Wednesday, May 6, 2015

गुरुवायुपुरेशसुप्रभातम् - ५

गुरुवायुपुरेशसुप्रभातम् - ५

निर्माल्यभूषणविभूषितगात्रलक्ष्मीरुन्मील्य नेत्रयुगलं करुणारसार्द्रम् ।
शर्मप्रदो भव भवामयपीडितानां श्रीमारुताधिप हरे तव सुप्रभातम् ॥

पदच्छेदः

निर्माल्यभूषणविभूषितगात्रलक्ष्मीः, उन्मील्य, नेत्रयुगलं, करुणारसार्द्रं, शर्मप्रदः, भव, भवामयपीडितानां, श्रीमारुताधिप, हरे, तव, सुप्रभातम् ॥

अन्वयः

निर्माल्यभूषणविभूषितगात्रलक्ष्मीः करुणारसार्द्रं नेत्रयुगलं उन्मील्य भवामयपीडितानां शर्मप्रदः भव श्रीमारुताधिप हरे तव सुप्रभातम् ॥

प्रतिपदार्थः

निर्माल्यभूषणविभूषितगात्रलक्ष्मीः = निर्माल्यदर्शनकालिक​-अलङ्कारैः विभूषितशरीरलक्ष्मीकः, करुणारसाद्रं = दयारूपरसेन सिक्तं, नेत्रयुगलं = नेत्रद्वयं, उन्मील्य = उद्घाट्य​, भवामयपीडितानां = संसाररोगेण दुःखितानां, शर्मप्रदः = सुखदाता, भव = भवतात्, श्रीमारुताधिप = श्रीवायुक्षेत्रस्य ईश्वर​, हरे = विष्णो, तव = तुभ्यं, सुप्रभातं = सुप्रभातं (व्याहरामः) ॥

तात्पर्यम्

प्रभाते निर्माल्यम् इति विशेषदर्शनं भगवतः भवति, तस्मिन् काले पूर्वदिवसस्य​ विविधैः अलङ्कारैः विभूषितशरीरश्रीकः तव दयारूपरसैः सिक्तं नेत्रद्वयम् उद्घाट्य संसाररोगेण दुःखितेभ्यः सुखदाता भव । हे वायुक्षेत्रस्य ईश्वर विष्णो तुभ्यं सुप्रभातं व्याहरामः ॥

हिन्दी

प्रभात वेला में भगवान् गुरुवायूर् में विराजमान श्रीकृष्ण का विशेष दर्शन होता है, जिस का नाम है निर्माल्य । इस निर्माल्य दर्शन के समय पहले दिन में पहनाये गये विविध अलङ्कारों से विभूषित होकर शरीर की कान्ति से विराजमान भगवान् अपने करुणारस से पूर्ण नेत्रों को खोलकर संसार रोग से पीडितों का सुखप्रद हो । हे गुरुवायूर्-क्षेत्र के ईश्वर विष्णो आपका सुप्रभात कहते हैं ॥

विशेषः

१) निर्माल्यभूषणविभूषितगात्रलक्ष्मीः = निर्माल्यस्य भूषणं = निर्माल्यभूषणं, तेन विभूषितं = निर्माल्यभूषणविभूषितं, ताः = निर्माल्यभूषणविभूषिताः, गात्रस्य लक्ष्म्यः = गात्रलक्ष्म्यः, निर्माल्यभूषणविभूषिताः गात्रलक्ष्म्यः यस्य सः = निर्माल्यभूषणविभूषितगात्रलक्ष्मीः । अत्र लक्ष्मी: इति एकवचनान्तेन बहुव्रीहिसमासे क्रियमाणे तस्य रूपं "नद्यृतश्च​" (५-४-१५३) इति सूत्रेण तथा "उरःप्रभृतिभ्यः कप्" (५-४-१५१) इति सूत्रेण च नित्यं कप्-प्रत्यये "निर्माल्यभूषणविभूषितगात्रलक्ष्मीकः" इत्येव भवति । "निर्माल्यभूषणविभूषितगात्रलक्ष्मी:" इति न सिद्ध्यति । अतः "उरःप्रभृतिभ्यः कप्" इति उरःप्रभृतिगणे "लक्ष्मीः" इति एकवचनरुपस्य ग्रहणात्, एकवचने एव नित्यं कप् द्विवचन​-बहुवचनयोः विकल्पेन कप् इति सूत्रार्थः शास्त्रसम्मतः । तस्मात् "निर्माल्यभूषणविभूषिताः गात्रलक्ष्म्यः यस्य सः = निर्माल्यभूषणविभूषितगात्रलक्ष्मीः" इति बहुवचनेन साकं बहुव्रीहिः आश्रीयते । तेन " निर्माल्यभूषणविभूषितगात्रलक्ष्मीः" इति रूपं पुंसि एकवचने सिद्धम् ॥
२) शर्मप्रदो = प्रददाति इति प्रदः, शर्मणः (सुखस्य​) प्रदः = शर्मप्रदः । शर्म सुखम् इत्यमरः ।
३) भवामयपीडितानां = भवः = संसारः, संसाररूपः आमयः (रोगः) संसारामयः, तेन पीडिताः, तेषां = संसारामयपीडितानाम् ।

ENGLISH
(Translation by the Great Scholar and Linguist Brahmasri Ganeshan @vezhamukhan)

Hey Krishna, blessed are those to have the first sight of your divine form In the early hours each day they get to see your ‘Nirmaalya’ charms
Of all the decorations done to your idol on the previous night Your bodily form shines with illumination bright
Opening your eyes you bestow your graceful sight On your devotees killing all their ills of life with your divine might!

Om tat sat, sarvam Krishnaarpanam astu!
******


No comments: