Tuesday, May 5, 2015

गुरुवायुपुरेशसुप्रभातम् - ३

गुरुवायुपुरेशसुप्रभातम् - ३

भक्तोत्तंसैर्मधुरमधुरं भट्टपादैः प्रणीतम्
भक्त्या सार्धं शरणद हरे नाथ नारायणीयम्।
भक्ता गायन्त्यभिनवपयोदाभ हे पङ्कजाक्ष
श्रीकान्त श्रीगुरुमरुदागारेश ते सुप्रभातम् ॥

पदच्छेदः

भक्तोत्तंसैः, मधुरमधुरं, भट्टपादैः, प्रणीतं, भक्त्या, सार्धं, शरणद, हरे, नाथ, नारायणीयं,
भक्ता, गायन्ति, अभिनवपयोदाभ, हे, पङ्कजाक्ष,,स्, श्रीगुरुमरुदागारेश, ते, सुप्रभातम् ॥

अन्वयः

भक्तोत्तंसैः भट्टपादैः भक्त्या सार्धं मधुरमधुरं नारायणीयं प्रणीतम् । भक्ताः गायन्ति । हे शरणद हरे नाथ अभिनवपयोदाभ पङ्कजाक्ष श्रीकान्त श्रीगुरुमरुदागारेश ते सुप्रभातम् ॥

प्रतिपदार्थः

भक्तोत्तंसैः = भक्तभूषणैः, भट्टपादैः = श्रीनारायणभट्टपादैः, भक्त्या = भगव्ति अनुरागेण​, सार्धं = सह​, मधुरमधुरं = मधुराद् अपि मधुरं, नारायणीयं = नारायणीयं नाम भगवत्स्तुतिपरं काव्यं, प्रणीतं = विरचितम् । भक्ताः = भागवताः (तत्), गायन्ति = स्तुवन्ति । हे शरणद = हे शरणप्रदातः, हरे = विष्णो, नाथ = नाथ​, अभिनवपयोदाभ = नूतनमेघस्य कान्तियुक्त​, पङ्कजाक्ष = कमलनेत्र​, श्रीकान्त = लक्ष्मीप्रिय​, श्रीगुरुमरुदागारेश = श्रीगुरुपवनपुरेश​, ते = तव​, सुप्रभातं = शुभप्रातं (व्याहरामि) ॥


तात्पर्यम्

भक्ताग्रेसरैः श्रीनारायणभट्टतिरिमहाभागैः सभक्ति मधुरादपि मधुरं नारायणीयं रचितम् । तच्च भक्ताः सदा गायन्ति । हे शरणप्रद​, हरे, नाथ​, नूतनमेघकान्तियुक्त​, पद्मनेत्र​, लक्ष्मीकान्त​, श्रूगुरुपवनपुराधीश ! सुप्रभातं ते व्याहरामि ॥

हिन्दी

भक्तों में अग्रगण्य श्री नारायण भट्ट नाम के महाविद्वान् भक्ति के साथ अत्यन्त मधुर नारायणीयं नाम काव्य की रचना की । वह काव्य तो हमेशा भक्त गाते रहते हैं । हे शरणागतों का आश्रय देनेवाले, विष्णो, नाथ​, नूतन मेघ जसे कान्ति युक्त​, कमलनेत्र​, लक्ष्मी के प्रिय​, श्रीगुरुवायूर्-क्षेत्र के अधीश​, आप को सुप्रभात हो ॥

विशेषः

१) भक्तोत्तंसैः = भक्तेषु उत्तंसः (= भूषणं) भक्तोत्तंसः, तैः ।
२) मधुरमधुरं = मधुराद् मधुरम्, अर्थाद् अत्यन्तमधुरम् ।
३) शरणद = शरणं ददातीति शरणदः, अर्थात् शरणगतानाम् आश्रयदाता ।
४) अभिनवपयोदाभ = अभिनवः पयोदः (=मेघः) = अभिनवपयोदः, तस्य आभा इव आभा यस्य सः = अभिनवपयोदाभः, नूतनमेघतुल्यकान्तियुक्तः ।
५) पङ्कजाक्ष = पङ्कज इव अक्षिणी यस्य सः = पङ्कजाक्षः, कमलनेत्रः ।
६) श्रीकान्त = श्रियः (लक्ष्म्याः) कान्तः (प्रियः) = श्रीकान्तः ।
७) गुरुमरुदागारेश = गुरुः च मरुत् च = गुरुमरुतौ, तयोः आगारः (पुरं) गुरुमरुदागारः, तस्य ईशः = गुरुमरुदागारेशः, अर्थात् गुरुवायुपुरेशः गुरुवायूरप्पन् इति ॥

ENGLISH
(Translation by Scholar and Linguists Brahmasri Ganeshan @vezhamukhan)

Naryana Bhattatri, gem of a devotee-scholar
Sang paeans soaked in honey on you,
Protector Acclaimed as ‘Narayaneeyam’ that everyone chants
Of your refugees to get anything they want
Hey Krishna, Lotus-eyed Vishnu, You are the Lord 2
Of all living creatures, resplendent like rising clouds
Spouse of ever-prosperous Lakshmi , we remain bowed
Rise up to protect us from Guruvayur your earthly abode

Sarvesham Shubham BhooyAt

*******

No comments: