पर्शु-परशु-शब्दविचारः
अर्धर्चाः पुंसि च
(२-४-३१) पार्श्वादिषूपसंख्यानम् (वा.३-२-१५) पर्श्वादियौधेयादिभ्योऽणञौ (५-३-११७) इति त्रिषु स्थानेषु अष्टाध्याय्यां गणपाठे पर्शु अथवा पार्श्व इति शब्दः
पठितः । तत्र अर्धर्चाः पुंसि च (२-४-३१) इति सूत्रे गणपाठे पठितः "पार्श्व"शब्दः
। तस्य सूत्रस्य अर्थः भवति अर्धर्चादयः पुंसि क्लीबे च स्युः इति । तथा च अत्र
गणे पठितानां शब्दानाम् इदमेव प्रयोजनं ते शब्दाः पुंसि क्लीबे च भवन्ति । अत्र
गणे पठितः पार्श्वशब्दः । तस्यापि प्रयोजनं - "पार्श्वम्", "पार्श्वः" इति ।
द्वितीयं वार्त्तिकं
पार्श्वादिषूपसंख्यानम् (३-२-१५) इति । अधिकरणे शेते (३-२-१५) इति सूत्रम् । एतस्य
अयम् अर्थः - अधिकरणे उपपदे शीङ्-धातोः अच्-प्रत्ययः स्यात्। तेन खे शेते इति खशयः
इति सिद्धम् । परन्तु पार्श्वशयः इति न सिद्ध्यति । यतः तस्य विग्रहः भवति
"पार्श्वाभ्यां शेते" इति । अत्र "पार्श्वाभ्याम्" इति न
सप्तमी (अधिकरणम्) । तस्मात् वार्तीकारम्भः - "पार्श्वादिषूपसंख्यानम्"
इति। तेन पार्श्व-प्रभृतयः उपपदरूपेण भवन्ति चेदपि अधिकरणाभावेऽपि (सप्तम्याः
अभावेऽपि) अच्-प्रत्ययः भवति । तथा च पार्श्वाभ्यां शेते = पार्श्वशयः इति सिद्धम्
॥
उपरि सूत्रद्वयेऽपि
पार्श्व-शब्दस्य रूपनिष्पत्तिविषये किमपि नास्ति । एकत्र लिङ्गविषये, अन्यत्र उपपदरूपेण पार्श्वशब्दः भवति चेत् अच्-प्रत्ययः (कृत्) इति विषये च
प्रसङ्गः । किं च एताभ्यां सूत्र-वार्त्तिकाभ्याम् उद्धृतः
पार्श्व-शब्दः समीपार्थकः,
कक्षस्य अधोभागार्थकः,
सन्निकृष्टार्थकः च । पार्श्वः इति जिनस्य अपि नाम । अत्र आयुधार्थः नास्ति एव ॥
तृतीये सूत्रे
पर्श्वादियौधेयादिभ्योऽणञौ (५-३-११७) इत्यत्र रूपनिष्पत्तिविषयकः प्रसङ्गः ।
सूत्रस्य अयम् अर्थः - पर्शु इत्यादिभ्यः अण्, यौधेय इत्यादिभ्यः अञ् च भवतः यदि इमे शब्दाः
आयुधजीविसंघवाचिनः भवेयुः । पर्शु+अण् = (आदिवृद्धिः, गुणः, अव्-आदेशः) पार्शवः इति तद्धितान्तं रूपम् । अत्र पार्शवः पार्शवौ पर्शवः
इति रूपाणि भवन्ति । अर्थात् बहुवचने "पार्शवाः" इति न भवति, परन्तु "पर्शवः" इति भवति । अत्र पर्शु शब्दात् "द्व्यञ्मगध-कलिङ्ग-सूरमसादण्-" (४-१-१७०) इति सूत्रेण अण्, तस्य बहुत्वे "तद्राजस्य बहुषु
तेनैवास्त्रियाम्-" (२-४-६२) इति लुक्, तदुपरि अनेन सूत्रेण संघवाचित्वे अण्, तस्य पुनः "तद्राजस्य बहुषु तेनैवास्त्रियाम्" इति बहुत्वे लुक्, ततः "पर्शवः" इति बहुवचने रूपम् । (अत्र कश्चन विचारः अस्ति, तदत्र मास्तु) । तथा च पार्शवः पार्शवौ पर्शवः इति रूपाणि भवन्ति ॥
एतस्य
"पार्शवः" इत्यस्य अर्थः भवति - पर्शुना आयुधेन जीवति यः संघः सः
पार्शवः अथवा पर्शुना आयुधेन युद्ध्यते यः सः योद्धा पार्शवः ॥
परशुः पर्शुः इति
शब्दौ आयुधार्थकौ (कुठारार्थे) । परान् शृणाति इति परशुः पर्शुः वा । पर+शॄ
इत्यवस्थायाम् "आङ्-परयोः खनिशॄभ्यां डिच्च" (उ.१-३४) इति उणादिसूत्रेण कुः (कुर्भ्रश्च (उ.१-२२)
इत्यतः कुः इत्यनुवर्तते । तथा च सूत्रार्थः आङ्-परस्य खनु-धातोः, पर-परस्य शॄ-धातोश्च कुः स्यात्, स च डित्), तेन पर+शॄ+कु= (पर+शॄ+उ=पर+श्+उ=परशु+सु=परशुः) परशुः इति रूपम् । पर+शुः इत्यत्र पृषोदरादित्वात् पर इति रेफोत्तराकारलोपे
पर्+शुः=पर्शुः इत्यपि रूपम् इति भट्टोजीदीक्षितः । स्पृश धातोः अशुन्-प्रत्यये
स्पृश इत्यस्य पृ इत्यादेशे गुणे पर्+शु=पर्शुः इति क्लिष्टकल्पनां तथापि
युक्तकल्पनां करोति शब्दकल्पद्रुमकारः । उभौ अपि आयुधार्थौ एव ॥
इति परशुः, पर्शुः, पार्शवः इत्यादिशब्दानां रूपविवेकः ॥
*******
No comments:
Post a Comment