Tuesday, February 3, 2015

चाटु श्लोक

चाटु श्लोक


यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
यस्याहं च द्वितीया स्याद् द्वितीया स्यामहं कथम् ॥

यस्य = पुरुषस्य (वरस्य​), विहस्य च विहाय च = एतौ शब्दौ, षष्ठी चतुर्थी च स्यात् = विहस्य इति षष्ठी, विहाय इति चतुर्थी भवेत्; यस्य = पुरुषस्य (वरस्य​) अहं च = अहम् इति शब्दः अपि, द्वितीया स्यात् = द्वितीया विभक्तिः भवेत्, तस्य = तादृशस्य पुरुषस्य (वरस्य​), कथं = केन प्रकारेण​, अहं = या इमं श्लोकं वदति सा, द्वितीया = पत्नी, स्याम् = भवेयम् ॥

जो पुरुष विहस्य और विहाय इन दोनों शब्दों को षष्ठी और चतुर्थी समझता है, अहम् शब्द को द्वितीया समझता है, उस की मैं कसे पत्नी बन सकती हूं । अर्थात् उन दिनों में लडकियां इतनी पढी लिखी थी वे मूर्ख से विवाह करना नहीं चाहती थीं ।

विहस्य और विहाय ये दोनों अव्यय हैं । इस के रूप नहीं चलते है । और अहम् यद्यपि म्-में अन्त होता है फिरभी वह प्रथमपुरुष​-एकवचन का रूप है । इस सामान्य बात को भी जो नहीं समझता है उस की पत्नी कैसे बन सकती हूं -ऐसा तात्पर्य ह्ऐ ।

Who does not know that विहस्य and विहाय are indeclinable and who says that अहम् is the declension of Singular of द्वितीया विभक्तिः; how can I become his wife (द्वितीया)?


This shows that in those days girls are also highly educated and they excelled boys in studies.

********

4 comments:

Sudarshan HS said...

अद्भुतश्श्लोकः !
धन्यावादाः एतं सव्याख्यानं प्रदर्शनाय ।

Unknown said...

I didn't know meaning of sloka clearly.can you help me ?

Unknown said...

सुन्दर श्लोक

Unknown said...

समीचीनम्