Sunday, April 12, 2015

शशिभृन्नवपल्लवे श्लोकस्य अर्थः

शशिभृन्नवपल्लवे श्लोकस्य अर्थः

शशिभृन्नवपल्लवे शशांके मकरन्दस्रुतिवारिणी सरोजे ।
अपि चास्य मरुद्गणान्प्रसूते तिलकुसुमं स्फुटचम्पकौघदाम्नि ॥

शशिभृन्नवपल्लवे = (नवं पल्लवं यस्य सः = नवपल्लवः, शशिभृतः नवपल्लवः = शशिभृन्नवपल्लवः, तस्मिन् = शशिभृन्नवपल्लवे) शिवस्य नूतनकलया युक्ते, शशाङ्के = चन्द्रे, मकरन्दस्रुतिवारिणीसरोजे = (मकरन्दानां स्रुतिः मकरन्दस्रुतिः, मकरन्दस्रुतेः वारि = मकरन्दस्रुतिवारि, मकरन्दस्रुतिवारि अस्याम् अस्ति इति = मकरन्दस्रुतिवारिणी, मकरन्दस्रुतिवारिण्याः सरोजं = मकरन्दस्रुतिवारिणीसरोजं, तस्मिन् = मकरन्दस्रुतिवारिणीसरोजे) पुष्परसस्रवज्जलयुक्ते तडागे, च = अपि, अस्य अपि = एतस्य अपि, स्फुटचम्पकौघदाम्नि = स्फुटः = विकसितः, चम्पकः = चम्पकपुष्पं = स्फुटचम्पकः, स्फुटचम्पकानाम् ओघः = स्फुटचम्पकौघः = विकसितचम्पकपुष्पाणाम् समूहः, स्फुटचम्पकौघस्य दाम (रज्जुः अथवा सूत्रम्) = स्फुटचम्पकौघदाम​, तस्मिन् = स्फुटचम्पकौघदाम्नि = विकसितचम्पकपुष्पाणां समूहस्य सूत्रे अर्थात् विकसितचम्पकपुष्पमालायाः सूत्रे, तिलकुसुमं = तिलस्य कुसुमं (अपि), मरुद्गणान् = वायोः समूहान्, प्रसूते = प्रसरति ॥

तात्पर्यम् -- यथा चम्पकपुष्पमालायाः सूत्रेण एव गन्धरहितस्य तिलकुसुमस्यापि गन्धवत्त्वं तथा चन्द्रस्य भगवता शिवेन धार्यमानत्वाद् एव प्रसिद्धिः, तडागस्य मकरन्दप्रवहितजलेन एव प्रसिद्धिः ॥

हिन्दी -- जैसे चम्पक फूल की माला के सूत्र को आश्रित करने से ही गन्ध रहित तिल पुष्प का भी गन्ध का अनुभव होता है, वैसे ही भगवान महादेव के आश्रय से ही चन्द्र की प्रसिद्धि, और मकरन्द के प्रवाह से ही तडाग की भी प्रसिद्धि है ॥  


*******

No comments: