Friday, May 1, 2015

गुरुवायूर्-पुरेशसुप्रभातम्

पश्यामानुग्रहात्ते वयमतिसुभगं विग्रहं तावकीनम् 
श्रीधात्रीकान्त विष्णो गुरुपवनपुराधीश ते सुप्रभातम्॥

पदच्छेदः

पश्याम​, अनुग्रहात्, ते, वयम्, अतिसुभगं, विग्रहं, तावकीनं, श्रीधात्रीकान्त​, विष्णो, गुरुपवनपुराधीश​, ते सुप्रभातम् ॥

अन्वयः

ते अनुग्रहात् तावकीनम् अतिसुभगं विग्रहं पश्याम । (हे) श्रीधात्रीकान्त विष्णो गुरुपवनपुराधीश ते सुप्रभातम् ॥

प्रतिपदार्थः

ते = तव​, अनुग्रहात् = आनुकूल्येन​, तावकीनं = त्वदीयम्, अतिसुभगं = अत्यन्तशोभन​-ऐश्वर्ययुक्तं (सुदृश्यं), विग्रहं = (कलेवरं) मूर्तिं, पश्याम = अवलोकयाम । श्रीधात्रीकान्त = (हे) श्रीमत्याः धात्र्याः (यशोदायाः, श्रीराधायाः, देवक्याः, भूमिदेव्याः वा) प्रिय​, विष्णो = (सर्वत्र व्याप्तत्वात्) व्यापक परमेश्वर​, गुरुपवनपुराधीश = गुरुवायूर्-पुरस्य ईश्वर​, ते = तव​, सुप्रभातम् = शुभं प्रभातम् ।

विशेषः

१) सुभगः = द्वितीयाविभक्तौ सुभगम् । सुष्ठु भगः (ऐश्वर्यम्) यस्य सः = सुभगः = शोभन​-ऐश्वर्ययुक्तः) । सुष्ठु भगं (माहात्म्यम्) यस्य सः = समीचीनमाहात्म्ययुक्तः । सुष्ठु श्रीः यस्य सः = सुदृश्यः = अतीव दर्शनीयः इति वा ॥
२) पश्याम = दृश्-धातोः लोट् लकारे उत्तमपुरुषबहुवचनम् ॥
३) श्रीधात्रीकान्तः = सम्बोधने श्रीधात्रीकान्त ! इति । धीयते (पीयते) अनया इति करणे धात्री अर्थात् या जन्मदात्री न​, परन्तु पोषिका सा उपमाता, सा च श्रीकृष्णस्य यशोदा एव । अथवा दधाति धरति इति धात्री = सा च माता अत्र देवकी इति । अथवा दधाति धरति (हृदये प्रेम्णा) इति धात्री = श्रीराधा इति । अथवा दधाति धारयति सर्वम् इति धात्री, सा च भूमिदेवी, या च विष्णोः पत्नीषु अन्यतमा तस्या कान्तः प्रियः इति ॥

तात्पर्यम्

तव अनुग्रहात् अतिसुन्दरं त्वदीयं शरीरं पश्याम । हे यशोदाप्रिय​, विष्णो, गुरुपवनपुरस्य अधीश​, तव सुप्रभातं (व्याहरामः) ।

हिन्दी

आप के अनुग्रह से अत्यन्त सुन्दर आप की मूर्ति को देखते हैं । हे यशोदा के प्रिय​, विष्णु, गुरुपवनपुर के ईश​, आप का सुप्रभात करते हैं ।

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

Your benedictions make us witness your handsome divine form Beloved son of Yashoda and consort of many with your charm
Hey Vishnu dwelling in the deity of Guruvayur, here is the morn!

*******

No comments: