Tuesday, May 12, 2015

गुरुवायुपुरेशसुप्रभातम् - १३

गुरुवायुपुरेशसुप्रभातम् - १३

त्वत्सोदर्या निरुपमकृपापूरपूर्णान्तरङ्ग्या
वात्येश्वर्या निजतनयवत्पालितो लालितश्च ।
स्वीयभ्रातुः सविधमुपनीतोऽस्म्यहं पूर्वमेव
श्रीकान्त श्रीगुरुमरुदगारेश ते सुप्रभातम् ॥

पदच्छेदः

त्वत्सोदर्या, निरुपमकृपापूरपूर्णान्तरङ्ग्या, वात्येश्वर्या, निजतनयवत्, पालितः, लालितः, , स्वीयभ्रातुः, सविधम्, उपनीतः, अस्मि, अहं, पूर्वम्, एव, श्रीकान्त, श्रीगुरुमरुदगारेश, ते, सुप्रभातम् ॥

अन्वयः

त्वत्सोदर्या, निरुपमकृपापूरपूर्णान्तरङ्ग्या, वात्येश्वर्या, निजतनयवत्, पालितः, लालितः, , पूर्वम्, एव, अहं, स्वीयभ्रातुः, सविधम्, उपनीतः, अस्मि, श्रीकान्त, श्रीगुरुमरुदगारेश, ते, सुप्रभातम् ॥

प्रतिपदार्थः

त्वत्सोदर्या = तव भगिन्या, निरुपमकृपापूरपूर्णान्तरङ्ग्या = असदृशदयापूर्णहृदययुक्तया, वात्येश्वर्या = वत्येश्वरी नाम्न्या, निजतनयवत् = स्वीयपुत्र इव, पालितः = रक्षितः, पोषितः च = संवर्धितः अपि । पूर्वम् एव = प्राग् एव​, अहं = अहं (कविः), स्वीयभ्रातुः = निजसोदरस्य​, सविधं = पार्श्वे, उपनीतः = प्रापितः, अस्मि = वर्ते । श्रीकान्त = लक्ष्मीप्रिय​, श्रीगुरुमरुदगारेश = श्रीबृहस्पति-वायु-पुराधीश​, ते = तव, सुप्रभातं = शुभप्रभातं (व्याहरामि) ॥

तात्पर्यम्

प्राग् एव निजसोदरेण उपनीतः अहं (कविः) तव भगिन्या अतुलनीयदयापूर्णहृदययुक्तया वात्येश्वर्या स्वपुत्र इव रक्षितः संवर्धितः च । तादृशः अहं हे लक्ष्मीप्रिय​, श्रीगुरुवायुपुराधीश तव शुभप्रभातं व्याहरामि । कविः अनेन श्लोकेन वक्तुम् इच्छति - अहं तव सेवायै एव तव सोदर्या पालितः पोषितः च​, तथा मम सोदरेण उपनीतः (समीपं नीतः अथवा यज्ञोपवीतसंस्कारेण नीतः), तादृशः अहं तव सुप्रभातं व्याहरामि इति ॥

हिन्दी

आप की बहन वात्येश्वरी ने अपने हृदय में अतुलनीय करुणा के साथ मेरा पालन और पोषण किया और पहले ही मेरे भाई जी ने मुझे अपने पास ले गये (उपनयन संस्कार करके) । उस प्रकार आप की सेवा के लिए ही पोषित और उपनीत मैं आप का शुभ प्रभात कहता हूं ॥

विशेषः


१) अस्मिन् श्लोके कविः स्वीयग्रामदेवतां श्रीकृष्णस्य सोदरीरूपेण वर्णयति स्मरति च । कवेः ग्रामः चुळलीनामकः, तस्य संस्कृते वात्यापुरी इति । तस्य ग्रामस्य अधिष्ठात्री देवता वात्येश्वरी इति । वात्या इत्यस्य अर्थः भवति वातानां समूहः अर्थात् वायुदेवता इति । पाशादिभ्यो यः (४-२-४८) इति सूत्रेण पाशादिगणे वात​-शब्दस्य पठितत्वात् समूहः इत्यस्मिन् अर्थे य​-प्रत्ययः भवति, तेन वातानां समूहः = वात्या इति रूपम् । अत्र वात्या इति स्त्रीलिङ्गं लोकात् । श्रीकृष्णः वायुना गुरुवायुपुरे प्रतिष्ठापितः । इयं वात्येश्वरी अपि वात्यया प्रतिष्ठापिता ईश्वरी = वात्येश्वरी, शाकपार्थिवः इव पूर्वपदस्योत्तरपदलोपसमासः । वात्याप्रतिष्ठापिता ईश्वरी इत्यत्र प्रतिष्ठापिता इत्यस्य लोपे वात्या+ईश्वरी इति स्थिते गुणे वात्येश्वरी इति रूपम् । तथा च श्रीकृष्णः वात्येश्वरी इत्युभौ अपि वायुना प्रतिष्ठापितौ, अतः श्रीकृष्णस्य सोदरी वात्येश्वरी इति फलति । तादृशत्वत्सोदर्या बा ल्ये अहं (कविः) पालितः पोषितः च तव (श्रीकृष्णस्य​) सेवायै इति तात्पर्यम् ।
२) स्वीयभ्रातुः सविधम् उपनीत अस्मि अहम् इत्यनेन अर्थद्वयं प्राप्यते । आद्यः सामान्यः अर्थः मम भ्रात्रा उपनीतः = नीतः इति । द्वितीयः च उपनीतः = उपनयनसंस्कारेण मम भ्रात्रा संस्कृतः इति ।
३) निरुपमकृपापूरपूर्णान्तरङ्ग्या = निर्गता उपमा यस्मात् = निरुपमा, निरुपमा च कृपा = निरुपमकृपा, तया पूरः = निरुपमकृपापूरः, तेन पूर्णं = निरुपमकृपापूरपूर्णम्, निरुपमकृपापूरपूर्णम् अन्तरङ्गं यस्याः सा = निरुपमकृपापूरपूर्णान्तरङ्गी, तया इति । इदं वात्येश्वर्या इत्यस्य विशेषणम् ।
४) वात्येश्वर्या = वात्याप्रतिष्ठापिता इश्वरी, तया ।
५) निजतनयवत् = निजः (स्वकीयः) तनयः = निजतनयः, निजतनयः इव = निजतनयवत् ।

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

How fortunate I am to sing Your day’s morning hymn Brought here by my brother after ceremonies solemn From my village Vatyapuri protected by your divine Sister VatyeSvari
Who has bestowed incomparable grace as a child on me Fit that She is established there as the Goddess of Wind
And You here, her brother, as the Lord of Guruvayoor, always in my mind


******

No comments: