Sunday, May 31, 2015

वात्यापुरेश्वरीसुप्रभातम् - ११

वात्यापुरेश्वरीसुप्रभातम् - ११


एवं स्वभक्तजनपालनजागरूकां देवोपदेवपरिवारयुतां भवानीम् ।
नत्वैव यान्ति सुजनाः परमं पदं ते वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

पदच्छेदः

एवं, स्वभक्तजनपालनजागरूकां, देवोपदेवपरिवारयुतां, भवानीं, नत्वा, एव​, यान्ति, सुजनाः, परमं, पदं, ते, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥

अन्वयः

एवं, स्वभक्तजनपालनजागरूकां, देवोपदेवपरिवारयुतां, भवानीं, नत्वा, एव​, ते, सुजनाः, परमं, पदं, यान्ति, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥

प्रतिपदार्थः

एवं = इत्थं क्रमेण​, स्वभक्तजनपालनजागरूकां = निजभक्तानां रक्षणे तत्परां, देवोपदेवपरिवारयुतां = प्रधानदेवैः उपदेवैः च परिवृतां, भवानीं = भवस्य पत्नीं, नत्वा = प्रणम्य​, एव = ही, ते = तदृशाः, सुजनाः = भक्तलोकाः, परमं = उत्तमं, पदं = स्थानं, यान्ति = अधिगच्छन्ति । वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

विशेषः

१) स्वभक्तजनपालनजागरूकां = स्वभक्तजनपालने जागरूका । जागुरूकः (३-२-१६५) इति सूत्रेण जागृ निद्राक्षये (अदादिः अकर्मकः परस्मैपदी सेट्) इति धातोः ऊक​-प्रत्यये जागरूकः इति रूपम् ।
२) देवोपदेवपरिवारयुतां = देवाः उपदेवाः च = देवोपदेवाः, तेषां परिवारः = देवोपदेवपरिवारः, तेन युता = देवोपदेवपरिवारयुता, ताम् ।
३) भवानी = भस्य (शिवस्य​) पत्नी = भवानी । इन्द्र​-वरुण​-भव​-शर्व​-रुद्र..(४​-१-४९) इति सूत्रेण भवशब्दात् आनुक् ङीष् च, तेन भवानी इति 

तात्पर्यम्

भक्तानां रक्षणे सदा एव तत्परा देवताभिः उपदेवैः च समन्विता भवस्य शिवस्य पत्नी वर्तते दुर्गा । इमां प्रणम्य एव भक्ताः परमं पदं (मोक्षाख्यं कैवल्यं) गच्छन्ति । हे वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥

हिन्दी

भक्तों की रक्षा करने में सदैव तत्परा देव और उपदेवों से समन्वित भव यानि शिव जी कीपत्नी है यह दुर्गा । इस प्रकार के दुर्गा को प्रणाम करके ही भक्त लोक मोक्ष प्राप्त करते हैं । हे वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥

ENGLISH

(Translation by Brahmasri Ganeshan @vezhamukhan)

You are always engaged in protecting Your devotees numerousSurrounded by other Gods & demi-gods You are the holy consort of Siva, the Auspicious Knowing Your true stature, VatyapureSvari, Your devotees pray and attain salvationHey benign Mother taking the form of our Village Deity in Vatyapuri here is our morning hymns

(Translation by Muddassir Ahmad @muddassirahmad7)

Thus by bowing down before (You) The one ever-alert to protect her devotees; The one surrounded by gods and demigods; The consort of ever-existing (Shiva), the virtuous people achieve the supreme rank,(so) O Lady of Vātyapura,the Benignant! Good Morning to you!

******

No comments: