Thursday, May 7, 2015

गुरुवायुपुर​सुप्रभातम् - ६

गुरुवायुपुर​सुप्रभातम् - ६

तव सुप्रभातमुरगेन्द्रभोगतः स्वयमुत्थितातिकमनीयविग्रह ।
कमलाचलाकलितपार्श्वयुग्म हे गुरुवायुमन्दिरपते जगत्पते ॥

पदच्छेदः

तव सुप्रभातम् उरगेन्द्रभोगतः स्वयमुत्थितातिकमनीयविग्रह कमलाचलाकलितपार्श्वयुग्म हे गुरुवायुमन्दिरपते जगत्पते ॥

अन्वयः

उरगेन्द्रभोगतः स्वयमुत्थितातिकमनीयविग्रह कमलाचलाकलितपार्श्वयुग्म हे गुरुवायुमन्दिरपते जगत्पते तव सुप्रभातम् ॥

प्रतिपदार्थः

उरगेन्द्रभोगतः = सर्पराजशरीरात्, स्वयमुत्थितातिकमनीयविग्रह = स्वयमेव उत्थित​-अतिरमणीयमूर्ते, कमलाचलाकलितपार्श्वयुग्म = लक्ष्मी-भूदेवीभ्याम् आवृतपार्श्वद्वय​, हे गुरुवायुमन्दिरपते = हे गुरुवायुदेवालयनायक​, जगत्पते = लोकनाथ​, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

तात्पर्यम्

सर्पराजस्य शरीरात् (पर्यङ्कात्) स्वयमेव उत्थित, रमणीयशरीर, पार्श्वद्वये लक्ष्मी-भूदेवीभ्यां आवृत, गुरुवायुदेवालयनायक, हे लोकनाथ, तव सुप्रभातं व्याहरामः ॥

हिन्दी

आदिशेष रूप पर्यङ्क से अपने आप उठे हुए अतिसुन्दर शरीर युक्त​, दोनों तरफ लक्ष्मी और भूदेवी से आवृत गुरुवायु मन्दिर के नायक हे लोक नाथ आप को सुप्रभात कहते हैं ॥

विशेषः

१) उरगेन्द्रभोगतः = उरगः = सर्पः, इन्द्रः = नाथः, उरगस्य इन्द्रः = उरगेन्द्रः । अनन्त नामा सर्पराजः इति ।
२) स्वयमुत्थितातिकमनीयविग्रह = स्वयम् (आत्मना) उत्थितः = स्वयमुत्थितः, अतिकमनीयः (अतिसुन्दरः) विग्रहः = अतिकमनीयविग्रहः, स्वयमुत्थितः च अतिकमनीयविग्रहः च = स्वयमुत्थितातिकमनीयविग्रहः । अत्र प्रकारन्तरेण समस्तपदद्वयरूपेण अपि भवितुम् अर्हति । भक्तेभ्यः दर्शनदानोत्सुकेन स्वयमुत्थितः श्रीकृष्णः, न केनचिद् उत्थापितः । एतेन भगवतः सौलभ्यं कारुण्यं च निर्दिष्टं भवति ।
३) कमलाचलाकलितपार्श्वयुग्म = कमला (लक्ष्मीः) च अचला (भूमिः) च कमलाचले, ताभ्यां कलित(बद्धं)पार्श्वयुग्मं यस्य सः = कमलाचलाकलितपार्श्वयुग्मः । अर्थात् एकस्मिन् पार्श्वे लक्ष्मीः, अपरस्मिन् पार्श्वे भूदेवी च विराजते यस्य तादृशः ।
४) गुरुवायुमन्दिरपते = गुरुवायुमन्दिरस्य पतिः = गुरुवायुमन्दिरपतिः ।
५) जगत्पते = जगतः = लोकस्य पतिः नाथः = जगत्पतिः ॥


ENGLISH
(TRANSLATION BY THE GREAT SCHOLAR & LINGUIST BRAHMASRI GANESHAN @vezhamukhan)

Risen on Your own from the bed of AdiSesha, the huge serpent 
In Your handsomest form with Lakshmi & Bhoodevi embracing You ardent

Our good morning has begun with You to bless us all, Oh Lord of all people fervent

******

No comments: