॥ शब्दः नादः साम च ॥
"नाच्छन्दसि
वाग्गुच्चरति" "छन्दोबद्धमिदं सर्वं वाङ्मयम्" इत्यादीनि श्रूयन्ते
। न काचिद् वाक् विना छन्दः निस्सरति । अत एव "छन्दः पादौ तु वेदस्य"
इत्युक्तम् । अर्थात् गद्यं पद्यमिति पादद्वयमिति । तथा च प्रथमं छन्दोबद्धम्
अपौरुषेयं वाङ्मयं वेदः । अत एव ऋग्वेदस्य परस्तात् गानरूपता सामगानरूपेण दृश्यते
। यद्यपि साम संहिता एव अपौरुषेयत्वेन परिगण्यते, न सामगानं तथापि
अतिप्राचीनकाले एव गानप्रक्रिया समारब्धा इति तु निश्चप्रचम् । ऋचामेव गानं
सामवेदे दृश्यते । यद्यपि काश्चन मूलमन्त्राः सामवेदमात्रनिष्ठाः (८८ मन्त्राः)
सन्ति, तथापि ऋचामेव प्राधान्यम् । तासां ऋचाम् गानप्रकारः चतुर्धा
भवति ग्रामगेयगानं, आरण्यगेयगानम्, ऊहगानम्, ऊह्यगानमिति भेदेन । एतानि सर्वाण्यपि शब्दस्य नादत्वेन
परिणामं निर्दिशन्ति । शब्दः नादात्मकः एव । यः कश्चित् शब्दः नादरूपेण एव वर्तते
यदि श्रोता सुष्ठु अवदधीत । जीवनस्य प्रतिक्षणं श्रूयमाणः शब्दः (स्फोटरूपः)
नादताम् एव भजते । अत एव उक्तं शिशोः प्रारम्भिकभाषा अपि नादरूपेण इति । अत एव
नादः इति शब्दः नद शब्दे इति धातोः नोष्पन्नः इति मन्यते । शब्दः नादः भवति ।
यद्यपि "कण्टमन्ये तु घोषाः स्युः संवृता नादमागिनः" इति वर्णविशेषाः
नादत्वेन परिगणिताः, तथापि तत्र नाद इति बाह्यप्रयत्नः उक्तं न तु सामान्यः
शब्दः । अत एव उक्तं शारदातिलके उक्तं - "सच्चिदानन्दविभवात् सकलात्
परमेश्वरात् । आसीच्छक्तिस्ततो नादस्तस्माद्विन्दुसमुद्भवः । नादो विन्दुश्च
वीजञ्च स एव त्रिविधो मतः । भिद्यमानात् पराद्विन्दोरुभयात्मारवोऽभवत् । स रवः
श्रुतिसम्पन्नः शब्द ब्रह्माऽभवत् परम् ॥" इति । एवञ्च सर्वोऽपि शब्दः
नादरूपः एव । तस्य मूलमुच्यते यथा - नाभेरूर्द्धं हृदि स्थानान् मारुतः
प्राणसंज्ञकः । नदति ब्रह्मरन्ध्रन्ते तेन नादः प्रकीर्त्तितः ॥" इति ।
ब्रह्मरन्ध्रस्य नदनेन नादः उच्यते । सर्वोऽपि शब्दः यदि नादरूपः तर्हि नादेन विना
गानादि अपि भावितुं नार्हति । तदुक्तं - "न नादेन विना गीतं न नादेन विना
स्वरः । न नादेन विना रागस्तस्मान्नादात्मकं जगत् ॥" इति । एतस्य निदर्शनमेव
साम । तत्र ग्रामगेयमिति प्राकृतिकगीतं यच्च सर्वैः गीयते । आरण्यगेयमिति अरण्ये
गेयं गीतम् । ग्रामगेयगानमाश्रित्य ये प्रगाथाः भवन्ति तानि एव ऊहागाननाम्ना
व्यवह्रियन्ते । ये च आरण्यगेयमाश्रित्य भवन्ति ते ऊह्यगाननाम्ना व्यवह्रियन्ते ।
एतानि गानानि नादमाश्रित्य प्रवर्तन्ते । शबरस्वामी (भाष्यकारः) शब्दस्य जन्यत्वेन
नादं मन्यते "कर्णशष्कुलीमण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः
संयोगविभागैर्नैरन्तर्येण अनेकशो ग्रहणात् महान् इव अवयववानिवोपलभ्यते, संयोगविभागाः नैरन्तर्य्येण क्रियमाणाः शब्दमभिव्यञ्जयन्तो नादशब्दवाच्याः ।
तेन नादस्यैषा वृद्धिः न शब्दस्येति" इति । भर्तृहरिः अपि शब्दजन्यतामेव
नादस्य ऊरीकरोति । अतः शब्द एव नादरूपेण परिणतिं प्राप्नोति इति सिद्धम् ॥
******
No comments:
Post a Comment