॥ हे सुभ्रु - साधुत्वविचारः ॥
वधूः, सुभ्रूः, पुनर्भूः इत्यादयः शब्दाः स्त्रियाम् ऊकारान्ताः । अत्र विचारः
"सुभ्रू" इति ऊकारान्तस्य सम्बोधनप्रथमायां किं रूपम् इति । सम्बोधनप्रथमायां
"हे सुभ्रूः" इति अथवा "हे सुभ्रु" इति रूपम् इति संशयः ।
प्रथमं सुभ्रूः इत्यस्य व्युत्पत्तिः विचार्यते - शोभना भ्रूः यस्याः सा = सुभ्रूः
इति । भ्रूः इति शब्दः कथं निष्पन्नः ।
भ्रमति इति भ्रूः । अत्र भ्रमेश्च डूः (उ-२.२३६) इति सूत्रेण डू-प्रत्ययः ।
डू इत्यत्र डकारः इत्संज्ञकः । तेन भ्रम्+डू इति स्थिते, डकारस्य इत्संज्ञायां भ्रम् इत्यस्य टि-लोपः । भ् र् + ऊ = भ्रू इति
डू-प्रत्ययान्तम् । अत्र डू इति न स्त्रीप्रत्ययः, अतः गोस्त्रियोरुपसर्जनस्य
(१-२-४८) इति सम्बुद्धौ ह्रस्वः न भवति । अतः ह्रस्वाभावात् "हे सुभ्रु" इति
रूपं न सिद्ध्यति । यदि अत्र अम्बार्थनद्योर्ह्रस्वः (७-३-१०७) इति सूत्रेण
ह्रस्वः भवतु इति उच्यते,
तदपि न भवति । यतः नेयङुवङ्स्थानावस्त्री (१.४.४) इति सूत्रेण
अस्त्रीप्रत्ययान्तस्य तदन्तस्य च नदी-संज्ञा निषिद्ध्यते । सुभ्रू इति
अस्त्रीप्रत्ययान्तः । नदी-संज्ञायाः अभावे
अम्बार्थनद्योर्ह्रस्वः (७-३-१०७) इति सूत्रम् अपि न प्रवर्तते । तथा च अनेन अपि
"हे सुभ्रु" इति रूपं न सिद्ध्यति ॥
तर्हि कथं
शास्त्रकविः भट्टिः "हापितः क्वासि मे सुभ्रु" (भ.का.६-११) इति, महाकविः कालिदासः च "विमानिता सुभ्रु पितुर्गृहे कुतः" (कु.सं.५-४३) इति प्रयुक्तवन्तौ । तत्र स च ह्रस्वान्तः प्रयोगः दोषपूर्णः एव
इति भट्टोजीदीक्षितः ॥
अत्र
तत्त्वबोधिनीकारः एकं समाधानं विचार्य तत् खण्डयति पश्चात् । तद्यथा -
नेयङुवङ्स्थानावस्त्री (१.४.४) इति सूत्रम् । अत्र उत्तरसूत्राद् "वामि"
(१.४.५) इत्यतः "वा" इति पदम् अपकृष्य पूर्वसूत्रेण विहितः
नदीसंज्ञानिषेधः विकल्पेन प्रवर्तते इति अर्थं परिकल्प्य, विकल्पेन नदीसंज्ञायाः निषेधात् एकस्मिन् पक्षे नदी-संज्ञायाम्
अम्बार्थनद्योर्ह्रस्वः (७-३-१०७) इति ह्रस्वे "हे सुभ्रु" इति रूपं
सिद्धम् । परन्तु एषः पक्षः खण्डितः तत्त्वबोधिनीकारेण एव । यदि नदीसंज्ञाविकल्पः
करणीयः तर्हि पूर्वसूत्रे "न+इङुवङ्स्थानावस्त्री"
इति नञः प्रयोगः व्यर्थः स्यात् । किञ्च उत्तरसूत्रे "वा+आमि" इत्यत्र
वा-ग्रहणम् अपि व्यर्थं स्यात् । लाघवेन "वा+इयङुवङ्स्थानावस्त्री"
इत्येव पाणिनिना सूत्रितं स्यात् । अतः एषः पक्षः न साधुः ॥
तर्हि कथम् अस्य
समाधानम् इति प्रश्ने दीक्षितस्य मतम् एषः प्रयोगः असाधुः एव इति । इतरे तु
कविप्रयोगसमर्थनदृष्ट्या अत्र "सुभ्रु" इति सामान्यकथने नपुंसकलिङ्गस्य
प्रयोगः इति समर्थनं कुर्वन्ति कथञ्चित्, यद्यपि इदमपि समाधानं तथा न स्वरसम् इत्येव
अभिप्रायः ॥
अत्र कौमुद्याः
सरलाव्याख्याकारः जीवानन्दः समाधानम् अन्यद् दर्शयति । तद्यथा - "प्रमाद
एवायमिति बहवः" इति दीक्षितस्य वाक्ये "प्रमाद"शब्दस्य व्याख्या
सरलाकारेण इत्थं क्रियते - प्रमाद इति । विरहपीडितस्य रामस्य एव प्रमादलक्षणः
प्रमादः, न तु कवेः । स च काव्ये विरहपोषकतया गुणाय एव कविना तथा निबद्धः इति
विभावनीयम् इति । अर्थात् कविः काव्यनायकस्य (पात्रस्य) मनोऽनुकूलं प्रयोगं करोति, न तु व्याकरणानुकूलम् इति तात्पर्यम् ॥
अन्ये तु अप्राणिजातेश्चारज्ज्वादीनाम्
(वा.४-१-६६)
इत्यत्र
"अलाबूः" "कर्कन्धूः" इत्यूकारन्तस्य अपि ऊङ्-प्रत्ययम्
उदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात् क्वचिद् ऊकारान्तस्य अपि ऊङन्तत्वाद्
नदीत्वे ह्रस्वम् इत्याहुः । अत एवाह वामनः- ऊकाराद् अपि ऊङ्-प्रकृतेः इति ॥
अर्थात् भाष्योदाहरणप्रामाण्यात् ऊङन्तस्य अलाबू इत्यस्य पुनः ऊङ्-विधानं भवति ।
अत्र ऊकारान्तस्य पुनः ऊङ्-विधानसामर्थ्यात् क्वचिद् अस्त्रीप्रत्ययान्तस्य अपि
ह्रस्वः भवति इति ज्ञाप्यते इति तात्पर्यम् ॥
परन्तु अत्र अलाबू इत्यस्त्र
ऊकारान्तस्य ऊङ्-विधानं नोङ्धात्वोः (६-१-१६५) इति विभक्तेः उदात्तत्वनिषेधः प्रयोजनम् इति
कैयटः नागेशोऽपि ॥ अतः "सुभ्रु" इति ह्रस्वः सम्बुद्धौ प्रमादः एव इति
दीक्षितमतम् एव तिष्ठति ॥
*********
No comments:
Post a Comment