Thursday, April 23, 2015

श्रीरामानुजपञ्चकम्

॥ श्रीरामानुजपञ्चकम् ॥

श्रुतिमतमनुसृत्य सम्प्रवर्त्य च वैष्णवम् ।
जनमतमिह सम्यक् जीवताच्छ्रीभाष्यकारः ॥१॥

पुरुषं सत्कुलसम्पन्नं मनुजं मानवधीरं तम् ।
विनयं सद्गुरुवीक्षाभं प्रणुमो रामपरं शान्तम् ॥२॥

आर्द्राभेऽवतीर्यास्मिन् जगति महितं हेतुजनुषं
श्रीभूताह्वतीर्थेऽस्मिन् प्रभवविभवं द्राविडनिभम् ।
गोत्रेऽशेषमूर्धन्येऽनघगुणरविं लक्ष्मणमुनिं
विश्वे को न वन्देत प्रखरधिषणं वैष्णवयतिम् ॥३॥

पाषण्डचण्डपरमतान् खण्डयित्वा वितण्डान्
वैशिष्ट्यपूर्णनिजमतं स्थापयित्वा सुबद्धम् ।
श्रीवैष्णवाख्यगुरुमतं वैदिकं तर्कसिद्धं
प्रज्ञानवादशुभमतं राजते भाष्यकारः ॥४॥

प्रसन्नगम्भीरभाष्येषु सत्सु
कृतेश्च कर्तुश्च सिद्धेषु तेषु ।
इदं ह्यनन्यं विभाति क्षितौ च
गुणेन शैल्या च माभाष्यमेव ॥५॥

नन्दताद् रामानुजो यतिः जीवतात् तद्वैष्णवं मतम् ।
तिष्ठताद् विश्वे परस्समाः जयताद् रामानुजं यशः ॥६॥


*******

No comments: