Tuesday, April 28, 2015

अनन्तपद्मनाभ की स्तुति


शेषेऽशेषशेषिशयने शेषाशेषशेषिशरणाः ।
शेषाशेषशेषभरणाः शेषे शेषशेषिकरुणाः ॥

शेषे=अनन्ताख्ये आदिशेषे, अशेषशेषिशयने=सर्वेषां शरीरी यः तस्य शयने (अनन्तपद्मनाभस्य शयने), शेषाशेषशेषिशरणाः=इतरे शेषाः जीवात्मानः अशेषशेषिणं शरणं गताः, शेषाशेषशेषभरणाः=बलदेवस्य सकलप्रसादभरणाः, शेषे=अस्मिन् लोके, शेष​-शेषिकरुणाः=शेषस्य​, शेषिणः भगवतः च करुणापूर्णाः (राजन्ते)॥

१. शेषे=अत्र शेषशब्दः सर्पराजः अनन्तः इत्यर्थे प्रयुक्तः, तस्य सप्तमी शेषे = सर्पराजे इति ।
२. अशेषशेषिशयने = अशेषः=सकलजीवात्मा, अशेषस्य शेषी = अशेषशेषी, अर्थात् सकलजीवात्मनं शेषी = अङ्गी, तस्य शयने = अनन्तपद्मनाभस्य शयने इति ।
३. शेषाशेषशेषिशरणाः = शेषाः = इतरे चराचरपदार्थजातं, अशेषशेषिणः शरणाः = अशेषशेषिशरणाः, अर्थात् सर्वेषां अङ्गिरूपं भगवन्तं शरणं गताः जीवात्मानः इति ।
४. शेषाशेषशेषभरणाः = शेषस्य = बलदेवस्य​, अशेषशेषाणां=सकलप्रसादैः, भरणाः=पोषिताः, अर्थात् कृष्णभ्रातुः सकलविधप्रासादेन पोषिताः इति ।
५. शेषे=शेषः भगवतः शरीररूपं जगत्, तस्मिन् इति ।
६. शेषशेषिकरुणाः = शेषस्य शेषिणः च करुणाभाजः
७. राजन्ते = शोभन्ते इति पदम् अध्याहार्यम् ॥

अत्र श्लोके शेषशब्दः बहुषु अर्थेषु प्रयुक्तः वर्तते । तद्यथा -
१.    शेषः = सर्पराजः, २. अशेषः = सकलः, ३. शेषी (शेषिन्) = अङ्गी (तद्रूपी भगवान्), ४. शेषः = इतरः (उद्दिष्टाद् अन्यः), ५. शेषः = बलभद्रः, ६. शेषः = प्रसादः, ७ . शेषः = लोकः (जगत्) ॥

तात्पर्यम् - अनन्ते भगवतः शयने, अशेषशेषिणं भगवन्तं शरणं गताः सर्वेऽपि जीवाः, भगवतः श्रीकृष्णस्य भ्रातुः सकलप्रसादैः पोषिताः, अस्मिन् लोके सर्पराजस्य शेषिणः भगवतः च करुणया पूर्णाः राजन्ते ॥

हिन्दी - अनन्त नाम के सर्पराज पर लेटे हुए भगवान् की दृष्टि से, उस सकल जीवों के मूलभूत ईश्वर से शरण लिए हुए सभी जीव​, श्रीकृष्ण के भाई बलदेव के सर्व विध प्रसाद से पोषित​, सर्पराज और भगवान् की करुणा से इस दुनियां में जीते हैं ॥


*******

No comments: