Thursday, April 23, 2015

॥ नमोऽस्तु शङ्कराय ॥

TODAY IS SHRI SHANKARA JAYANTI, LET US SALUTE THE YUGA PURUSHA

नमोऽस्तु शङ्कराय

वटक्कुनाथभक्तदम्पतीसुबोधपुत्रता
सुकेरलेषु सिद्धवंशनम्बुतीरिजन्मता ।
सुमातृवत्सलेन पोषिता सुपुत्रधीरता
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥१॥

अधीतवेदसर्वशास्त्रशीलवांश्च बुद्धिमान्
परम्परानुपालने पटुश्च सिद्धवाग्घरः ।
अभूतपूर्वपाण्डिती सनातने च यस्य धीः
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥२॥

अभेदतत्त्वसारवर्णनेऽद्वितीयभास्करः
श्रुतेः प्रमाणमाश्रितं ह्यपेक्षितं च वर्णितम् ।
अमूलवाङ् न चोदितं परं परञ्च दर्शितं
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥३॥

प्रसन्नभाष्यमालया विभूषितं प्रभाषितं
विपश्चितां प्रमोदनाय वैदुषी प्रदर्शिता ।
प्रचण्डतर्कभाषया श्रुतेर्मतं प्रमाणितं
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥४॥

गुरोश्च पादसेवयाऽऽदिशङ्करोऽभवद्भवे
शिवस्य भूरि सेवयाऽञ्जसा भुवं परित्यजन् ।
वितण्डदर्शनं विखण्ड्य धर्मरक्षकोऽभवन्
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥५॥

******

No comments: