॥ द्विः अण्-विधाने हेतुः ॥
पर्शु-शब्दात्
"द्व्यञ्मगध-" इत्यादिना अण् तस्य "तद्राजस्य-" इत्यनेन
लुक्, पुनः संघविवक्षायाम् "पर्श्वादियौधे-" इत्यादिना अण् तस्यापि
"तद्राजस्य-" इत्यादिना लुक्, तेन बहुवचने "पर्शवः" इति रूपं सिद्धम् ।
अत्र इयं शंका - द्विः अण् विधाय तस्य लुग्-विधानापेक्षया साक्षाद्
"पर्श्वादि-" इत्यादिना एव अण् कुतो न विधीयते इति । अर्थात् पर्शुः इति
जनपदशब्दात् अपत्ये अर्थे "द्व्यञ्मगध-" इत्यनेन अण्, तस्य "तद्राज-" इत्यनेन लुक् । ततः संघविवक्षायाम् अण्, तस्यापि "तद्राज-" इत्यनेन लुक् । अत्र कुतः साक्षाद् एव
जनपदवाचिनः पर्शु-शब्दात् "पर्श्वादि-" इत्यनेन अण् न विधीयते इति शंका
। तस्य इदं समाधानम् उच्यते - अत्र केवलः पर्शु-शब्दः जनपदवाची, तस्माद् स्वार्थे प्रकृतसूत्रेण "पर्श्वादि-" इत्यनेन अण् विधीयते
चेद् अर्थात् जनपदवाचिनः पर्शु-शब्दात् स्वार्थे अण् विधीयते चेद् जनपदवाचित्वमेव
सिद्ध्यति, तच्च न इष्यते, अपत्यार्थत्वं संघवाचित्वं वा न सिद्ध्यति , तच्च अपेक्ष्यते । अतः
प्रथमम् अपत्यार्थे "द्व्यञ्मगध-" इत्यनेन अण् विधाय ततः
संघवाचित्वविवक्षायां "पर्श्वादि-" सूत्रेण स्वार्थे अण् विधीयते । अत्र कश्चन अवान्तरशंका उदियात् । अपत्यार्थस्य पर्शु-शब्दस्य
संघवाचित्वं कथमिति । तत्र इदं समाधानं भवति - बह्वपत्यवाचित्वं नाम संघवाचित्वम्
(समूहवाचित्वम्) एव इति ॥
*******
No comments:
Post a Comment