॥ दृष्टान्त-उदाहरणयोः भेदः ॥
सामान्यतया दृष्टान्तः उदाहरणम् इति द्वयमपि पर्यायवाचि ।
शास्त्रेऽपि क्वचित् पर्यायत्वेन दर्शितं क्वचिद् अन्यथा अपि । दृष्टः अन्तो
निश्चयो यस्मिन् इति दृष्टान्तस्य व्युत्पत्तिः । अर्थात् एकस्मिन् पदार्थे दृष्टः
धर्मः अन्यत्र पदार्थेऽपि (तत्समानः) दृश्यते तेन निश्चयः जायते उपमेयपदार्थस्य
विषये इति । तथापि न्यायसूत्रे दृष्टान्तलक्षणं पृथग् दर्शितम् उदाहरणलक्षणं च ।
तद्यथा - लौकिकपरीक्षकाणां
यस्मिन्नर्थे बुद्धिसाम्यं सः दृष्टान्तः इति दृष्टान्तलक्षणम् । (न्यायसूत्रं-प्रथमाध्यायः सू-२७) अर्थात् यस्मिन्
विषये द्रष्टॄणाम् बुद्धौ समानप्रत्ययः जायते सः दृष्टान्तः । एतदेव लक्षणं
प्रकारन्तरेण उक्तं - वादिप्रतिवादिनोः संप्रतिपत्तिविषयोऽर्थो दृष्टान्तः । यथा पर्वतो वह्निमान्
धूमात् महानसवद् इत्यादौ महानसो
दृष्टान्तः । स द्विविधः - साधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तः च । आद्यः
पर्वते वह्निसाधने धूमवत्त्वस्य हेतोर्महानसः । द्वितीयः तत्रैव धूमवत्त्वस्य
हेतोर्महाह्रदः ॥
तथा च उदाहरणलक्षणं यथा - साध्यसाधर्म्यात्तद्धर्मभावी
दृष्टान्तः उदाहरणम्,
तद्विपर्ययाद्वा विपरीतम् (न्यायसूत्रं-प्रथमाध्यायः
सू-३६, ३७) इति द्वेधा दर्शितम्
। अर्थात् यस्य या दृशः धर्मः तादृशः
धर्मः अन्यत्र दृश्यते चेत् तद् उदाहरणम् । तथैव यस्य यादृशः धर्मः नास्ति तादृशः
धर्मः अन्यत्रापि न दृश्यते चेत् तद् विपरीतम् उदाहरणम् इति । शास्त्रीयशैल्या
वक्तव्यं चेद् - अनुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्य-ज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठ-नियतव्यापकत्वाभिमत-सम्बन्धबोधजनकशब्दत्वम्
उदाहरणत्वम् इति उदाहरणसामान्यलक्षणम् । किञ्च साध्यसाधनसम्बन्धबोधकत्वं, साध्यसाधनाभावसम्बन्धबोधकत्वञ्च
इति विशेषलक्षणद्वयम् । अर्थाद् इतरार्थान्वितस्वार्थाबोधकन्यायावयवत्वमुदाहरणत्वम् इति
सामान्यलक्षणम् । अन्वयव्याप्तिबोधकतत्त्वं व्यतिरेकव्याप्तिबोधकतत्त्वञ्च इति
विशेषलक्षणद्वयम् ॥
उदाहरणलक्षणे सूत्रकारेण शब्दद्वयमपि प्रयुक्तं
"दृष्टान्तः उदाहरणम्" इति । तेन इदं स्पष्टं भवति सूत्रकारः अपि अनयोः
पार्थक्यं न मन्यते इति । पुनश्च दृष्टान्त-उदाहरणलक्षणयोरपि साम्यं दृश्यते, तेनापि इदं स्पष्टम् अनयोः भेदः नास्ति इत्येव
सूत्रकारस्य मतम् इति ॥
साहित्यदर्पणे –
यत्र
तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यतेऽभिमतश्चार्थस्तदुदाहरणं
मतम् ॥
इति लक्षणम् अभिहितम् । इष्टस्य अर्थस्य साधनाय तदितरद्
वाक्यं यदा दर्श्यते तद् उदाहरणम् इत्यर्थः । तत्रैव पुनः - उदाहरणमुत्कर्षयुक्तं
वचनमुच्यते इत्यपि दृश्यते । इदं लक्षणं किञ्चन भिन्नमेव वस्तु निरूपयति, तस्यापि उदाहरणम् इति नाम । यथा -
देवीं वाचमुपासते हि
बहवः सारं तु सारस्वतं
जानीते नितरामसौ
गुरुकुलक्लिष्टो मुरारिः कविः।
अब्धिर्लङ्घित एव
वानरभटैः किं त्वस्य गम्भीरताम्
आपातालनिमग्नपीवरतनुर्जानाति
मन्थाचलः॥
इति मुरारिकवेः वचनम् अत्र उदाहरणम् । एतच्च न प्रकृतम्, अतः इदं त्यजामः । दृष्टान्तस्तु
सधर्म्मस्य वस्तुनः प्रतिविम्बनम् इति साहित्यदर्पणे उक्तम् । अर्थाद् एकस्मिन्
वस्तुनि विद्यमानः धर्मः अपरस्मिन् वस्तुनि विद्यमानेन धर्मेण समानतां (पूर्णतः
अंशतः वा) भजन् तस्मिन् धर्मिणि स्वस्य
धर्मिणः प्रतिविम्बनं यत् कारयति इति । अत्रापि दृष्टान्त-उदाहरणयोः भेदः स्पष्टं न
दृश्यते इति हेतो: उभयोरपि पर्यायत्वे
न कापि क्षतिः इति ज्ञायते ॥
उपायहृदयाख्ये ग्रन्थेऽपि दृष्टान्तलक्षणं दर्शितम् इत्थं - दृष्टान्तवचनं
हि यत्र पृथग्जनानामार्याणाञ्च बुद्धिसाम्यं तदा वक्तव्यम्। यथा चित्तं चञ्चलं
द्रुतवायुवत्। सर्वेषां जनानां वायुचाञ्चल्यस्य प्रतीतेः इति ॥
एवञ्च यद्यपि वस्तुनोः
एकस्मिन् अर्थे बुद्धिसाम्यता,
साध्यसाधर्म्याद् तद्धर्मभाविता इति सूक्ष्मभेदः दृष्टान्त-उदाहरणयोः शास्त्रे दर्शितः तथापि अनयोः लोकव्यवहारे
नास्ति भेदः इत्येव निर्णयः ॥
यथाशक्ति विवरणं प्रदत्तं, स्पष्टं भवेद् इति
विश्वासः ॥
******
No comments:
Post a Comment