Sunday, May 10, 2015

गुरुवायुपुरेशसुप्रभातम् - ९

गुरुवायुपुरेशसुप्रभातम् - ९

नानोद्गीतिप्रसृमरसुधास्यन्दिवक्त्रारविन्दं
सूनूत्थानप्रथितयशसं विप्रवर्यं कदाचित् ।
भक्तश्रेष्ठं सकरुणमहो पालयामासिथ त्वं
श्रीकान्त श्रीगुरुमरुदगारेश ते सुप्रभातम् ॥

पदच्छेदः

नानोद्गीतिप्रसृमरसुधास्यन्दिवक्त्रारविन्दं, सूनूत्थानप्रथितयशसं, विप्रवर्यं, कदाचित्, भक्तश्रेष्ठं, सकरुणम्, अहो, पालयामासिथ, त्वं, श्रीकान्त, श्रीगुरुमरुदगारेश, ते, सुप्रभातम् ॥

अन्वयः 

नानोद्गीतिप्रसृमरसुधास्यन्दिवक्त्रारविन्दं, सूनूत्थानप्रथितयशसं, भक्तश्रेष्ठं, विप्रवर्यं, कदाचित्, सकरुणम्, अहो, त्वं, पालयामासिथ । श्रीकान्त​, श्रीगुरुमरुदगारेश, ते, सुप्रभातम् ॥

प्रतिपदार्थः

नानोद्गीतिप्रसृमरसुधास्यन्दिवक्त्रारविन्दं = विविधभक्तिगीतेभ्यः प्रसृत​-अमृत​-स्रावैः युक्तं मुखपद्मयुक्तं, सूनूत्थानप्रथितयशसं = श्रीकृष्णं पुत्ररूपेण प्राप्तहर्षेण प्रसिद्धकीर्तिमन्तं, भक्तश्रेष्ठं = भक्ताग्रगण्यं, विप्रवर्यं = ब् राह्मणश्रेष्ठं, कदाचित् = कस्मिन् चित् काले सकरुणं = दयया साकं, त्वं = भवान्, पालयामासिथ = रक्षितवान्, अहो = हन्त ! श्रीकान्त = लक्ष्मीप्रिय​, श्रीगुमरुदगारेश = श्रीगुरुवायुपुराधीश​, ते = तव​, सुप्रभातं = शुभप्रभातं, (व्याहरामः) ॥

तात्पर्यम्

अत्र काचिद् घटना गुरुवायूर्-मन्दिरे घटिता स्मर्यते कविना । कदाचित् कश्चन ब्राह्मणः "पून्तनम्" नामकः (AD 1547 – 1640) विवाहात् परं सन्ततिम् अप्राप्य गुरुवायुपुरेशं श्रीकृष्णं ध्यायति स्म । तत्फलतः सः १५८६ तमे वर्षे पुत्रं प्राप्तवान् । सः पुत्रप्राप्तिमहोत्सवम् अनुष्ठातुं सर्वान् आमन्त्रितवान् । परन्तु उत्सवदिने तस्य पुत्रः दैवात् मृतः । एषः पून्तनम् गुरुवायूर् गत्वा पुत्रशोकेन भगवन्तं श्रीकृष्णं स्तौति स्म । तस्मिन् एव समये श्रीनारायणभट्टतिरि अपि स्वरोगनिवारणाय तत्र आगतवान् । क्रमशः पून्तनम् श्रीकृष्णं ध्यायन् अनुभवति स्म स्वहृदये भगवान् श्रीकृष्णः क्रीडति इति । तदा तस्य मति अभवत् - सति श्रीकृष्णे पुत्रत्वेन किमर्थम् अहं पुत्रशोकेन पीडितः अस्मि । ततः प्रभृति सः तत्रैव मन्दिरे स्थित्वा भगवतः स्तुतिरूपेण स्तोत्राणि मलयालभाषया रचयन् ९० वर्षपर्यन्तं सजीवनं यापितवान् । सा कथा अत्र स्मर्यते कविना । तेन भाषाकर्णामृतम्, आनन्दकर्णामृतम् इति कृतीः अपि रचितवान् । तादृशं ब्राह्मणं भवान् रक्षितवान्, हे कृष्ण तव शुभप्रभातं व्याहरामः ॥

हिन्दी

इस श्लोक में एक घटना का स्मरण करते हैं कवि । एक बार पून्तनम् नामक एक ब्राह्मण विवाह बाद सन्तति को न पाकर श्रीकृष्ण का ध्यान करके एक पुत्र को प्राप्त किया । परन्तु उस पुत्र के जन्म पर आयोजित महोत्सव के दिन उस पुत्र का देहान्त हो गया था । इस से अत्यन्त दुःखित होकर पून्तनम् गुरुवायूर्-मन्दिर जाकर भगवान् की उपासना करता था । कुछ समय के बाद उस ब्राह्मण को यह अनुभव हुआ कि भगवान् कृष्ण उस के हृदय में नित्य वास करते है और खेल रहे है । इस से उसका दुःख दूर हुआ और सोचा कि श्रीकृष्ण मेरे पुत्र के रूप में रहते हुए मैं क्यों रो रहा हूं । उस के बाद वह अपने मृत्यु तक उसी मन्दिर में रहकर भक्ति स्तोत्र काव्य रचाकर अपना जीवन यापन किया था । उस ने भाषाकर्णामृतम्, आनन्दकर्णामृतम् आदि कृतियां मलयालम् भाषा मे रची । उस प्रकार पून्तनम्-ब्राह्मण पर कृपा करनेवाले हे कृष्ण​, आप को शुभ प्रभात कहते हैं ॥

विशेषः

१) नानोद्गीतिप्रसृमरसुधास्यन्दिवक्त्रारविन्दं = (नाना=विविधं​, उद्गीति=भक्तिगीतं, प्रसृमर​=स्रवत्, सुधा=अमृतं, स्यन्दि=निस्सरत्, वक्त्रारविन्दं=वदनपद्मयुक्तं) इदं "विप्रवर्यम्" इत्यस्य विशेषणम् । बहुव्रीहिसमासः
२) सूनूत्थानप्रथितयशसं = सूनोः (पुत्रस्य​) उत्थानं = हर्षः = सूनूत्थानम्, प्रथितं यशः = प्रथितयशः, सूनूत्थानेन प्रथितयशः यस्य सः = सूनूत्थानप्रथितयशाः, तं = सूनूत्थानप्रथितयशसम् । पुत्ररूपेण श्रीकृष्णं प्राप्य तेन हृष्टः, तेन यस्य यशः प्रथितं सः ।
३) विप्रवर्यं = विप्रेषु वर्यः, अथवा विप्रः च वर्यः च =विप्रवर्यः, तं विप्रवर्यम् । ब्राह्मणश्रेष्ठम् इत्यर्थः ।
४) सकरुणम् = करुणया सह ।
५) पालयामासिथ = पाल रक्षणे (चुरादिः सकर्मकः सेट् उभयपदी) लिट् लकारः मध्यमपुरुष​-एकवचनम् । पालयामासिथ​, पालयामासथुः, पालयामास इति मध्यमपुरुषे रूपाणि ॥


ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

You restored the poor Brahman Poonthanam’s faith Having obtained a son by sheer penance by you saith The son dying .premature, You live in his heart as his son
All his life at your abode sang only Your paean In mellifluous Malayalam that are true to their name
Nectar-like they bring lasting happiness & fame This the great poet Narayana Bhattatri also witnessed Whilst he himself recovered from his illness By singing the unparalleled Narayaneeyam The very essence of the epic poem Bhagavatam Hey Krishna, consort of Sree, here You give us another day with a glorious morn!


******

No comments: