Friday, May 29, 2015

वात्यापुरेश्वरीसुप्रभातम् - ८

वात्यापुरेश्वरीसुप्रभातम् - ८


त्वं देववृन्दमहितस्तुतिगीतहृष्टा तं धूम्रलोचनमहो रणदुष्प्रधर्षम् ।
हुङ्कारतोऽथ चकृषे भसितं जवेन वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥


पदच्छेदः
त्वं, देववृन्दमहितस्तुतिगीतहृष्टा, तं, धूम्रलोचनम्, अहो, रणदुष्प्रधर्षं, हुङ्कारतः, अथ, चकृषे, भसितं, जवेन​, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥

अन्वयः
देववृन्दमहितस्तुतिगीतहृष्टा त्वम् अथ रणदुष्प्रधर्षं धूम्रलोचनं तं हुङ्कारतः अहो जवेन भसितं चकृषे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

प्रतिपदार्थः
देववृन्दमहितस्तुतिगीतहृष्टा = देवैः पूजिता स्तुतिभिः गीतैः च आनन्दिता, त्वं = भवती, अथ = ततः, रणदुष्प्रधर्षं = युद्धे हिंसितुम् अशक्यं, धूम्रलोचनं = धूम्रलोचननामकम् असुरं, तं = तादृशं, हुङ्कारतः = तव हुङ्करणेन​, जवेन = सद्यः (वेगेन​), भसितं = भस्मीकरणं, चकृषे = कृतवती,  वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

विशेषः

१) देववृन्दमहितस्तुतिगीतहृष्टा = महितं (पूजनं) स्तुतिः गीतं च = महितस्तुतिगीतानि, देववृन्दानां महितस्तुतिगीतानि = देववृन्दमहितस्तुतिगीतानि, तैः हृष्टा = देववृन्दमहितस्तुतिगीतहृष्टा, देवानां पूजनेन स्तुतिभिः गीतैः च सन्तुष्टा इत्यर्थः ।
२) धूम्रे लोचने यस्य सः = धूम्रलोचनः, शुम्भनामकस्य असुरस्य सेनापतिः एषः ।
३) रणदुष्प्रधर्षं = रणे दुष्प्रधर्षं = रणदुष्प्रधर्षम् । दुःखेन प्रधर्षः = दुष्प्रधर्षः ।
४) हुङ्कारतः = हुम् इति अव्यक्तशब्दस्य कारः = हुङ्कारः, तस्मात् = हुङ्कारतः, पञ्चम्यर्थे तसिः । 
५) भसितं = भस दीप्तौ अथवा भस भक्षणे इत्यस्मात् धातोः क्त​-प्रत्यये रूपं, भस्म इत्यर्थः । "गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ" "दापयेत्प्रोक्षणीपात्रे भसितं प्रणवेन च"  इत्यादयः प्रयोगाः द्रष्टव्याः ।
६) धूम्रलोचननामकस्य असुरस्य वधं चकार दुर्गा । यदा शुम्भः स्वसेनापतिं दुर्गायाः केशान् आकृष्य आनय इत्यादिष्टवान् तदा सः सेनापतिः धूम्रलोचनः दुर्गाम् उक्तवान् भवती स्वतः आगच्छतु अन्यथा अहं केशान् आकृष्य बलाद् नयामि इति । तदा दुर्गा तं धूम्रलोचनं स्वीयेन हुङ्कारेण एव भस्म कृतवती । तदुपाख्यानं यथा - तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः । वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥ स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् । जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥ न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति । ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥ दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः । बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥ इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः । हुङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥ (दुर्गासप्तशती अध्यायः - ६)

तात्पर्यम्

भवती देवैः पूजिता स्तुता सती दूम्रलोचनं नामकं युद्धे जेतुम् अशक्यम् असुरं स्वीयेन हुङ्कारेण एव भस्म कृतवती । हे वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥

हिन्दी

हे गुर्गे आप देवों के द्वारा पूजिता, स्तुता होकर धूम्रलोचन नामक युद्ध में पराक्रमी असुर का वध अपने हुङ्कार से ही किया । वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥

ENGLISH

(Translation bu Brahmasri Ganeshan @vezhamukhan)

Hey Durga, when Shumbha ordered his General to fetch You, worshipped & eulogized by the GodsYou reduced that demon. Dhoomralochana to ashes with a roar from your vocal chords VatyapureSvari, You vanquish even the most invincible, rise as we sing the morning prayers adored


(Translation by Muddassir Ahmad @muddassirahmad7)

You, worshiped by chorus of gods; pleased by hymns and songs, then reduced that Dhūmralochana, ah! the one untouchable in battle, into ashes merely by an impulsive roar! O Lady of Vātyapura, the Benignant! Good Morning to you!

*********

No comments: