Friday, May 29, 2015

वात्यापुरेश्वरीसुप्रभातम् - ९

वात्यापुरेश्वरीसुप्रभातम् - ९


निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते ।
पानोत्सुके महिषमर्द्दिनि भीमनादे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥ 

पदच्छेदः


निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते, पानोत्सुके, महिषमर्द्दिनि, भीमनादे, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥ 


अन्वयः


निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते, पानोत्सुके, महिषमर्द्दिनि, भीमनादे, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥ 


प्रतिपदार्थः


निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते = अखिलदेववृन्दैः उद्गच्छदपरिमेयज्योतिर्विशेषस्य सम्यक् पुष्टः अत्याश्चर्यभयानकमूर्तियुक्ते, पानोत्सुके = रक्षणाय उत्कण्ठिते, महिषमर्द्दिनि = महिषनामकस्य असुरस्य वधकर्त्री, भीमनादे = भीष्मशब्दयुते, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

विशेषः


१) निश्शेषदैवतगणोद्यदमेयतेजःपुञ्जैक्यसम्भृतमहाद्भुतरौद्रमूर्त्ते = देवता एव दैवतं।तः स्वार्थे अण् । निश्शेषः (अखिलः) दैवतः, तस्य गणः = निश्शेषदैवतगणः, उद्यत् (उद्गच्छत्) अमेयतेजःपुञ्जैक्यं, तेन सम्भृता महाद्भुतरौद्रमूर्तिः, तस्य सम्बोधनम् ।
२) पानोत्सुके = पाने (रक्षणे) उत्सुका (उत्कण्ठिता) = पानोत्सुका, तस्य सम्बोधनम् । पा रक्षणे इत्यस्माद् धातोः भावे ल्युट्-प्रत्यये रूपम् ।
३) महिषमर्द्दिनि = महिषस्य (असुरविशेषस्य​) मर्द्दिनी, तस्य सम्बोधनम् ।
४) भीमनादे = भीमः नादः यस्याः सा = भीमनादा, तस्य सम्बोधनम् ।


तात्पर्यम्


सकलदेवैः अनुभूता कान्तिसमूहस्य महदाश्चर्ययुक्ता भयानकरूपयुक्ता भवती सर्वेषां रक्षणे उत्कण्ठिता भयङ्करशब्दयुक्ता महिषासुरस्य वधकर्त्री च वर्तते । हे वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥


हिन्दी


सभी देव् गणों द्वारा अनुभूत कान्ति से युक्त अत्यन्त आश्चर्यजनक भयानक ध्वनिवाली सब के रक्षण करनेवाली महिषासुर की वध करनेवाली हे वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥


ENGLISH

(Translation by Brahmasri Ganeshan @vezhamukhan)

Endowed with the radiance of all divine powers and with a roar that is a wonderment Slaying the great demon Mahisha so to protect all in the three worlds & firmament 
Now residing here as VatyapreSvai, benign Mother, we sing your morning praise in fulfilment!

(Translation by Muddassir Ahmad @muddassirahmad7)

Endowed with majesty of entire multitude of divinities, O greatly marvelous fierce-form!
O the one ever-ready to protect! O Slayer of Mahisha! O one with terrific sound!
O Lady of Vātyāpura, the Benignant! Good morning to you!

*******

No comments: