Monday, May 25, 2015

वात्यापुरेश्वरीसुप्रभातम् – ६

वात्यापुरेश्वरीसुप्रभातम् – ६

दैत्यारिकर्णमलजौ मधुकैटभौ तौ दृष्ट्वाऽशु कातरधिया कमलासनेन
दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम्

पदच्छेदः

दैत्यारिकर्णमलजौ मधुकैटभौ तौ दृष्ट्वा आशु कातरधिया कमलासनेन दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम्

अन्वयः

दैत्यारिकर्णमलजौ तौ मधुकैटभौ दृष्ट्वा कमलासनेन कातरधिया आशु दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम्

प्रतिपदार्थः

दैत्यारिकर्णमलजौ = विष्णोः श्रोत्राद् उत्पन्नमलाद् उत्पन्नौ, तौ = तौ द्वौ, मधुकैटभौ = मधु-कैटभनामानौ, दृष्ट्वा = अवलोक्य​, कमलासनेन = ब्रह्मणा, कातरधिया = भयबुद्ध्या, आशु = झटिति, दिव्यैः = श्रेष्ठैः, स्तवैः = स्तोत्रैः, परिणुते = वन्दिते, हरियोगनिद्रे = विष्णोः योगनिद्रास्वरूपिणि, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभ्प्रभातं (व्याहरामः)

विशेषः

) दैत्यारिकर्णमलजौ = दैत्यारिः = विष्णुः (दैत्यानाम् अरिः), कर्णस्य (कर्णयोः) मलं = कर्णमलं, दैत्यारेः कर्णमलं = द्ऐत्यारिकर्णमलं, तस्मात् जातौ = दैत्यारिकर्णमलजौ
) मधुकैटभौ = मधुः कैटभः = मधुकैटभौ एतौ असुरविशेषौ एतौ द्वौ असुरौ विष्णोः कर्णमलात् जातौ इति पुराणकथा एतौ उत्पन्नौ विष्णोः नाभिकमले आसीनं ब्रह्माणं हन्तुम् उद्यतौ तदानीं भगवान् योगनीद्रां परित्यज्य तौ जघनभागे संस्थाप्य नाशितवान् इति श्रूयते तद्यथा मार्कण्डेयपुराणे - योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते आस्तीर्य्य शेषमभजत् कल्पान्ते भगवान् प्रभुः तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ इति विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभाविति इति देवीमाहात्म्ये श्रूयते यदा एतौ ब्रह्माणं हन्तुम् उद्यतौ तदा ब्रह्मा भीत्या आत्मनः रक्षणाय हरेः योगनिद्रारूपेण विद्यमानां त्वां दिव्यैः स्तोत्रैः स्तुतवान् तेन एव सः रक्षितः
) हरियोगनिद्रे = हरेः (विष्णोः) योगनिद्रा = हरियोगनिद्रा, तस्य सम्बोधनम् हरे योगनिद्रारुपिणी दुर्गा वात्यापुरेश्वरी इति तात्पर्यम्
) कातरधिया = कातरः भीतिः अधैर्यं वा कातरधीः = भीतिबुद्धिः तया
) कमलासनेन = कमलम् आसनं यस्य सः = कमलासनः, तेन ब्रह्मा इत्यर्थः

तात्पर्यम्

पुरा विष्णोः कर्णमलाद् द्वौ असुरौ मधु-कैटभनामानौ उत्पन्नौ तौ ब्रह्माणं हन्तुम् उद्यतौ तदा ब्रह्मा भीत्या विष्णोह् योगनिद्रारूपिणीं दुर्गाम् (वात्यापुरेश्वरीं) स्तुतवान् तेनैव ब्रह्मा रक्षितः ब्रह्मणः रक्षणकर्त्री वात्यापुरेश्वरी वर्तते हे ईश्वरि, भद्रे, तव शुभप्रभातम् व्याहरामः, त्वम् उत्तिष्ठ

हिन्दी

पुरा विष्णु के कान के मल से मधु और कैटभ नाम के दो असुर जन्म लिए वे दोनों जब ब्रह्मा की हत्या करने के लिए तत्पर हुए, तब ब्रह्मा ने डर से विष्णु की योगनिद्रारूपिणी दुर्गा की स्तुति की   वही योगनिद्रा ब्रह्मा को बचाया ऐसी ब्रह्मा को बचानेवाली हे वात्यापुरेश्वरि, भद्रे, आप का शुभ प्रभात कहते हैं, आप उठो

(Translation by Brahmasri Ganeshan @vezhamukhan)


(Translation by Muddassir Ahmad @muddassirahmad7)

Upon seeing those two demons,named Madhu and Kaiṭabha, risen from earwax of Hari, the demons' foe the lotus-seated Brahmā, with fear, immediately evoked you with divine hymns,O meditative slumber of Hari! (Oh protector of that Brahmā!), Lady of Vātyapuri, the Benignant! Good Morning to you!


******

No comments: