसॄः = साकम् उत्पन्नाः, ऋतावरीः = उदकयुक्ताः, अन्याः = इतराः नदीः, (अतितारयतु) । सूर्यः = आदित्यः, अतन् = गच्छन्, अहेव = दिवा इव (अतिनयतु) ॥

तात्पर्यम्

सा सरस्वती अस्मान् द्वेष्ट्रीः प्रजाः अतितारयतु, सा सर्स्वती स्वस्याभिः भगिनीभिः (गङ्गप्रभृतीभिः नदीभिः) साकम् अस्मान् अतितारयतु । यथा वा सूर्यः गच्छन् एव शीघ्रमेव दिवा अतिनयति तथा इयं सरस्वती अस्मान् अतिनयतु ॥

हिन्दी

यह सरस्वती हम लोगों को उद्धार करें । यह सरस्वती अपनी बहनों के साथ (गङ्गा आदि नदियों के साथ​) । जैसे सूरज चलते हुए दिवा को जलदी ही मिटा देता है वैसे यह सरस्वती हम लोगों को उद्धार करें ॥

विशेषः

१) अति = अत्र नयतु तारयतु इति क्रियापदानाम् अध्याहारः करणीयः ।
२) स्वसॄः = स्वयं सारिणीः सहोत्पन्ना वा इति सायणः ।
३) ऋतावरीः = ऋतम् इति उदकस्य नाम । ऋतावन् इत्यस्य स्त्रीत्व विवक्षायां वनो र च (४-१-७) इत्यनेन रेफादेशः ङीप् च । तेन ऋतावरी इति रूपम् । ऋतं = उअदकं, तद्युक्ता इत्यर्थः, अत्स्य द्वितीयाबहुवचने रूपम् ।

ENGLISH

May that Sarasvati make us to overcome our enemies. Let Sarasvati make us to overcome along with Her seven sisters (seven meters or seven rivers). Just as the Sun takes away the day quickly while moving, this Sarasvati take us.  

Translation by Ralph T.H.Griffith

She hath spread us beyond all foes, beyond her Sisters, Holy One,
As Sūrya spreadeth out the days.

Translation by Brahmasri Ganeshan @vezhamukhan

May you Sarasvati protect us whoever spites us, 
May we overcome with Her grace all our foes 
Overflowing to us along with Her sister rivers

May She take us along as quickly as the Sun the day giver

*******


उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत् ॥१०॥

पदच्छेदः

उत नः प्रिया प्रियासु सप्त​ऽस्वसा सुऽजुष्टा सरस्वती स्तोम्या भूत् ॥

अन्वयः

उत नः प्रियासु प्रिया सप्तस्वसा । सुजुष्टा । सरस्वती स्तोम्या भूत् ॥

प्रतिपदार्थः

उत = अपि च​, नः = अस्माकं, प्रियासु = प्रियाणां मध्ये, प्रिया = अतीव प्रिया, सपतस्वसा = गायत्र्यादीनि सप्त छन्दांसि स्वसारः यस्याः तादृशी अथवा गङ्गाद्याः सप्त नद्यः स्वसारः यस्याः सा तादृशी, सुजुष्टा = सुष्ठु सेविता, सरस्वती = तादृशी सरस्वती, स्तोम्या = स्तोतव्या, भूत् = भवतात् ॥

तात्पर्यम्

अस्माकं प्रीतिविषयासु या अत्यन्तं प्रिया, गायत्र्यादीनां सप्तानां छन्दसां सोदरी अथवा गङ्गादीनां सप्तानां नदीनां सोदरी, प्राचीनैः ऋषिभिः सेविता तादृशी सरस्वती अस्माभिः स्तूयते ॥

हिन्दी

हमारी प्रीतिपात्रों में अत्यन्त प्रियतमा, गायत्री आदि छन्दों की सोदरी या गङ्गा आदि सात नदियों की सोदरी, प्राचीन ऋषियों द्वारा सेवित​, वह सरस्वती हमारी स्तुति विषय हों ॥

विशेषः

१) सप्तस्वसा = सप्त स्वसारो यस्याः सा = सप्तस्वसा । अत्र सप्त सोदर्यः काः इति जिज्ञासायां द्वेधा समाधानं करोति सायणः । गायत्री-प्रभृतीनि सप्त छन्दांसि इति अथवा गङ्गा प्रभृतयः सप्त नद्यः इति ॥
२) सुजुष्टा = सुष्ठु सेविता । कैः इति जिज्ञासायां पुरातनैः ऋषिभिः इति । जुष हर्षे सेवायां च इति धातुः, तुदादिः आत्मनेपदी सेट् । हर्षे अकर्मकः, सेवार्थे सकर्मकः ।
३) स्तोम्या = स्तोतव्या । स्तोम श्लाघने चुरादिः परस्मैपदी सकर्मकः सेट् ॥

ENGLISH

Sarasvati is the most dearest among our beloved, is the sister of seven meters or rivers, prayed by the ancient seers and that Sarasvati is invoked by us.

Translation by Ralph T.H.Griffith

Yea, she most dear amid dear stream, Seven-sistered, graciously inclined,
Sarasvatī hath earned our praise.

Translation by Brahmasri Ganeshan @vezhamukhan

May Sarasvati,dearest of Rivers with sisters seven 
Most graceful as eulogized by Seers great even 

Be invoked with this hymn.

******


आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् । सरस्वती निदस्पातु ॥११॥

पदच्छेदः

आऽपप्रुषी पार्थिवानि उरु रजः अन्तरिक्षं सरस्वती निदः पातु ॥

अन्वयः

पार्थिवानि उरु रजः अन्तरिक्षम् आपप्रुषी सरस्वती निदः पातु ॥

प्रतिपदार्थः

पार्थिवानि = पृथिवीसम्बन्धीनि, उरु = विस्तीर्णानि, रजः = लोकान्, अन्तरिक्षं = नभः, आपप्रुषी = पूरितवती (स्वतेजसा), सरस्वती = तादृशी सरस्वती, निदः = निन्दां कुर्वतः शत्रोः, पातु = रक्षतु ॥

तात्पर्यम्

पृथिव्यां वर्तमानान् लोकान् अन्तरिक्षं च स्वतेजसा पूरितवती । तादृशी सरस्वती अस्मान् अस्माकं निन्दां कुर्वतः शत्रोः रक्षतु ॥

हिन्दी

इस भूमि पर वास करने वाले लोग और अन्तरिक्ष इन दोनों को अपनी तेजस से पूर्ण करती है सरस्वती । उस प्रकार की सरस्वती हमें अपने निन्दक शत्रुवों से रक्षा करें ॥

विशेषः

१) पार्थिवानि = पृथिव्यां भवं, तानि = पार्थिवानि, मनिष्यादयः ।
२) उरु = ऊर्णौति इति उरु । महान्, विपुलं, विस्तीर्णं, विशालम् इत्याद्यर्थाः ।
३) निदः = निद कुत्सायां नेदति इति निदः = निन्दकः ॥

ENGLISH

Sarasvati filled with her brilliance the Earth and the Sky. That kind of Sarasvati may protect us from the enemies who censure us.

Translation by Ralph T.H.Griffith

Guard us from hate Sarasvatī, she who hath filled the realms of earth,
And that wide tract, the firmament!

Translation by Brahmasri Ganeshan @vezhamukhan

May Sarasvati, who fills Earth & the wide Sky with her brilliance 
Save us all from our enemies’ abhorrence


*******

त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । वाजेवाजे हव्या भूत् ॥१२॥

पदच्छेदः

त्रिऽसधस्था, सप्त​ऽधातुः, पञ्च​, जाता, वर्धयन्ती, वाजेऽवाजे, हव्या, भूत् ॥

अन्वयः

त्रिऽसधस्था, सप्त​ऽधातुः, पञ्च​, जाता, वर्धयन्ती, वाजेऽवाजे, हव्या, भूत् ॥

प्रतिपदार्थः

त्रिषशस्था = त्रिषु लोकेषु व्याप्ता, सप्तधातुः = सप्तभिः अवयवैः युक्ता (गायत्र्यादिभिः छन्दोभिः, गङ्गादिभिः नदीभिः वा), पञ्च जातानि = निषादान्तवर्णपञ्चकं गन्धर्वादीन् वा, वर्धयन्ती = संवर्धनं कुर्वती, वाजेवाजे = युद्धे युद्धे (सर्वेषु युद्धेषु), हव्या = ह्वातव्या, भूत् = भवति ॥

तात्पर्यम्

सरस्वती त्रिलोकव्यापिनी सप्तभिः गायत्र्यादिभिः छन्दोरूपैः गङ्गादिभिः अवयवैः पञ्च अपि वर्णान् ब्राह्मण​-क्षत्रिय​-वैश्य​-शूद्र​-निषादान् संवर्धयन्ती वर्तते । तादृशी सरस्वती प्रतियुद्धं ह्वातव्या भवति ॥

हिन्दी

सरस्वती त्रिलोकों में व्याप्त​, गायत्री आदि छन्दों रूप अवयवों से या गङ्गा आदि नदी रूप अवयवों से ब्राह्मण क्षत्रिय वैश्य शूद्र और निषाद पांच वर्णों को संवर्धन करती है ।  उस प्रकार की सरस्वती को हर युद्ध में आमन्त्रण करना है ॥

विशेषः

१) त्रिषधस्था = त्रिषु सधस्था = त्रिषधस्था । सह तिष्ठति इति सधस्था । अर्थात् त्रिषु लोकेषु सहावतिष्ठमाना = त्रिलोकव्यापिनी इति ।
२) सप्तधातुः = सप्त धातवः यस्याः सा = सप्तधातुः सरस्वत्याः विशेषणम् इदम् । धातुः अत्र अवयववाची । अत्र सायणः द्वेधा अर्थं दर्शयति । गायत्र्यादीनि सप्त छन्दांसि अवयवाः यस्याः सा इति, गङ्गाद्याः सप्त नद्यः अवयवाः यस्याः सा इति च ।
३) पञ्च जाता = पृथक् पृथक् पदम् । जाता = जातानि द्वितीयाबहुवचनस्य रूपम् । अत्र के ते पञ्च इति जिज्ञासायां ब्राह्मण​-क्षत्रिय​-वैश्य​-शूद्र​-निषादाः पञ्च । तान् पञ्च अपि अभिवर्धयन्ती वर्तते सरस्वती ।
४) भूत् = भवति, लटि प्रथमा-एकवचने लकारव्यत्ययः छान्दसः ॥

ENGLISH

Sarasvati is present in the three world, and nurtures five social institutions via Brahmana, Ksatriya, Vaishya, Shudra and Nishada with her seven sisters (meters or rivers). That kind of Sarasvati should be invoked in every action of might.  

Translation by Ralph T.H.Griffith

Seven-sistered, sprung from threefold source, the Five Tribes' prosperer, she must be
Invoked in every deed of might.

Translation by Brahmasri Ganeshan @vezhamukhan

She who is omnipresent in the three worlds, has seven sisters 
In the seven metres of prosody and the seven holy rivers
Sustainer of the five classes in the societal order 
Be invoked in every battle or deed for being our warder


*****

प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।
रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥१३॥

पदच्छेदः

प्र या महिम्ना महिना आसु चेकिते द्युम्नेभिः अन्याः अपसाम् अपःऽतमा रथःऽइव बृहती विऽभ्वने कृता उपऽस्तुत्या चिकितुषा सरस्वती ॥

अन्वयः

महिम्ना महिना द्युम्नेभिः आसु या प्र चेकिते अन्याः अपसाम् अपस्तमाः रथः इव विभ्वने बृहती कृता सरस्वती चिकितुषा उपस्तुत्या ॥

प्रतिपदार्थः

महिम्ना = महत्त्वेन​, महिमा = महती, द्युम्नेभिः = यशोभिः अन्नैः वा, आसु = आसां मध्ये, या = सरस्वती, प्र = प्रकर्षेण​, चेकिते = ज्ञायते, अन्याः = या च अन्यासाम् , अपसां = वेगयुक्तानाम्, अपस्तमा = वेगवत्तमा, रथ इव = या च रथः इव​, विभ्वने = विभुत्वाय​, बृहती = महती, कृता = निर्मिता, सरस्वती = सा सरस्वती, ज्ञातवता स्तोत्रकर्त्रा, उपस्तुत्या = उपस्तोतव्या ॥

तात्पर्यम्

महत्त्वेन महती, यशोभिः अन्नैः वा देवतानां नदीनां च मध्ये या सरस्वती प्रकर्षेण ज्ञायते, या च सरस्वती अन्यासां वेगयुक्तानां मध्ये अत्यन्तं वेगवती, या च सरस्वती रथः इव विभुत्वाय महती निर्मिता सा सरस्वती जानता स्तोत्रकर्त्रा उपस्तोतव्या ॥

हिन्दी

अपने महत्त्व से बडी, कीर्ति से या अन्न से देवताओं या नदीयों में से प्रकृष्ट रूपसे जानी जाती है, जो कि इतर वेगयुक्ताओं में से अत्यन्त वेगयुक्ता, और जो सरस्वती रथ जैसे विभुत्व केलिए महती निर्मित हुई है वह सरस्वती जानने वाले स्तोत्रकर्ताओं के द्वारा स्तोत्र करनेवाली है ॥

विशेषः

१) प्र उपसर्गः प्रकर्षार्थः ।
२) महिना = महती ।
३) चेकिते = ज्ञायते ।
४) द्युम्नेभिः = द्योतमानैः (यशोभिः अन्नैः वा) इत्यर्थः ।
५) अपसाम् = आप इत्यस्मात् असुन्-प्रत्ययः ह्रस्वः च​, तेन अपस् इति रूपम् । जलव्द्वेगयुक्ता इत्यभिप्रायः । तथा च वेगयुक्तानाम् इत्यर्थः । अपस्तमाः इत्यस्य अपि अनेन एव वेगवत्तमाः इत्यर्थः लभ्यते ।

ENGLISH

Majesty among the majesties, is well known among the Gods and Rivers by fame or food, the most rapid among the rapid streams, and created huge for power like a chariot. That Sarasvati should be invoked by the knower invoker.  

Translation by Ralph T.H.Griffith

Marked out by majesty among the Mighty Ones, in glory swifter than the other rapid Streams, Created vast for victory like a chariot, Sarasvatī must be extolled by every sage.

Translation by Brahmasri Ganeshan @vezhamukhan

Magnificent among majestic Gods & Rivers by your repute & victuals 
Rapidest among rapid Riverways, created powerful like a chariot subtle 
May every realized soul invoke Sarasvati, to sing her mettle


*******

सरस्वत्यभि नो नेषी वस्यो माप स्फरीः पयसा मान आ धक् ।
जुषस्व न सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥१४॥

पदच्छेदः

सरस्वति अभि नः नेषी वस्यः मा अप स्फरीः पयसा मा नः आ धक् जुषस्व न सख्या वेश्या च मा त्वत् क्षेत्राणि अरणानि गन्म ॥

अन्वयः

सरस्वति नः वस्यः अभि नेषी मा अप स्फरीः । पयसा नः मा आ धक् । नः सख्या वेश्या च जुषस्व । त्वत् अरणानि क्षेत्राणि मा गन्म ॥

प्रतिपदार्थः

सरस्वति = हे सरस्वति, नः = अस्माकं, वस्यः = धनम्, अभि नेषी = अभिप्रापय, मा अप स्फरी = समृद्धिहीनान् मा कार्षीः । पयसा = उदकेन​, नः = अस्मान्, मा आ धक् = मा अभिदह । नः = अस्माकं, सख्या = सख्यानि, वेश्या = प्रवेशनानि, च = अपि, जुषस्व = सेवस्व । त्वत् = तव सकाशात्, अरणानि = अरमणीयानि, क्षेत्राणि = भूमिं, मा गन्म = न प्राप्नुयाम ॥

तात्पर्यम्

हे सरस्वति, अस्मभ्यं प्रशस्तं धनं प्रापय, अस्मान् समृद्धिहीनान् मा कुरु । अधिकोदकेन प्रवाहादिना अस्मान् मा पीडय । अस्माकं मैत्रीं सेवस्व । भवत्याः उत्तमं क्षेत्रं वयं प्राप्नुयाम ॥

हिन्दी

हे सरस्वति, हमें प्रशस्त धन दें, हमें समृद्धि से वञ्चित न रखें । ज्यादा पानी से हमें कष्ट न दें । हमारी मैत्री को स्वीकार करें । आप से हम अच्छी भूमि को प्राप्त करें ॥

विशेषः

१) वस्यः = वसीयः अर्थात् प्रशस्तं वसु ।
२) स्फरीः = सामृद्धिः, उपसर्गयोगात् विपरीतार्थं निर्दिशति (अप स्फरीः) असमृद्धिः इति तद्विशिष्टान् ।
३) पयसा = अत्र उदकवाची, तेन पीडा इत्युक्ते अतिजलेन प्रवाहादिना जायमाना पीडा उच्यते ।
४) अरणानि = अरमणानि । अरमणम् इत्यस्य अरणम् इति रूपम् । पृषोदरादित्वात् साधु । अर्थात् निकृष्टम् इति ॥

ENGLISH

O Sarasvati! give us magnificent wealth. Do not make us non-wealthier. Do not make us suffer by excess-waters (floods). Accept our friendship. Let us get good land.

Translation by Ralph T.H.Griffith

Guide us, Sarasvatī, to glorious treasure: refuse us not thy milk, nor spurn us from thee. Gladly accept our friendship and obedience: let us not go from thee to distant countries.

Translation by Brahmasri Ganeshan @vezhamukhan

Lead us to righteous wealth, not deprive us of due prosperity 
May we not suffer from floods, let us make friends with you our deity
O Sarasvati, bestower of all things good, grant us nice landed property

*******


*** Meaning is given following Sayanacharya’s commentary.

No comments: