Thursday, May 7, 2015

गुरुवायुपुरेशसुप्रभातम् - ७

गुरुवायुपुरेशसुप्रभातम् - ७

तव सुप्रभातमरविन्दकोरकस्फुरदुन्मिषद्रुचिरदीर्घलोचन ।
करुणामृतोल्लसदपाङ्गसन्तते गुरुवायुमन्दिरपते जगत्पते ॥

पदच्छेदः

तव, सुप्रभातम्, अरविन्दकोरकस्फुरदुन्मिषद्रुचिरदीर्घलोचन, करुणामृतोल्लसदपाङ्गसन्तते, गुरुवायुमन्दिरपते, जगत्पते ॥

अन्वयः

अरविन्दकोरकस्फुरदुन्मिषद्रुचिरदीर्घलोचन करुणामृतोल्लसदपाङ्गसन्तते गुरुवायुमन्दिरपते जगत्पते तव सुप्रभातम् ॥

प्रतिपदार्थः

अरविन्दकोरकस्फुरदुन्मिषद्रुचिरदीर्घलोचन = पद्मकलिकातुल्यकम्पमानविकसित-मनोहर​-आयतनेत्र​, करुणामृतोल्लसदपाङ्गसन्तते = दयारूपम् अमृतं तेन स्फुरितः नेत्रयोः कोणः तस्य परम्परया युक्त​, गुरुवायुमन्दिरपते = गुरुवायुदेवालयनायक​, जगत्पते = लोकनाथ, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

तात्पर्यम्

पद्मकुड्मलसदृशचलद्विकसितमनोहर​-आयतनेत्र, दयारूप​-अमृतेन स्फुरितचक्षुष्कोण-परम्पर​, गुरुवायुदेवालयनायक​, लोकनाथ तव सुप्रभातं व्याहरामः ॥

हिन्दी

पद्म कलिका के तुल्य चल और विकसित रमणीय दीर्घ आंखोंवाले, करुणा रूप अमृत से स्फुरित नेत्रमणि वाले, गुरुवायु मन्दिर के नायक​, हे लोक नाथ​, आप को शुभ प्रभात कहते हैं ॥

विशेषः

१) अरविन्दकोरकस्फुरदुन्मिषद्रुचिरदीर्घलोचन = अरविन्दस्य कोरकं (कोरकं कोरकः इति पुंसि क्लीबे च "कोरकोऽस्त्री" विश्वकोशात्, कलिका इत्यर्थः) अरविन्दकोरकं, तत्सदृशं स्फुरदुन्मिषद्रुचिरदीर्घलोचने = अरविन्दकोरकस्फुरदुन्मिषद्रुचिरदीर्घलोचने, अरविन्दकोरकस्फुरदुन्मिषद्रुचिरदीर्घलोचने यस्य सः = अरविन्दकोरकस्फुरदुन्मिषद्रुचिरदीर्घलोचनः । दीर्घे च लोचने च दीर्घलोचने, स्फुरद् उन्मिषद् रुचिरं च = स्फुरदुन्मिषद्रुचिरं, ते च दीर्घलोचने = स्फुरदुन्मिषद्रुचिरदीर्घलोचने ।
२) करुणामृतोल्लसदपाङ्गसन्तते = करुणा एव अमृतम् = करुणामृतम्, तेन उल्लसदपाङ्गसन्ततिः = करुणामृतोल्लसदपाङ्गसन्ततिः । अपाङ्गः = अपाञ्चति तिर्यक् गच्छति नेत्रं यत्र इति अपाङ्गः = नेत्रयोः अन्तर्भागः (नेत्रकोणः), सन्ततिः = ततिः अर्थात् परम्परा । करुणामृतोल्लसदपाङ्गसन्ततिः (स्त्रीलिङ्गम्) यस्य सः = करुणामृतोल्लसदपाङ्गसन्ततिः (अत्र पुंसि वर्तते) बहुव्रीहौ कृते श्रीकृष्णपरत्वात् पुमान् ।
३) गुरुवायुमन्दिरपते = गुरुवायुमन्दिरस्य पतिः = गुरुवायुमन्दिरपतिः ।
४) जगत्पते = जगतः = लोकस्य पतिः नाथः = जगत्पतिः ॥


ENGLISH
(TRANSLATION BY THE GREAT SCHOLAR & LINGUIST BRAHMASRI GANESHAN @vezhamukhan)

Lotus-like eyes that are wide and long so 
You cover everyone in the world With the nectar of Your boundless grace and mercy, 
Lord of the world
Presiding over this Guruvayur Shrine Oh Krishna, we bow to You at day’s dawn


******

No comments: